अथ वक्ष्ये विशेषेण शिखरस्य तु लक्षणम् ।
शिखरोत्सेधमानांशभागमानवशेन वा ॥ ५९।१ ॥
दण्डिकावधि तारेण पञ्चांशं द्व्यंशकं तु वा ।
सप्तनन्दशिवांशेषु त्रयोदशतिथौ तथा ॥ ५९।२ ॥
सप्तदशांशके बन्धवेदपञ्चषडंशकम् ।
सप्ताष्टांशं तु तारार्धमित्यष्टौ शिखरोदयाः ॥ ५९।३ ॥
पाञ्चालं चापि वैदेहं मागधं चापि कौरवम् ।
कोसलं शौरसेनं च गान्धारं पत्रिकं तथा ॥ ५९।४ ॥
यथाक्रमेण नामानि ज्ञातव्यानि विचक्षणैः ।
जघनादूर्ध्वमेवैते भागाः सर्वे समीरिताः ॥ ५९।५ ॥
सर्वे तु तैतिलानां स्युरर्धाधस्तात्तु मानतः ।
एकादशात्सप्तदशभागादेकांशवर्धनात् ॥ ५९।६ ॥
अवन्तिकाप्रभृत्यूर्ध्वमर्धाविष्टलुपोदयः ।
व्यामिश्रश्च कलिङ्गश्च तथा कौशिकमेव च ॥ ५९।७ ॥
वराटं द्रामिडं चैव बर्वरं कोल्लकं पुनः ।
तथा शौण्डिकमित्येवं व्यामिश्रादिलुपोदयः ॥ ५९।८ ॥
देवानां प्रथिता ह्येते ता तापसाश्रमिणामपि ।
चतुरश्रं च वृत्तं च षडश्राष्टाश्रमेव च ॥ ५९।९ ॥
द्वादशं च द्विरष्टाश्रं पद्मकुड्मलसन्निभम् ।
तथामलकपत्राभं दीर्घवृत्तं च कोमलम् ॥ ५९।१० ॥
(पृ० १५३)
अष्टाद्यष्टाष्टधाराणि हर्म्यादीनां शिरांसि च ।
षडाद्याषष्टिकर्णान्ताः सम्मतं शिखराकृतेः ॥ ५९।११ ॥
पञ्चाद्येकादशान्ताश्च चतुराद्या दशान्तकाः ।
चतुर्विधा लुपासङ्ख्या देवे देव्या निकेतने ॥ ५९।१२ ॥
पूर्वोक्तद्व्यन्तरोच्चं तु व्यामिश्रं नाम पुष्करम् ।
ऊर्ध्वस्थान्यप्यधस्थानि पुष्कराण्यर्धमानतः ॥ ५९।१३ ॥
अर्धमारभ्य संवर्ध्य पश्चादुच्चार्धभाजि हि ।
आरोहण्यवरोहाणि गुह्यमेतदुदाहृतम् ॥ ५९।१४ ॥
दण्डिकावधि तारार्धं चतुरश्रीकृतं समम् ।
कोष्णीषासितसीमाख्यं सूत्रं युक्तं घनं नयेत् ॥ ५९।१५ ॥
दण्डिकोत्तरबाहुल्यं सूत्रवेदासनान्यधः ।
आसने चतुरंशादि न्यसेद्विन्दुदशान्तकान् ॥ ५९।१६ ॥
कोष्णीषसन्धेस्तद्बिन्दुसीमन्तोच्चं समाहरेत् ।
अवाक्वाथोच्चमानानि कं मूलादासनं न्यसेत् ॥ ५९।१७ ॥
तान्येव दण्डिकादीनां पर्यन्तानि भवन्ति हि ।
कोष्णीषसङ्गात्पर्यन्तबिन्द्वन्तं तल्लुपायनम् ॥ ५९।१८ ॥
तत्तत्पर्यन्तविस्तारं ससूत्रम्? विन्यसेत्पुनः ।
विन्यसेदासने वापि तन्मानं स्याल्लुपावधि ॥ ५९।१९ ॥
एतन्मध्यलुपासीम्ना वर्धते वर्णसङ्ख्यया ।
एवमावर्त्य तत्पश्चादारोहे वावरुह्य च ॥ ५९।२० ॥
तत्तत्कोष्टेषु सञ्जातं तत्तन्मल्लयुतं भवेत् ।
समध्यं वा विमध्यं वा लुपान्यासो द्विधा मतः ॥ ५९।२१ ॥
मध्यं च मध्यकर्णं च व्याकर्णमनुकोटिकम् ।
