प्रासादभूषणं वक्ष्ये श्रूयतां द्विजसत्तमाः ।
स्यात् पादप्रस्तर ग्रीत्वावर्गे मूले तु वेदिका ॥ ५७।१ ॥
अध्यर्धाद्यं त्रिदण्डेन भित्तिमात्रविसारिणी ।
षट्सप्ताष्टदशोत्सेधा तत्समं दीर्घिका भवेत् ॥ ५७।२ ॥
प्रत्युच्चाद्विगुणोत्सेधा वेदिका प्रस्तरोत्तरे ।
ग्रीवोत्सेधत्रिभागाच्च ग्रीवाधस्तात्स्थिरा भवेत् ॥ ५७।३ ॥
पञ्चसप्तांशके द्वित्रिभागोच्चं वाग्रबन्धनम् ।
शेषोऽधस्तम्भखण्डः स्याद् भित्तिः पादविशालभाक् ॥ ५७।४ ॥
तत्पादः पादनिर्वेशः षट्सप्ताष्टाम्श एव वा ।
चतुर्धा बन्धनं कृत्वा कम्पमेकेन कारयेत् ॥ ५७।५ ॥
तदूर्ध्वे तु द्विभागेन निद्रा त्वेकेन वाजनम् ।
पादं वा पञ्चभागे तु त्रिद्व्यंशं वाजनं भवेत् ॥ ५७।६ ॥
कम्पमर्धेन निद्रा स्यादध्यर्धेनार्धतः कजम् ।
अर्धेन कम्पमंशेन वाजनं परिकल्पयेत् ॥ ५७।७ ॥
द्वाविंशत्यंशके तुङ्गे कर्णो द्वादशभागिकः ।
नेत्रांशेन तथा निद्रा कपोतं चतुरंशकम् ॥ ५७।८ ॥
तदूर्ध्वे वाजनं चैकं तद्वत्कर्णो द्विभागतः ।
निद्रा कार्या तदूर्ध्वस्था पट्टषट्कसमन्विता ॥ ५७।९ ॥
द्वाविंशत्यंशके तुङ्गे कर्णो द्वादशभिर्भवेत् ।
वाजनं चैकभागेन निद्रैका वाजनं त्रिभिः ॥ ५७।१० ॥
पद्मकम्पगलाब्जानि तद्वत्कर्णो द्विभागतः ।
षोडशांशे तदुत्सेधे नवांशं गलमिष्यते ॥ ५७।११ ॥
वाजनं चैकभागेन तथा निद्रा त्रिभागतः ।
पट्टपद्ममथैकांशं पद्ममेकेन कीर्तितम् ॥ ५७।१२ ॥
वेदिकाजालाकार्थं तु नैवं छेद्याद्द्विजोत्तमाः ।
द्वारार्थं देववेश्मार्थं छेदनीयं यथोचितम् ॥ ५७।१३ ॥
वेदिकानियमो धाम्नि नेष्यते सार्वदेशिके ।
एवं वेदिः समाख्याता द्वारं तु श्रूयतां द्विजाः ॥ ५७।१४ ॥
स्तम्भदेशे नवाष्टांशे सप्तांशे त्वैकभागभाक् ।
द्वारतुङ्गं तदर्धं स्याद्विस्तारो देवसद्मनि ॥ ५७।१५ ॥
नालीगेहं त्रिभागैकमर्धं वा नवपञ्चभाक् ।
पञ्चत्रिंशद्भवेत्तुङ्गमिदं वैशेषिकम् भवेत् ॥ ५७।१६ ॥
विस्तारः प्राग्वदुद्दिष्टस्त्वथवा तत्प्रकीर्त्यते ।
त्रिवितस्ति विशालं स्याद्दैर्ध्यं सप्तवितस्तिकम् ॥ ५७।१७ ॥
विस्तारायामतस्तस्मात्षड्द्वादशकराग्रकैः ।
वृद्ध्या त्रिपञ्चमानादिषड्वितस्त्यन्तकानि हि ॥ ५७।१८ ॥
(पृ० १४५)
पञ्चविंशतिमानानि द्वारतारोदयानि हि ।
तदाद्यं शयनीयस्य गृहस्य द्वादशैव हि ॥ ५७।१९ ॥
समावृतखलूरीणां तान्येवोक्तानि पण्डिताः ।
नगरग्रामदुर्गाणां शेषाण्युक्तानि वेश्मनाम् ॥ ५७।२० ॥
विस्तारो द्विगुणोत्सेधः षण्मात्रमधिकं भवेत् ।
नवमात्राधिकं वापि सर्वेषां समुदीरितम् ॥ ५७।२१ ॥
सषण्मात्रं द्वितालं च सत्रिमात्रं द्वितालकम् ।
द्वितालं क्षुद्रमानं तु सार्धतालं तु योजयेत् ॥ ५७।२२ ॥
स्वव्यासाद्द्विगुणोत्सेधात्षण्मात्रं वा त्रिमात्रकम् ।
न्यूनं तु शुभदं वारं विप्रादीनां गृहं मतम् ॥ ५७।२३ ॥
स्तम्भायामेऽष्टभागे तु षडर्धं द्वारदैर्घ्यकम् ।
तदर्धे नवभागे तु सार्धाष्टांशात्समुन्नतिः ॥ ५७।२४ ॥
त्रिव्यासद्विगुणोत्तुङ्गं नेष्टं द्वारं नृणां गृहे ।
पादोत्तुङ्गवशाद्भूमौ भूमावेवं विधीयताम् ॥ ५७।२५ ॥
उक्तोत्सेधत्रिपञ्चैकमङ्गुलेनाधिकं तु वा ।
विपुलेऽपि तथैवं स्यात्षट्सप्ताष्टांशकैस्तु वा ॥ ५७।२६ ॥
