५८ स्थूपिकालक्षणविधिः

(पृ० १५५)

स्थूपिकालक्षणं वक्ष्ये प्रासादादेः सनातनम् ।
पद्मोच्चं वार्धभागो वा तदूर्ध्वे स्थूपिकायति ॥ ६०।१ ॥
अल्पीयसी शिरोर्धा वा भागोच्चं वा त्रिभागिके ।
लोहजं दारुजं वापि स्थूपिकाकीलमिष्यते ॥ ६०।२ ॥
ऊर्ध्वभूमेस्तु पादोच्चं विस्तारं पादतः समम् ।
अग्रमङ्गुलविस्तारमानुपूर्वात्कृशं नयेत् ॥ ६०।३ ॥
चतुरश्रं समं कुर्यात् त्रिभागैकमधस्ततः ।
वृत्तमूर्ध्वमधःकुर्याच्छिखिपादान्न्यसेदधः ॥ ६०।४ ॥
विस्तारं त्रिगुणायामं व्यासोच्चं पादतः समम् ।
आयामं तु यथाशोभं तथा कुर्याद्विचक्षणः ॥ ६०।५ ॥
अथवा तच्छिखायामद्विगुणं कीलदैर्घ्यकम् ।
स्तम्भव्यासार्धविस्तारं त्रिचतुर्भाग एव वा ॥ ६०।६ ॥
अग्रमर्धाङ्गुलं व्यासो शिखिपादं यथासुखम् ।
शिखराकृतिवत्कीलं लिङ्गच्छन्दमथापि वा ॥ ६०।७ ॥
द्वाविंशत्यंशके दैर्घ्ये पद्मं सार्धांशमीरितम् ।
सप्तांशविस्तरस्तस्यास्तदूर्ध्वे च तु वाजनम् ॥ ६०।८ ॥
विस्तारं द्वित्रिभागेन वेत्रमर्धोच्चमीरितम् ।
त्रिभागो विस्तरं चोर्ध्वे वाजनं चोर्ध्वमुच्यते ॥ ६०।९ ॥
त्रिभागं विस्तरं चोर्ध्वे पद्ममंशविनिर्मितम् ।
पञ्चांशो विस्तरस्तम्भः कुम्भं पञ्चांशनिर्मितम् ॥ ६०।१० ॥
विस्तारो नवभागः स्यादूर्ध्वे पद्ममथांशतः ।
पञ्चांशो विस्तरस्तस्य वेत्रमर्धविनिर्मितम् ॥ ६०।११ ॥
त्रिभागो विस्तरः तस्य कर्णस्त्वंशविनिर्मितः ।
विस्तारेण द्विभागः स्यादूर्ध्वं वाजनमर्धतः ॥ ६०।१२ ॥
विस्तारेण त्रिभागः स्याद्वेत्रमंशविनिर्मितम् ।
विस्तारं चतुरम्श स्यात् कम्पकर्णन्तु कम्पकम् ॥ ६०।१३ ॥
पूर्ववत्पद्ममर्धं स्याद्विस्तारं पञ्चभागिकम् ।
वाजनं चैकभागेन षडंशो विस्तरो भवेत् ॥ ६०।१४ ॥
ऊर्ध्वपद्ममधो यद्वत्तदूर्ध्वे वेत्रमंशतः ।
विस्तारः स्यात्त्रिभागेन तदूर्ध्वे पद्मकुड्मलम् ॥ ६०।१५ ॥
वेदांशे त्र्यंशविस्तारो मूलतः परिकल्पयेत् ।
चतुरश्रद्विरष्टाश्रं साधारं वर्तुलं तु वा ॥ ६०।१६ ॥
अथवान्यप्रकारेण स्थूपिकाभूषणं नयेत् ।
पद्मकं पञ्चकर्णं तु पञ्चकं पद्मतुङ्गकम् ॥ ६०।१७ ॥
पद्मकुम्भं च पूर्वोक्तमानेनैव समाचरेत् ।
वेदांशैः कर्णमित्युक्तस्तदूर्ध्वं पूर्ववन्नयेत् ॥ ६०।१८ ॥
द्वाविंशत्यंशकास्तत्र पूर्ववत्परिकल्पितम् ।
ईदृग्लक्षणसंयुक्तं विमानं सम्पदां पदम् ॥ ६०।१९ ॥
विपरीते विपत्यै स्यात्कर्तुः कारयितुस्तथा ।
एवामदौ तु शास्त्रार्थमालोच्यालेख्य बुद्धिमान् ॥ ६०।२० ॥
स्थापिते सम्यगुद्दिश्य सामान्यं तेन कारयेत् ।
प्रारम्भकाले सञ्चित्य सर्ववस्तु समाचरेत् ॥ ६०।२१ ॥
कृतस्य विपरीतत्वमनर्थाय भवेदिह ।
प्रमाणसहितं चैवमथवानादिकं तु वा ॥ ६०।२२ ॥
उक्तस्थाने विधातव्यं सप्रमाणं यथा भवेत् ।
कामिकाद्यागमोक्तेन प्रमाणेन समाचरेत् ॥ ६०।२३ ॥
तत्रान्येकेन कर्तव्यं नोक्तं चेदन्यशास्त्रतः ।
सिद्धान्ते नोदितं चेत्तु गारुडाद्यं प्रगृह्यताम् ॥ ६०।२४ ॥
तत्रापि नोदितं चेत्तु वास्तुशास्त्रं समाश्रयेत् ।
वक्त्रैक्यमुत्तमं प्रोक्तं तन्त्रैक्यं मध्यमं भवेत् ॥ ६०।२५ ॥
अधमं स्रोतसामैक्यं स्रोतोमिश्रं तु नीचकम् ।
तदभावान्निकृष्टं स्यादेवं बुध्वा समाचरेत् ॥ ६०।२६ ॥
कामिकाख्यं शिवज्ञानं सर्वसामान्यमीरितम् ।
मुख्यत्वात्सर्वशास्त्रेभ्यः सर्वत्र परिकीर्तितम् ॥ ६०।२७ ॥

॥ इति कामिकाख्ये महातन्त्रे स्थूपिकालक्षणविधिर्नाम
अष्टपञ्चाशत्तमः पटलः ॥