(पृ० १५२)
कण्ठस्य लक्षणं वक्ष्ये समासाच्छृणुत द्विजाः ।
तन्मूले वेदिका कार्या कण्ठोत्सेधात्त्रिभागतः ॥ ५८।१ ॥
गर्भभित्तित्रिभागैकमङ्घ्रेर्वेद्यङ्घ्रिवेशनम् ।
चतुष्पञ्चषडंशे तु समावेशाधिवेदिका ॥ ५८।२ ॥
ग्रिवावेशस्ततस्तावत्सप्ताष्टांशे तथैव च ।
समं वाध्यर्धकं वापि द्विगुणं त्रिगुणं तु वा ॥ ५८।३ ॥
वेदिकोत्सेधमानेन ग्रीवोच्चं परिकल्पयेत् ।
उत्तरं वाजनं चैव मुष्टिबन्धं मृणालिकम् ॥ ५८।४ ॥
दण्डिका वलयं चैव गलभूषणमिष्यते ।
दण्डिकान्तं गलं प्रोक्तं तदूर्ध्वे शिखरं भवेत् ॥ ५८।५ ॥
प्रस्तरोर्ध्वे वृषं स्थाप्यं शिवधाम्नि विशेषतः ।
ऊर्ध्वेन स्थापितास्ते च धाम्नोऽधस्तात्समन्ततः ॥ ५८।६ ॥
अन्तर्मण्डलदेशे तु स्थापनीयाः सपीठिकाः ।
अन्येषामपि देवानां धाम्नि तद्वाहनान् न्यसेत् ॥ ५८।७ ॥
देवीनां च तथा प्रोक्तं गलदेवांस्तु विन्यसेत् ।
एकपादयुतं ब्रह्मविष्णुसंयुक्तमेव वा ॥ ५८।८ ॥
ईदृग्रपसमायुक्तं महेशं वापि विन्यसेत् ।
पूर्वोक्तविधिना वापि पादवर्गेऽथवा नयेत् ॥ ५८।९ ॥
ग्रिवायां तु चतुर्दिक्षु नासि पादांश्च विन्यसेत् ।
तत्रैव कारयेद्वृत्तं स्फुटितं च समन्ततः ॥ ५८।१० ॥
एवं कण्ठः समाख्यातः तदूर्ध्वे शिखरं भवेत् ।
॥ इति कामिकाख्ये महातन्त्रे कण्ठलक्षणविधिः षट्पञ्चाशत्तमः
पटलः ॥