द्वारस्योभयपार्श्वे तु मण्डितस्थम्भयुग्मकम् ।
भूषणं तु बहिः कार्यं सर्वेषामपि सद्मनाम् ॥ ५७।२७ ॥
मानं लब्धोदयं यत्स्याद्भक्त्वा मात्रैर्विशेषतः ।
परिहृत्याङ्गुलिच्छेदमायाद्यं परिकल्पयेत् ॥ ५७।२८ ॥
अष्टनन्दाग्निभिश्चैव वसुनन्दचतुष्टयैः ।
गुणत्वरविदिङ्मूर्तिऋक्षसप्तनवांशकैः ॥ ५७।२९ ॥
हृतमायं व्ययं चैव यो विस्तारस्तु वारकः ।
अंशकाश्चावशिष्टास्तु कल्पनीयास्तु देशिकैः ॥ ५७।३० ॥
वास्तुनः पार्श्वयोर्मध्ये स्तम्भं सम्यङ्निधापयेत् ।
कभित्तिविसृतार्थं तु त्यक्त्वा तत्पार्श्वयोर्द्वयोः ॥ ५७।३१ ॥
मुख्यद्वारं तु तद्वामे कम्पद्वारं तदन्यके ।
कम्पद्वारं च मध्ये तु योगार्थं बहुलान्वितम् ॥ ५७।३२ ॥
कम्पं समान्तरं कुर्याद्यथाशोभमथापि वा ।
मूलवास्तुत्रिपार्श्वेषु कम्पद्वारं यथोचितम् ॥ ५७।३३ ॥
कम्पद्वारं समुद्दिश्य भित्त्यन्तः स्तम्भसंयुतम् ।
न त्यजेद्यदि तत्स्वामी मरणाय भविष्यति ॥ ५७।३४ ॥
सपादपादविस्तारः सार्धो वा योगविस्तरः ।
स्तम्भव्याससमो वापि तदर्धं बहुलं मतम् ॥ ५७।३५ ॥
त्रिपादं वोत्तराधस्तात्प्रतीकं तत्स्ववाजनम् ।
द्वारोदयाय शेषं तु त्रिधा वा पञ्चधा कृते ॥ ५७।३६ ॥
एकांशं वा द्व्यंशकं स्यादधोभूषणमूर्ध्वतः ।
शेषेण भूषणं कुर्याच्छुद्धद्वारं तु मध्यमम् ॥ ५७।३७ ॥
अष्टमङ्गलकस्योर्ध्वे लताद्याः परितो मताः ।
त्रिचतुःपञ्चषड्भागभागेन स्तम्भवैपुले ॥ ५७।३८ ॥
कवाटबहुलं प्रोक्तं दण्डार्धं वा घनं भवेत् ।
अयुग्मफलका ग्राह्या मध्यसन्धिविवर्जिता ॥ ५७।३९ ॥
तल्पस्य भूषणोर्ध्वे वा बाह्ये वा परिकीर्तिता ।
मध्यं त्यक्त्वा प्रयोक्तव्या यथाबलसमन्विता ॥ ५७।४० ॥
अस्य तल्पघनस्यार्धघनद्विगुणविस्तरा ।
दण्डास्त्रिपञ्चसप्तैव नवैकादशसङ्ख्यया ॥ ५७।४१ ॥
अश्वस्कन्धखुराभा वाश्वत्थपत्रसमा अपि ।
युग्मे महति तल्पे च दक्षिणस्थे कवाटके ॥ ५७।४२ ॥
विस्तारे त्वायतौ चैव त्र्यंशपञ्चांशके कृते ।
उपरिष्टात्त्रयांशं तु त्यक्त्वाध्ॐऽशं द्विपार्श्वयोः ॥ ५७।४३ ॥
तेषां मध्ये तु यद्द्वारं मणिद्वारमिहोच्यते ।
यथाबलं यथाशोभमयःपट्टैर्दृढीकृते ॥ ५७।४४ ॥
श्रीमुख्यैर्वामदण्डैश्च क्षेपणैः सन्धिपत्रकैः ।
अर्धचन्द्रैस्तथा शृङ्गैः पुष्पैर्नानाविधैरपि ॥ ५७।४५ ॥
योगसमबन्धकीलैश्च दैवताद्यैरलङ्कृतम् ।
ऊर्ध्वाधः शिखराश्लिष्टमूलबन्धाग्रबन्धनम् ॥ ५७।४६ ॥
(पृ० १४६)
गुल्फे ललाटसन्धौ च पट्टैर्हेमादिनिर्मितैः ।
बध्नीयात्सर्वदेशे वा यथाशोभं यथाबलम् ॥ ५७।४७ ॥
तल्पतीव्रघना तस्य तद्वद्द्विगुणविस्तरा ।
पद्मपत्रविचित्राङ्गा पट्टाङ्गा स्कन्धपट्टिका ॥ ५७।४८ ॥
प्रवेशदक्षिणे तल्पे विधातव्या मनोहरा ।
अर्गलं दक्षिणे भागे वामभागे तु तल्पकम् ॥ ५७।४९ ॥
कवाटं त्वेकवृक्षोत्थं भेदो बाह्यं तु बाह्यकम् ।
अन्तरं च विनिर्दिष्टं ज्ञात्वा कर्म समाचरेत् ॥ ५७।५० ॥
देवद्विजनरेन्द्राणां कवाटयुगलं मतम् ।
अन्ययोरेकमुद्दिष्टं महाद्वारे चतुर्युगम् ॥ ५७।५१ ॥
अनेकशृङ्खलोपेतं बहुकुण्डलभूषितम् ।
कवाटयुग्मं कर्तव्यं कोकिलार्गलसंयुतम् ॥ ५७।५२ ॥
प्रस्तरे भित्तिके वापि प्रविष्टो निर्गतोऽथवा ।
