(पृ० १५६)
स्थापनं नालयोगाङ्घ्रेः स्रवदूर्ध्वोपलस्य च ।
स्थूपिकास्थापनं चैव वक्ष्ये तच्छृणुत द्विजाः ॥ ६१।१ ॥
अयने चोत्तरे वापि दक्षिणे प्राप्तदेशके ।
अविलम्बेन कर्तव्यं सुमुहूर्ते शुभे दिने ॥ ६१।२ ॥
प्रासादस्याग्रतः कुर्यादुत्तरे वेशदेशके ।
मण्टपं नवहस्तादिपञ्चहस्तान्तमेव च ॥ ६१।३ ॥
मध्यमे वेदिकां कुर्यान्नवभागैकभागतः ।
कुण्डानि परितः कुर्याद्भूतवेदैकसङ्ख्यया ॥ ६१।४ ॥
वृत्ताभं चतुरश्रं वा सर्वकुण्डं समाचरेत् ।
मङ्गलाङ्कुरकार्यं तु पूर्वमेव समाचरेत् ॥ ६१।५ ॥
अथवा तद्विहीनं तु स्थापनञ्चैतदाचरेत् ।
मण्डपं समलङ्कृत्य पुण्याहं वाचयेत्ततः ॥ ६१।६ ॥
अस्त्राम्बुनाथवा प्रोक्ष्य नालाद्यं स्थापयेततः ।
पञ्चमृत्पञ्चगव्यैश्च शुन्द्धोदकसमन्वितम् ॥ ६१।७ ॥
आलिप्य चन्दनाद्यैस्तु पुष्पमालाभिरावृतम् ।
कृतकौतुकबन्धस्तु वञ्जैरावेष्ट्य देशिकः ॥ ६१।८ ॥
स्थण्डिलं वेदिकोर्ध्वे वा भूतले वा समाचरेत् ।
अष्टद्रोणेन शालीनामर्धेनार्धेन वा भवेत् ॥ ६१।९ ॥
तदर्धं तण्डुलोपेतं तदर्धं तिललाजकम् ।
वस्त्रैर्दर्भैः समाछाद्य हृदयेन तु मन्त्रतः ॥ ६१।१० ॥
पूजयेत्परितः सर्वान् वस्त्रेणाच्छादयेत्पुनः ।
स्थापयेत्परितः कुम्भानष्टौ वस्त्रादिसंयुतान् ॥ ६१।११ ॥
ससूत्रनुदसम्पूर्णानिन्द्राद्यधिप संयुतान् ।
गन्धाद्यैरर्चनां कुर्याद्धृदयेन विवक्षणः ॥ ६१।१२ ॥
मूर्धेष्टकाप्रतिष्टा चेदाकारं पूर्वशैलके ।
इकारं दक्षिणे न्यस्त्वा उकारं पश्चिमे न्यसेत् ॥ ६१।१३ ॥
एकारं सौम्यदेशे तु पृथग् वस्त्रेण वेष्टयेत् ।
नन्दां भद्रां जयां पूर्णां क्रमेणाभ्यर्चयेत्सुधीः ॥ ६१।१४ ॥
ततो होमः प्रकर्तव्यः वह्निकार्योक्तमार्गतः ।
समिदाज्यचरूंश्चैव तिलं वै होमयेत्सुधीः ॥ ६१।१५ ॥
पलाशोदुम्बराश्वत्थवटाः पूर्वादिदेशके ।
प्रधानस्य पलाशः स्यादेकं वा सर्वकुण्डके ॥ ६१।१६ ॥
शतसङ्ख्यं तदर्धं वा शिवमन्त्रेण होमयेत् ।
शिवाद्दशांशतोऽङ्गानि तर्पयित्वा समाहितः ॥ ६१।१७ ॥
आत्मादितत्वं विन्यस्य ब्रह्माद्यधिपतीन्न्यसेत् ।
मूर्तिमूर्तीश्वरान्न्यस्त्वा तत्त्वतत्त्वेश्वरान् न्यसेत् ॥ ६१।१८ ॥
पूर्णाहुतिं ततो हुत्वा वौषडन्तेन मूलतः ।
नालाद्यं स्थापयेत्पश्चादधिवासयुतं तु वा ॥ ६१।१९ ॥
मूले तु नवरत्नं वा पञ्चरत्नमथापि वा ।
तदलाभे हिरण्यं वा न्यस्त्वा संस्थापयेद्धृदा ॥ ६१।२० ॥
मूर्धेष्टकाविधानं चेदाद्योपलविधानतः ।
स्थापयित्वा तदूर्ध्वे तु स्थूपिकीलं तु विन्यसेत् ॥ ६१।२१ ॥
अनेकस्थूपिकाकीलेप्वेवमेव समाचरेत् ।
दारुनिर्मितहर्म्यं चेद्वंशे वा मूलकूटके ॥ ६१।२२ ॥
स्थूपिकीले न्यसेद्धीमानिष्टकास्थापनं विना ।
स्तम्भसंस्थापनं चेतु गर्भस्थानं तु विन्यसेत् ॥ ६१।२३ ॥
नालानां स्थापनं चेत्तु किञ्चिदीशाश्रितं न्यसेत् ।
लुपानां रोहणं चेत्तु मूलधाम्नस्तु दक्षिणे ॥ ६१।२४ ॥
(पृ० १५७)
पश्चिमे विन्यसेत्पादान् पश्चात्सर्वं च विन्यसेत् ।
द्वारे तु गर्भगेहस्य स्थापयेद्योग्यमादितः ॥ ६१।२५ ॥
आचार्यमूर्तिपांश्चैव दैवज्ञं स्थपतिं पुनः ।
पूजयेद्वस्त्रहेमाद्यैर्दद्यात्तेभ्यश्च दक्षिणाम् ॥ ६१।२६ ॥
एवं तु विहितं धाम सर्वसम्पत्सुखावहम् ।
॥ इति कामिकाख्ये महातन्त्रे नालादिस्थापनविधिर्नाम एकोनषष्टितमः
पटलः ॥