कोतिरित्येवमुच्येत पञ्चवर्णलुपाः क्रमात् ॥ ५९।२२ ॥
तत्तत्सूत्रादधः पृष्ठवंशनिद्राणि सूत्रयेत् ।
शयितस्थितिसूत्रान्तं कीलं तत्कूटमूर्धनि ॥ ५९।२३ ॥
निधायार्धेन्दुवत्सर्वाश्चूलिका विलिखेत्समाः ।
लुपाविलुपमध्यान्तर्गता सा चूलिकाकृतिः ॥ ५९।२४ ॥
एवं स्यादृजुकायं तु चान्यदप्येवमूह्यताम् ।
बालकूटस्य विस्तारस्थितिसूत्रस्तनान्तरः ॥ ५९।२५ ॥
लुपातारस्तु दण्डो वा सपादः सार्ध एव वा ।
यथाभिमतमानो वा विस्तराद्बहुलादपि ॥ ५९।२६ ॥
विस्तारस्त्रिचतुःपञ्चभागैकांशं तु तद्घनम् ।
जानुव्यासस्तूत्तरार्धचूलिका वार्ध एव वा ॥ ५९।२७ ॥
दण्डिकाविपुलं तावत्त्रिपादार्धं तु तद्घनम् ।
वलयं जानु नीव्रं च दण्डिकाविपुलार्धतः ॥ ५९।२८ ॥
मल्लमध्यादथालीनतालमानं च यद्घनम् ।
पर्यन्ताज्जानुकान्तं च चूलिकाभाग एव वा ॥ ५९।२९ ॥
शयनात्तावदेव स्यान्नीव्रालम्बनसूत्रकम् ।
कुठारिका ललाटं च जघनं चैव सम्मतम् ॥ ५९।३० ॥
पादविष्कम्भकण्ठे वा विष्कम्भद्विगुणे तथा ।
कूटव्यासो लुपामध्यं द्विकर्णो द्विगुणो यथा ॥ ५९।३१ ॥
तदर्धं नालिकालम्बमूर्ध्वे मल्लाग्रसङ्गतिः ।
छिद्रं तन्नीव्रमात्रं वा मल्लानां तु प्रवेशनम् ॥ ५९।३२ ॥
जानुकान्तं लुपामध्ये ऊर्ध्वाधः पृष्ठवंशकम् ।
समं स्यान्नीव्रताराभ्यश्चूल्यंशो वा लुपांशकम् ॥ ५९।३३ ॥
लुपा वा सुघनं वापि वलयो वंशविस्तरः ।
तदर्धवेशनान्नीव्रं वलयस्य विधीयते ॥ ५९।३४ ॥
लुपोर्ध्वे च फलन्यासे पादबन्धसमार्धतः ।
आलिप्य च धनुर्वंशं निक्षिप्य च तदूर्ध्वतः ॥ ५९।३५ ॥
छादयेल्लोहलोष्टैश्च बन्धयेदष्टबन्धनैः ।
लुपामध्यादथ छिद्रं वलयस्य विधीयते ॥ ५९।३६ ॥
क्रियायाः पञ्चरेखास्तु कल्प्याः षोडशसङ्ख्यया ।
कुक्षिव्यासाष्टभागैकं मानमात्रमिति स्मृतम् ॥ ५९।३७ ॥
तेन मात्रेण सप्तार्धान्यर्धभागविवर्धनात् ।
आपञ्चदशसङ्ख्याताः परिलेख्यास्तु षोडश ॥ ५९।३८ ॥
(पृ० १५४)
लुपान्तोर्ध्वान्तबिन्द्वादिमथो विन्यस्य तद्विधम् ।
तद्बन्द्वादि विलेख्याथ रूपलेखाविचक्षणैः ॥ ५९।३९ ॥
प्रासादानामिमाः प्रोक्ता गृहादीनां तु षोडश ।
लुपागमाद्यद्द्विगुणं यन्मानं तेन बुद्धिमान् ॥ ५९।४० ॥
कोष्णीषासनसीमाभ्यामधः शफरमालिखेत् ।
तस्मादुपरि मल्लस्य लेखयेत्तद्विचक्षणः ॥ ५९।४१ ॥
मल्लायतादर्धभागे त्रिपञ्चाशीकृते क्रमात् ।
तत्तदंशावसानं तु तत्तन्मध्ये समालिखेत् ॥ ५९।४२ ॥
सर्वासां परिलेखानां क्रमोऽयं परिकीर्तितः ।
पाञ्चालादिलुपानां तु प्रत्येकं प्रोच्यते द्विजाः ॥ ५९।४३ ॥