तथा कवाटो वा कार्यो यन्त्रैर्बहुविधैरपि ॥ ५७।५३ ॥
कूजत् कवाटो नेष्टव्यो विशिष्टोऽपि तथा भवेत् ।
द्वारेण सिद्धं द्वारं तु रथ्यारूपादिवोदितम् ॥ ५७।५४ ॥
लिङ्गं प्रासादसिद्धं चेन्नेष्टं द्वारं शिवद्विजाः ।
भित्तिं कृत्वा तु पञ्चाशदन्तस्त्रिंशद्बहिर्द्वयम् ॥ ५७।५५ ॥
सप्तांशैर्वा चतुस्त्र्यंशैर्नीत्वान्तर्योग उच्यते ।
अथवा योगविस्तारस्त्वङ्गुलैस्त्रिभिरेव वा ॥ ५७।५६ ॥
अङ्गुलाङ्गुलिवृद्धया तु द्वात्रिंशत्करजान्तरम् ।
बहुलं प्राग्वदुद्दिष्टं पादं वा तदुदीरितम् ॥ ५७।५७ ॥
पञ्चाद्येकादशान्तं तु द्वारतुङ्गं विधाय च ।
एकांशहीनं तन्मानं द्वारं शुद्धमिहोदितम् ॥ ५७।५८ ॥
तत्र द्व्याधिकं ग्राह्यं तन्मानं देवतोचितम् ।
एवं द्वारं समाख्यातं तोरणं श्रूयतां द्विजाः ॥ ५७।५९ ॥
त्रिदण्डो वा चतुःपञ्चदण्डस्तोरणविस्तरः ।
तत्पादः पादपादोनद्व्यंशस्त्र्यंशोऽथवा मतः ॥ ५७।६० ॥
पादार्धविस्तरो वापि तोरणस्तम्भविस्तरः ।
उत्तरान्तसमुत्सेधे नवाष्टदशभागिके ॥ ५७।६१ ॥
त्रिभागो मौलिकोत्सेधो वीरकाण्डादुपर्यधः ।
उत्तरं च त्रिदण्डं स्यात्तदर्धं वाजनं भवेत् ॥ ५७।६२ ॥
उत्तरेण समानं तु पट्टिका त्विह कथ्यते ।
तदर्धं वाजनं चोर्ध्वे तत्सर्वं स्यात्सनातनम् ॥ ५७।६३ ॥
तोरणं त्रिविधं पत्रतोरण मकरान्वितम् ।
चित्रतोरणमित्येषां मण्डनं चाधुनोच्यते ॥ ५७।६४ ॥
बालचन्द्रनिभैःपत्रैश्चित्रितं पत्रतोरणम् ।
द्वयोर्मकरयोर्वक्त्रैः सक्तं मध्यमपूरितम् ॥ ५७।६५ ॥
नानाविधलतायुक्तमेतन्मकरतोरणम् ।
तदेव पार्श्वयोर्मध्यं पूरितं च द्वयोरपि ॥ ५७।६६ ॥
नक्रतुण्डप्रग्रहैश्च तयोरास्यविनिर्गतैः ।
विद्याधरैश्च भूतैश्च सिंहेभव्यालहंसकैः ॥ ५७।६७ ॥
वाले स्रग्दण्डकैरन्यैर्मणिबन्धैर्विचित्रकम् ।
चित्रतोरणमेतत्स्याद्देवानां भूभृतां वरम् ॥ ५७।६८ ॥
गुहासु प्रतिमाद्याः स्युः पादाः सर्वाङ्गशोभिताः ।
चतुरश्राष्टवृत्ताभाः कुम्भमण्ड्यादिसंयुताः ॥ ५७।६९ ॥
पोतिकासहिता वा स्युर्वियुक्ता वा प्रकीर्तिताः ।
उत्सन्ध्यादवलम्बं तु कुर्यान्मकरपृष्ठकम् ॥ ५७।७० ॥
एकदण्डं समारभ्य सार्धदण्डविवर्धनात् ।
चतुदण्डान्तमानं तु गुहावेशनमिष्यते ॥ ५७।७१ ॥
गुहासु देवताः स्थाप्याः प्रासादस्य समन्ततः ।
दक्षिणे दक्षिणामूर्ति लिङ्गोत्थं तस्य पश्चिमे ॥ ५७।७२ ॥
ब्रह्माणमुत्तरे देशे स्थापयेद्देशिकोत्तमः ।
अर्धमण्डपदक्षांशे विघ्नेशं नृत्तरूपिणम् ॥ ५७।७३ ॥
दुर्गाञ्चोत्तरभागे स्याद्रुद्रं वा सार्वदेशिके ।
नानाकारयुतं वापि सर्वत्रैकं तु वा न्यसेत् ॥ ५७।७४ ॥
(पृ० १४७)
प्रतिमालक्षणोक्तेन मार्गेणैव समाचरेत् ।
तले तले तु देवांश्च गले चाप्येवमाचरेत् ॥ ५७।७५ ॥
क्वचिदस्मिन्विशेषोऽस्ति सुब्रह्मण्यं तु पूर्वतः ।
इन्द्रं वाहनयुक्तं वा रुद्ररूपं तु वा न्यसेत् ॥ ५७।७६ ॥
द्वारस्योभयपार्श्वे तु द्वारपालौ तु विन्यसेत् ।
गुहाद्वयं प्रकर्तव्यं द्वारस्योभयपार्श्वतः ॥ ५७।७७ ॥
उत्तरान्तं गुहोच्चं स्यान्मध्य?मं वा विधीयते ।
विहाय च गुहाबाह्ये द्वारपान् विनिवेशयेत् ॥ ५७।७८ ॥
देवता वाथ संस्थाप्या कल्पिते बाह्यभित्तिके ।
दक्षिणे नन्दिसञ्ज्ञं तु महाकालं तु वामतः ॥ ५७।७९ ॥
व्यत्यासो वा तयोः पूर्वद्वारे वा पश्चिमानने ।
दक्षिणाननयुक्ते च उत्तरास्य एव मेव वा ॥ ५७।८० ॥
चतुर्द्वारसमोपेते द्वारपानष्ट विन्यसेत् ।
यस्यां दिशि भवेद्द्वारं तां प्राचीं परिकल्पयेत् ॥ ५७।८१ ॥
अथवोदयदेशं तु रवेः प्राचीं प्रकल्पयेत् ।
सर्वत्र चोत्तरे नालः सोमस्याभिमुखो भवेत् ॥ ५७।८२ ॥
ऐशान्यां वा प्रणालं स्यात्पूर्वस्यां वा प्रकीर्तितम् ।
एवं प्रणालमाख्यातं पद्ममध्ये विशेषतः ॥ ५७।८३ ॥
गले वा द्वारदेशे वा द्वारतोरणमिष्यते ।
द्वारतुल्यो नतिर्त्र्यासान्तरः स्तम्भद्वयोरपि ॥ ५७।८४ ॥
उत्तरोत्तरयुक्ताष्टमङ्गलैस्तु नव क्रमात् ।
फलकं पञ्चवक्त्रं तु तदूर्ध्वे शूलसंयुतम् ॥ ५७।८५ ॥
चित्रकेतुपताकाश्रीभेरीकुम्भाश्च दीपिका ।
नन्द्यावर्तं च देवानां सर्वेषामष्टमङ्गलम् ॥ ५७।८६ ॥
भेरी वृषो गजश्चैव चामरौ केसरी झषः ।
पताका च प्रदीपश्च देवानामष्टमङ्गलम् ॥ ५७।८७ ॥
दर्पणं पूर्णकुम्भं च वृषभो युग्मचामरम् ।
श्रीवत्सं स्वस्तिकं शङ्खं दीपश्चैवाष्टमङ्गलम् ॥ ५७।८८ ॥
पताकाः स्वस्तिकाः शङ्खाः पूर्णकुम्भं सपद्मकम् ।
छत्रलक्ष्मीप्रदीपाश्च द्विजानामष्टमङ्गलम् ॥ ५७।८९ ॥
पताका पूर्णकुम्भं च शङ्खं चक्रं च श्र्यङ्कुशौ ।
छत्रं चैव प्रदीपश्च भूभुजामष्टमङ्गलम् ॥ ५७।९० ॥
पूर्णकुम्भं प्रदीपश्च पादुकं छत्रभेरिके ।
श्रीनन्दिकौ महाशङ्खो वैश्यानामष्टमङ्गलम् ॥ ५७।९१ ॥
दर्पणं पूर्णकुम्भं च हलं शफरयुग्मकम् ।
श्रीदीपछत्रभेर्यश्च शूद्राणामष्टमङ्गलम् ॥ ५७।९२ ॥
देवद्विजनरेन्द्राणां तोरणं मकराख्यकम् ।
तोरणं चित्रसञ्ज्ञं तु वैश्यानां प्रविधीयते ॥ ५७।९३ ॥
पद्माख्यतोरणं शूद्रे सर्वं सर्वत्र वा मतम् ।
जालकं फालकं शैलमैष्ट्यं कुड्यं च इष्यते ॥ ५७।९४ ॥
जालकैर्बहुभिर्युक्तं जालकं कुड्यमिष्यते ।
स्तम्भानामन्तरे चेत्स्तम्भान् संस्थाप्य चान्तरे ॥ ५७।९५ ॥
फलकैः सारदारुत्थैश्च्छादितं फलकामयम् ।
ऊर्ध्वाधः पद्मकम्पैश्च भित्तिबन्धनमेव वा ॥ ५७।९६ ॥
यथार्हविपुलोपेतमुत्तरान्तसमुच्छितम् ।
निष्पादं वा सपादं वा कुड्यं शैलमथैष्टकम् ॥ ५७।९७ ॥
अथवा मृण्मयं वापि कुड्यमिष्टं द्विजोत्तमाः ।
कुड्ये स्तम्भलता कार्या वस्त्वाधारस्य चोपरि ॥ ५७।९८ ॥
वेदिकोर्ध्वाधरे कूटकोष्ठादीनां त्रिधा स्मृता ।
चित्रकुम्भलता पूर्वा स्तम्भकुम्भलता परा ॥ ५७।९९ ॥
कुम्भकुम्भलता चान्या तासां लक्षणमुच्यते ।
कुम्भकुम्भलतामूले दण्डद्विगुणविस्तरः ॥ ५७।१०० ॥
सपादा वाथ सार्धा वा पादोनद्विगुणा तु वा ।
पादोनत्रिगुणा वापि तदर्धेनोच्छ्रयो भवेत् ॥ ५७।१०१ ॥
पादपद्मावसानोर्ध्वस्थानतिर्यग्लताम्बुजम् ।
नन्द्यावर्तावलम्बः स्यात्कुम्भतः पादनिर्गतिः ॥ ५७।१०२ ॥
(पृ० १४८)
आस्यभागत्रिभागैका तदा स्यात्पत्रनिर्गतिः ।
पद्मादीनां च कम्पाती? मानं शोभाबलानुगम् ॥ ५७।१०३ ॥
स्तम्भार्धं कलशाद्बाती? लतावर्तनमिष्यते ।
कुम्भोर्ध्वे स्तम्भतारा*? नक्रपत्रावली क्रिया ॥ ५७।१०४ ॥
पादस्य पार्श्वयोःकामी? पादसर्वाङ्गमण्डिता ।
यथा शोभान्तरव्यासा? मुक्ता शङ्खान्तरे स्थिता ॥ ५७।१०५ ॥
स्तम्भशाला विशाला स्यात्स्तम्भविस्तार एव च ।