ऋजुकाययुता मल्लाद्या रेखासनकाग्रयोः ।
मध्ये कृता क्रियारेखा परिलेखा तु सा स्मृता ॥ ५९।४४ ॥
लुपाघनप्रमाणेन घटिकां चतुरश्रिकाम् ।
वितस्त्यायामिनीमृज्वीं कृतमध्यमसूत्रकाम् ॥ ५९।४५ ॥
चूलिकान्तर्वर्णलुपातिर्यक्सूत्रस्य मध्यमाम् ।
विन्यस्य घटिकां पश्चाच्छिन्नां शयनसूत्रवत् ॥ ५९।४६ ॥
प्रतिवर्णे तु घटिकां तद्वर्णे तां निधापयेत् ।
क्षिप्तसूत्रस्य शेषांशच्छिन्ने वर्णलुपोदरे ॥ ५९।४७ ॥
दण्डिकोत्तरवलयस्थिरसूत्रसमं लिखेत् ।
उदरायाममध्ये तु लिखिते करकं भवेत् ॥ ५९।४८ ॥
घटिकाललाटमध्यस्थं करकं च समं यथा ।
तथा निधानघटिकां लुपोदरवशायताम् ॥ ५९।४९ ॥
तल्ललाटाकृतिश्च्छेद्या वलयाद्या लुपोदयाः ।
इष्टपार्श्वे क्षिपेच्छायां छिद्रे च वलस्य तु ॥ ५९।५० ॥
तत्तद्घटिकया तत्तन्मध्यसंहितमध्यया ।
तल्ललाटगतच्छाया तासां तासां तु वा भवेत् ॥ ५९।५१ ॥
दण्डिकावलयछिद्रस्तनजानूत्तरादिषु ।
घटिकामध्यमायामछिद्राणि वलस्य तु ॥ ५९।५२ ॥
शिरोमध्येर्ऽधमध्ये च न्यसेन्मुण्डं तुलोपरि ।
सुवर्णा मध्यबन्धाश्च खर्जूरदलसन्निभाः ॥ ५९।५३ ॥
सवलर्क्षा विधातव्या लुपा शिखरकान्तरे ।
शिखरोच्चचतुष्पञ्चभागः स्यात्पद्मतुङ्गकम् ॥ ५९।५४ ॥
वेदीविस्तारतुल्यं स्याच्छिस्वरस्य तु नीव्रकम् ।
शिखरस्य त्रिभागे तु नासिकाविस्तरो भवेत् ॥ ५९।५५ ॥
समत्रिपादो ह्यर्धो वा महानासीविनिर्गमः ।
तद्वत्सत्रिचतुर्भागहीनं स्कन्धाङ्गतुङ्गकम् ॥ ५९।५६ ॥
शक्तिध्वजस्तदर्धो वा त्रिपादो वाथ तुङ्गकम् ।
सार्धदण्डो द्विदण्डो वा क्षुद्रनासाविशालता ॥ ५९।५७ ॥
विस्तारे मुखपट्यश्च दण्डो वाध्यर्ध एव वा ।
सपादो वा त्रिपादो वा तद्घनं स्याद्यथेष्टतः ॥ ५९।५८ ॥
शक्तिध्वजस्य मूले तु विपुलं दण्डमानतः ।
मुखपटयुक्तमानो वा तावत्तत्कन्धरादयः ॥ ५९।५९ ॥
ग्रीवान्तराग्रपत्रं तु स्तम्भव्यासार्धमानकम् ।
ग्रीवोपरि कपोलं तद्द्विगुणं सार्धमेव वा ॥ ५९।६० ॥
त्रिदण्डं वा प्रकर्तव्यं गलस्त्वर्धेन वा भवेत् ।
तावच्छक्तिध्वजान्तं स्यात्सपत्रं वा सशूलकम् ॥ ५९।६१ ॥
नेत्रसंश्लिष्टमल्लं तु चूलिकास्तनमण्डितम् ।
शयितस्थितिपट्टाभ्यामङ्गुलाद्यैर्विभूषितम् ॥ ५९।६२ ॥
श्लिष्टकर्णोर्ध्वपट्टोर्ध्वप्रत्यूर्ध्वे मुष्टिबन्धनम् ।
यथाशोभननिष्क्रान्तं त्रिमुखं स्यात्तदूर्ध्वतः ॥ ५९।६३ ॥
यत्र यत्र विचित्रं तु प्रासादे परिकल्पयेत् ।
॥ इति कामिकाख्ये महातन्त्रे शिखरलक्षणविधिर्नाम
सप्तपञ्चाशत्तमः पटलः ॥