तस्यास्त्वलङ्कृतिः प्राप्त?वल्लीमण्डनमण्डितम् ॥ ५७।१०६ ॥
कुड्याद्विनिर्गता रूपपद्ममालाग्रभागिनी ।
एषां निष्क्रान्तिवेशी तु यथाशोभं समाचरेत् ॥ ५७।१०७ ॥
अग्रपत्रावधेर्मध्ये मुक्ति?बन्धं सनालकम् ।
पादपादविनिष्क्रान्तपद्मपट्टविचित्रितम् ॥ ५७।१०८ ॥
मध्ये द्विपार्श्वयोर्ग्राती? तत्समास्योदयावधि ।
मुष्टिबन्धोपरि क्षिप्तं व्या?लान्तं कलशावधि ॥ ५७।१०९ ॥
व्यालमृत्पट्टिकापादापादो?च्चा पत्रचित्रिता ।
पद्महृत्पद्मसंयुक्तं तदूर्ध्वे नरबन्धनम् ॥ ५७।११० ॥
तत्सर्वं फलकोत्सन्धि?पर्यन्तं परिपठ्यते ।
वीरकाण्डावधि क्षेणी? तदूर्ध्वे नक्रपट्टिका ॥ ५७।१११ ॥
लसन्मकरकाण्डः स्यान्निर्गच्छद्व्यालपट्टिका ।
ऊर्ध्वे मकरतुण्डस्य पूरितं मौलिबन्धवत् ॥ ५७।११२ ॥
तस्यावतंसकोर्ध्वं तु वा?जनाय समुल्लिखेत् ।
घ्मातशङ्खं तु भूतं वा कारयेदुत्तरादधः ॥ ५७।११३ ॥
यथाशोभनसर्वाङ्गा गता कुम्भलतेदृशी ।
चित्रकुम्भलतैवं स्यात्स्तम्भकुम्भलतान्यथा ॥ ५७।११४ ॥
स्तम्भद्विगुणविस्तारं स्तम्भोर्ध्वे पद्मविष्टरम् ।
पट्टिका पद्मधृग्वेष *?पद्मोपरि पट्टिका ॥ ५७।११५ ॥
त्रिपञ्चसप्तशाखाभिर्युक्तार्याम्बुरुहासना ।
ऊर्ध्वस्थपूर्णकुम्भाङ्का कुम्भकुम्भलता मता ॥ ५७।११६ ॥
अथ पद्मासनोर्ध्वस्थस्तम्भक्षेपणपट्टिका ।
खड्गादिफलकान्ताङ्गा तदूर्ध्वे पूर्णकुम्भवत् ॥ ५७।११७ ॥
कुम्भस्य तिर्यक्पत्रा च पत्रालङ्कारसंयुता ।
स्तम्भकुम्भलतैदृक् स्यादन्यदप्येवमूह्यताम् ॥ ५७।११८ ॥
एवं कुम्भलता प्रोक्ता वृत्तस्फटिकमुच्यते ।
षडष्टदशभिर्भानुमनुवैकारमात्रकैः ॥ ५७।११९ ॥
व्यासतारार्धनिष्क्रान्ता द्वित्र्यंशं वा द्विभागिकम् ।
वृत्ताकारं समं चेतु तोरणाङ्घ्रिवदायतम् ॥ ५७।१२० ॥
सकन्धरं तदूर्ध्वे तु शुकनास्या विभूषितम् ।
वृत्तस्फटिकमत्रोक्तं द्युस्थसद्मविभूषितम् ॥ ५७।१२१ ॥
ऊर्ध्वक्ष्मपादसप्तांशे वेदिका च गलद्वयम् ।
त्रिभागैः शिखरञ्चैकभागः स्थूप्युदयो भवेत् ॥ ५७।१२२ ॥
कूटकोष्ठकनीडानां प्रमाणमिह कीर्तितम् ।
कूटकोष्ठादिसर्वाङ्गं मानसूत्राद्बहिर्नयेत् ॥ ५७।१२३ ॥
अन्तः प्रमाणसूत्रात्तु वेशनं सर्वदोषदम् ।
चतुरंश्रं तु वस्वश्रं षोडशाश्रं तु वर्तुलम् ॥ ५७।१२४ ॥
मस्तकस्थूपिकोपेतं कर्णकूटमिदं मतम् ।
मध्ये नासासमायुक्तम् अर्धकोटीसमन्वितम् ॥ ५७।१२५ ॥
मुखपट्टिकयोपेतं शक्तिद्वयसमन्वितम् ।
अनेकस्थूपिकोपेतं कोष्ठकं मध्यशो भवेत् ॥ ५७।१२६ ॥
हंसतुण्डनिभं पृष्ठे शालाकारं मुखे मुखे ।
पञ्जरं विहितं कूटकोष्ठयोरन्तरं द्विजाः ॥ ५७।१२७ ॥
पार्श्ववक्त्रं तदेवेष्टं हस्तितुण्डं समण्डलम् ।
एष जातिक्रमः प्रोक्तः कर्णकोष्ठसमन्वितम् ॥ ५७।१२८ ॥
मध्ये कूटं तयोर्मध्ये क्षुद्रकोष्ठादिशोभितम् ।
छन्दमेतत्समुद्दिष्टं कूटं वा कोष्ठकं तु वा ॥ ५७।१२९ ॥
अन्तरप्रस्तरोपेतं निम्नं वोन्नतमेव वा ।
विकल्पमिति निर्दिष्टमाभासं तद्विमिश्रितम् ॥ ५७।१३० ॥
(पृ० १४९)
जात्यादिभैदकैर्युक्तं विमानं सम्पदां पदम् ।
विपरीते विनाशाय भवेदेव विनिश्चयः ॥ ५७।१३१ ॥
नासिका त्वष्टधा ज्ञेया तस्यादौ सिंहसञ्ज्ञकम् ।
सार्धपञ्जरमन्यत्स्यात्तृतीयं पञ्जरं मतम् ॥ ५७।१३२ ॥
निर्यूहपञ्जरं पश्चात्पञ्चमं लम्बनासिकम् ।
सिंहश्रोत्रं तु षष्ठं स्यात्खण्डनिर्यूहकं ततः ॥ ५७।१३३ ॥
झषपञ्जरमन्यत्स्यात्तासां लक्षणमुच्यते ।
श्लिष्टप्रासादनीव्राङ्गविपुलं समनिर्गमम् ॥ ५७।१३४ ॥
षड्वर्गसहितं शक्तिध्वजयुङ्मुखपट्टिकम् ।
वेदिकाजालकस्तम्भराजितं सिंहपञ्जरम् ॥ ५७।१३५ ॥
त्रिदण्डादिचतुर्दण्डपर्यन्तं विपुलान्वितम् ।
यथार्हायामसंयुक्तं सूचिपादद्वयं द्विजाः ॥ ५७।१३६ ॥
सर्वेषां पञ्जराणां तु मध्यमे सम्प्रयोजयेत् ।
धाम्नि प्रासादमाश्लिष्टं सतीव्रं चार्धनिर्गतम् ॥ ५७।१३७ ॥
अधिष्ठानादिपञ्चा"गशक्तिध्वजसमन्वितम् ।
मुखपट्टिकयोपेतं वेदिकाजालकान्वितम् ॥ ५७।१३८ ॥
कर्णपादयुतं सार्धपञ्जरं तु विधीयते ।
प्राग्वद्विपुलसंयुक्तं पादनिर्गमनान्वितम् ॥ ५७।१३९ ॥
त्रिभागनिर्गतं वापि वृत्तस्फटिकसन्निभम् ।
पञ्जरं स्यादिदं शेषं प्राग्वदत्र समीरितम् ॥ ५७।१४० ॥
स्वानुरूपशिखास्वाग्रं श्लिष्टनीव्राङ्गकर्णकम् ।
कपोताद्यङ्गसंयुक्तमेतन्निर्यूहपञ्जरम् ॥ ५७।१४१ ॥
संश्लिष्टनीव्रकर्णाङ्घ्रिकृतनागतलं शिरः ।
निर्यूहरहितं युक्तं सर्वाङ्गं लम्बनासिकम् ॥ ५७।१४२ ॥
तदेव सिंहश्रेत्राभशिखं यद्वदनीव्रकम् ।
संश्रितं कर्णपादेन सिंहश्रोत्रं तदुच्यते ॥ ५७।१४३ ॥
विस्तारे पञ्चमांशे तु द्व्यंशनिर्गमनान्वितम् ।
नीव्राधस्तात्कपोताद्यैत्शैर्मण्डितरूपकम् ॥ ५७।१४४ ॥
नाम्ना तु खण्डनिर्यूहं ज्ञात्वा सम्यक् प्रयोजयेत् ।
दण्डदण्डान्तनिष्क्रान्तनीव्राधस्तादुपर्यधः ॥ ५७।१४५ ॥
अङ्गैर्युक्तकपोताद्यैः कन्धरं तोरणान्वितम् ।
झषपञ्जरमेतत्स्यादष्टमं नामतो द्विजाः ॥ ५७।१४६ ॥
अधिष्ठानान्तरान्तस्थतुङ्गे पञ्चविभागके ।
साङ्घ्रिद्व्यंशेन पादः स्यादर्धेन प्रस्तरोदयः ॥ ५७।१४७ ॥
तत्समं गलमित्युक्तं मध्ये कोटिस्तु शेषतः ।
ऊर्ध्वे तु भागमारोप्य शिरस्तेन समाचरेत् ॥ ५७।१४८ ॥
स्तम्भाधस्तादधिष्ठानं कुर्यात्स्तम्भार्धमानतः ।
तदष्टांशाधिकं वाथ शेषं स्यादुपपीठकम् ॥ ५७।१४९ ॥
सर्वेषां पञ्जराणां तु मानमेवमुदाहृतम् ।
पादुकोत्तरयोर्मध्ये नवांशेनोपपीठकम् ॥ ५७।१५० ॥
मसूरकं द्विभागं स्याद्द्विगुणं स्तम्भदैर्ध्यकम् ।
सार्धांशं प्रस्तरोत्सेधं मध्यांशं वेदिकोदयम् ॥ ५७।१५१ ॥
उत्तरादिकपोतान्तं नालोदयमितीरितम् ।
पञ्जराकृतिसंयुक्तं कपोतात्तु विनिर्गतम् ॥ ५७।१५२ ॥
यथाशोभं यथायुक्ति तथा शक्तिध्वजान्वितम् ।
कपोतपञ्जरं ह्येतत्प्रासादे सार्वदेशिके ॥ ५७।१५३ ॥
मध्ये द्वित्रिचतुर्भित्तिविस्तारं समनिर्गमम् ।
शालाकारं सभाकारं प्रसादशिखरावृति ॥ ५७।१५४ ॥
महावारावृतं वापि हारस्थशिखरक्रियम् ।
ब्रह्मद्वारमिति प्रोक्तं विमानानां सनातनम् ॥ ५७।१५५ ॥
एकभित्तिविशालेन तोरणं स्यात्तु भारकाः ।
सपताका बहिर्ग्राह्यास्तद्विस्तारलुपान्विताः ॥ ५७।१५६ ॥
महावारक्रियायुक्ता शालोद्युक्तकपेतयुक् ।
गर्भद्वित्रिकरव्यासा शुकनासा मुखे मुखे ॥ ५७।१५७ ॥
न कर्तव्या विमानेषु नासिकोर्ध्वे न नासिका ।
ऋजुजालक्रमाद्यं स्याद्गवाक्षं कुञ्जराक्षकम् ॥ ५७।१५८ ॥
(पृ० १५०)
गोमूत्रं गणिकापत्रनन्द्यावर्तं च सप्तधा ।
ऋजुकम्पयुतं यत्तु ऋजुजालकमुच्यते ॥ ५७।१५९ ॥
कर्णगत्या यदा श्रोत्रं गवाक्षमिति कीर्तितम् ।
तदेव चतुरश्रोत्थं कुञ्जराक्षमिति स्मृतम् ॥ ५७।१६० ॥
विदिग्वक्त्रगता दृष्टिर्गोमूत्रमिति कीर्तितम् ।
मूलमप्यग्रगुलिकमृदुभित्त्यन्तरार्चितम् ॥ ५७।१६१ ॥
नानाछिद्रसमायुक्तं गणिकाजालकं भवेत् ।
पत्रैर्विचित्रित रन्ध्रं पत्रजालकमिष्यते ॥ ५७।१६२ ॥
पञ्चसूत्रगतं रन्ध्रं प्रादक्षिण्यक्रमेण तु ।
नन्द्यावर्तमिति प्रोक्तं वेद्यर्ध्वे जालकं नयेत् ॥ ५७।१६३ ॥
स्वायम्भुवादिलिङ्गे तु यथाकामं प्रयोजयेत् ।
त्यक्त्वा भित्याङ्घ्रिमध्यं तु सप्तदण्डान्तविस्तृतम् ॥ ५७।१६४ ॥
एकदण्डं समारभ्य व्यासद्विगुणसंयुतम् ।
अर्धपादेन कम्पोच्चमष्टांशाधिकमेव वा ॥ ५७।१६५ ॥
त्यक्त्वा मध्याङ्घ्रिरन्ध्रं तु युग्मायुग्माङ्घ्रिकम्पयुक् ।
भित्तिमध्याद्बहिस्तस्याः स्तम्भयोगकवाटयुक् ॥ ५७।१६६ ॥
कवाटयुगलं वैकं घटनोद्धाटनक्षमम् ।
पादवर्गे भवेद्ग्रीवावर्गे वातायनस्थितिः ॥ ५७।१६७ ॥
तले तले तु सोपानमारोहार्थं प्रकल्पयेत् ।
मूलं त्रिविधमुद्दिष्टं चतुरं वृत्तमायतम् ॥ ५७।१६८ ॥
चतुर्विधं प्रकर्तव्यं त्रिखण्डं शङ्खमण्डलम् ।
वल्लीमण्डलमित्यूर्ध्वे गोमूत्रेण समन्वितम् ॥ ५७।१६९ ॥
सत्रिखण्डं त्रिखण्डं स्याद्द्विखण्डं चार्धमूलकम् ।
मूलादग्राग्रमाक्षीणं शङ्खसोपानमिष्यते ॥ ५७।१७० ॥
स्याद्वल्लीमण्डलं वृक्षारोहिवल्लीसमक्रियम् ।
अश्वपादस्य विस्तारं द्विगुणं च चतुर्गुणम् ॥ ५७।१७१ ॥
तस्मादङ्गुलवृद्ध्या तु द्वात्रिंशतिसमावधि ।
शयितफलकव्यासषडङ्गुलमुदाहृतम् ॥ ५७।१७२ ॥
द्विगुणं तु समारभ्य चैकैकाङ्गुलवर्धनात् ।
दैर्घ्यं तिथिगुणान्तं स्याद्यथाकामं तु वा भवेत् ॥ ५७।१७३ ॥
शयितव्यासपादार्धं त्रिपादसदृशोदयैः ।
हस्तिसोपानकं लाजसोपानं वृद्धिसञ्ज्ञकम् ॥ ५७।१७४ ॥
समखण्डं समं प्रोक्तं खण्डशः स्यात्समागमः ।
हस्तव्यासं तु दण्डादित्रिदण्डान्तं प्रयोजयेत् ॥ ५७।१७५ ॥
तत्पादं तद्घनं प्रोक्तं यथाबलमथापि वा ।
अयुग्ममेव सोपानं प्रादक्षिण्यक्रमान्नयेत् ॥ ५७।१७६ ॥
सोपानं पार्श्वयोरग्रे तन्मूलस्य प्रयोजयेत् ।
तन्मूलं स्यादधिष्ठानं पादप्रस्तरवर्गयुक् ॥ ५७।१७७ ॥
अश्वपादोपरि स्थित्वा रोहणं दक्षिणाङ्घ्रिणा ।
ईदृग्लक्षणसंयुक्तं सोपानं सम्पदां पदम् ॥ ५७।१७८ ॥
उत्तरे वाथ पूर्वे वा प्रणालं कल्पयेद्बुधः ।
जन्मादिपञ्चवर्गे तु बाह्ये नालं प्रयोजयेत् ॥ ५७।१७९ ॥
पट्टिकान्ततले नालमथ छिद्रं तु वा भवेत् ।
पञ्चाङ्गुलं समारभ्य चैकैकाङ्गुलवर्धनात् ॥ ५७।१८० ॥
षट्त्रिंशदङ्गुलान्तं तु नालायामं प्रकल्पयेत् ।
अङ्गुलत्रयमारभ्य चार्धाङ्गुलविवर्धनात् ॥ ५७।१८१ ॥
चतुर्विंशतिमात्रान्तं नालान्नालं प्रकल्पयेत् ।
समं त्रिपादमध्यं वा घनच्छिद्रं तु मध्यमे ॥ ५७।१८२ ॥
द्वित्रिभागे तु भागं वा वेदभूतांशके द्वयम् ।
षट्सप्तांशत्रयं वाथ वेदांशं वा प्रकल्पयेत् ॥ ५७।१८३ ॥
गाम्भीर्यमपि तद्वत्स्यादग्रं किञ्चिन्नतं भवेत् ।
मूलात्पञ्चत्रिभागं वा द्विभागं वा प्रकल्पयेत् ॥ ५७।१८४ ॥
अथवा बन्धभागे तु भागेनाग्रं प्रकल्पयेत् ।
पतितं सिंहवक्त्राद्यैः केवलं वा प्रकल्पयेत् ॥ ५७।१८५ ॥
भागोच्चं द्वित्रिभागोच्चभागं सर्वाङ्गसंयुतम् ।
पोतिकारहितं वीरकाण्डोपरि समन्वितम् ॥ ५७।१८६ ॥
(पृ० १५१)
उत्तरं वाजनं साब्जक्षेपणं निम्नवाजनम् ।
तदूर्ध्वे झषकाण्डं स्यान्नानाचित्रविचित्रितम् ॥ ५७।१८७ ॥
तोरणाकृतिसंयुक्तं मृणालान्वितकन्धरम् ।
सर्वालङ्कारसंयुक्तं स्तम्भतोरणमीरितम् ॥ ५७।१८८ ॥
पादान्तरे वा पादे वा कर्णप्रासादमध्यमे ।
शालामध्यान्तराले तु कुर्यात्सर्वेषु धामसु ॥ ५७।१८९ ॥
मूलपादोच्चमानं तु कृत्वाष्टांशं यथाक्रमम् ।
अधिष्ठानादिषड्वर्गसहितं मूलधामवत् ॥ ५७।१९० ॥
कुर्यात्क्षुद्रविमानं तु स्तम्भानामन्तरालके ।
सकलं निष्कलं मिश्रं यद्यद्रूपं शिवस्य तु ॥ ५७।१९१ ॥
अन्येषां देवतादीनां रूपमार्षानुरूपकम् ।
मद्भक्तानां स्वरूपं यन्मानुषं वा गजादिकम् ॥ ५७।१९२ ॥
पिपीलिकावसानान्तास्तथा तेषां तु वा भवेत् ।
सर्वं धामनि कर्तव्यं धाम्नः षड्वर्गमेव वा ॥ ५७।१९३ ॥
यानं वा शयनं वापि गोपुराकृतिमेव वा ।
पीठाकृतिं वा मेर्वादिपर्वताकृतिमेव वा ॥ ५७।१९४ ॥
नन्द्याद्याकृति वा धाम्नि विधेयं चेष्टदेशके ।
मण्डपे गोपुरे वप्रे परिवारालयादिषु ॥ ५७।१९५ ॥
एवमेवं विधेयं स्यात्तथा भुवि विशिष्यते ।
पञ्जरादिषु पर्यायवचनं त्विह कथ्यते ॥ ५७।१९६ ॥
प्रमाणभवनं कर्ण प्रासादस्याष्टकं तथा ।
सभेति कूटनाम स्याच्छाया वलभिरेव च ॥ ५७।१९७ ॥
ब्रह्मद्वारं ततो मध्ये मण्डपं कोष्ठके मतम् ।
ऋजुवक्त्रं द्विजावासं क्रीडं स्यात्सिंहवक्त्रकम् ॥ ५७।१९८ ॥
पञ्जरस्याभिधानं स्यात् हस्तिपृष्ठमथोच्यते ।
गजपृष्ठं च तत्तुण्डं गजवक्त्रं गजापरम् ॥ ५७।१९९ ॥
हस्तिपृष्ठाभिधानं स्याद्द्वारि कुड्यं च कुट्टिमम् ।
भित्तेराख्येयमाख्यातं गृहपिण्डिरथोच्यते ॥ ५७।२०० ॥
मध्ये वासावृतं वासा पिण्डिरन्धारिकेति च ।
सञ्ज्ञैवं गृहपिण्डेः स्यादन्धारं गृहमाद्यकम् ॥ ५७।२०१ ॥
परिमण्डनसालिन्दावलिन्दस्याभिधानकम् ।
मसूरकमधिष्ठानं वस्त्वाधारं धरातलम् ॥ ५७।२०२ ॥
तलं कुट्टिममाद्यङ्गमधिष्ठानस्य कीर्तितम् ।
स्थाणुः स्थूणश्च पादश्च जङ्घा च चरणाङ्घ्रिकम् ॥ ५७।२०३ ॥
स्तम्भस्तु तलिपं कम्पः पादानामभिधानकम् ।
प्रस्तरं चैव गोपानं कपोतं मञ्चमेव च ॥ ५७।२०४ ॥
नीव्रमित्येवमाख्यातं प्रस्तरस्य द्विजोत्तमाः ।
कन्धरं गलसञ्ज्ञं च कण्ठं ग्रीवा शिरोधरम् ॥ ५७।२०५ ॥
एवं कण्ठस्य नाम स्याच्छिखरं पुनरुच्यते ।
शिखरं शिरमूर्धा च शिखा मौलिश्च मस्तकम् ॥ ५७।२०६ ॥
शीर्षं कमिति विज्ञेयं शिरोवर्गस्य पण्डिताः ।
स्थूपिका च घटः कीलो चुलुकः स्थूपिरित्यपि ॥ ५७।२०७ ॥
शिखा स्थूपिरिति ख्याता चूलिका च द्विजोत्तमाः ।
विमानं भवनं हर्म्यं सौधं धाम निकेतनम् ॥ ५७।२०८ ॥
प्रासादं सदनं सद्म गेहमावसकं गृहम् ।
आलयं निलयं वासोऽप्यास्पदं वास्तु वास्तुकम् ॥ ५७।२०९ ॥
क्षेत्रमायतनं वेश्म मन्दिरं धिष्ण्यकं पदम् ।
लयं क्षयमगारं च तथोपवसितं पुनः ॥ ५७।२१० ॥
स्थानमित्येवमुक्तानि पर्यायवचनानि हि ।
धाम्नः सम्यक् समाख्याता एवमन्यत्समूह्यताम् ॥ ५७।२११ ॥
॥ इति कामिकाख्ये महातन्त्रे प्रासादभूषणविधिः
पञ्चपञ्चाशत्तमः पटलः ॥