अथ वक्ष्ये विशेषेण प्रस्तरस्य विधिक्रमम् ।
उत्तरं वाजनं चैव मुष्टिबन्धं मृणालिकम् ॥ ५६।१ ॥
दण्डिकावलयक्षुद्रगोपनाच्छादनानि च ।
आलिङ्गान्तरिता चैव प्रत्यङ्गं वाजनं क्रमात् ॥ ५६।२ ॥
त्रयंशैकांशांशपञ्चैकद्वित्रिभागैकभागकैः ।
त्रिभागेनैकभागेन उपर्युपरि योजयेत् ॥ ५६।३ ॥
एतानि प्रस्तराङ्गानि त्रिविधं चोत्तरं भवेत् ।
खण्डोत्तरं पत्रबन्धं रूपोत्तरमिह द्विजाः ॥ ५६।४ ॥
पादविस्तारविस्तारं समोदयसमन्वितम् ।
खण्डोत्तरमिति ज्ञेयं पादेनोत्सेधसंयुतम् ॥ ५६।५ ॥
पादविस्तारसम्मुक्तं पत्रबन्धमिति स्मृतम् ।
अर्धोच्चं पादविस्तारं रूपोत्तरमिहोदितम् ॥ ५६।६ ॥
त्रिपादं वा त्रित्रिभागोनमर्धं वा कर्णनिर्गमम् ।
स्वस्तिकं चार्धमानं च नन्द्यावर्तसमाकृति ॥ ५६।७ ॥
सर्वतोभद्रवृत्तं वा प्रत्युत्तरनिवेशनम् ।
प्रागुक्तोत्सेधसंयुक्तं तत्पादादथ विस्तरम् ॥ ५६।८ ॥
छन्दःपादाग्रसंयुक्तमथवा परिकल्पयेत् ।
तदुच्चत्रिचतुर्भागनिर्गमोद्गमसंयुतम् ॥ ५६।९ ॥
वाजनं चतुरश्रं वा पद्माश्रं चोत्तरोपरि ।
आयतं त्रिचतुःपञ्चदण्डैरर्धं त्रिपादिकम् ॥ ५६।१० ॥
विस्तारं तत्समोत्सेधं पोतिकालङ्कृतिक्रियाम् ।
सनालीकविधीकं स्यान्मृणालिकमथोपरि ॥ ५६।११ ॥
तुलावलीकयोर्मध्ये क्षोणीवाजनमेव वा ।
स्तम्भव्यासी त्रिपादोच्चा त्वर्धपादोनविस्तरा ॥ ५६।१२ ॥
महाभारतुला कार्या वलीकोर्ध्वे विशेषतः ।
तुलाविस्तारतारोच्चा जयन्ती स्यात्तुलोपरि ॥ ५६।१३ ॥
अर्धदण्डघनोपेतमध्यर्धोच्चं समोदरम् ।
स्थानमार्गं जयन्त्यमूर्ध्वे पार्श्वगं तूत्तरं भवेत् ॥ ५६।१४ ॥
वाजनाश्च तुलाद्वारानुगाः सर्वत्र कीर्तिताः ।
जयन्ती वंशका ज्ञेया तुलावदनुमार्गकम् ॥ ५६।१५ ॥
प्रस्तरः पादविष्कम्भस्त्रिदण्डं चार्धदण्डकम् ।
तुलावलीकयोर्मध्ये द्विदण्डमथवा पुनः ॥ ५६।१६ ॥
एकदण्डान्तरं वापि जयन्त्युत्तरमेव च ।
पादात्पादविवृद्ध्या तु त्रिदण्डान्तं प्रकल्पयेत् ॥ ५६।१७ ॥
तथैव चानुमार्गाणामन्तरं प्रविधीयते ।
अनुमार्गयुतं वापि रहितं वापि कारयेत् ॥ ५६।१८ ॥
(पृ० १४३)
यथाबलं यथाशोभमाच्छाद्यं तदुपर्यथ ।
दारुभिर्वेष्टकाभिर्वा यथाबलघनान्वितम् ॥ ५६।१९ ॥
हंसभूतबलिर्वाथ निद्रा वा दण्डमानतः ।
त्रिपादोदययुक्ता वा विधेया वाजनोपरि ॥ ५६।२० ॥
बहिः कपोतकरणं वाजनोपरि कल्पयेत् ।
अध्यर्धद्वित्रिदण्डो वा निर्गमश्चोद्गमो भवेत् ॥ ५६।२१ ॥
अर्धत्रिपाददण्डं वा कपोतालम्बनं भवेत् ।
उत्तरोपरि संस्थाप्य वाजनस्य तदूर्ध्वकम् ॥ ५६।२२ ॥
पोतिकान्तावलम्बं वा तुलान्तरितमन्तरम् ।
दण्डार्धात्पादवृद्ध्या तु त्रिदण्डान्तं तदुच्यते ॥ ५६।२३ ॥
तदर्धार्धत्रिभागैकं सोपानघनमिष्यते ।
पादाष्टांशषडंशैकफलकैश्छादयेत् परि ॥ ५६।२४ ॥
कम्पास्तदुपरि क्षेप्या यथेष्टाकृतिविस्तरैः ।
छादयेल्लोहलोष्टैर्वा मृल्लोष्टैर्वा द्विजोत्तमाः ॥ ५६।२५ ॥
सोपाननिर्गमाद्येन दण्डिकानिर्गमो भवेत् ।
दण्डिका पादतारार्धं तदर्धं हि घनं भवेत् ॥ ५६।२६ ॥
दण्डिकाविपुलोपेतं तदर्धं च गलान्वितम् ।
सनालीकं तु मण्ड्यङ्गं दण्डनिष्क्रमसंयुतम् ॥ ५६।२७ ॥
मुष्टिबन्धं पृथक् कुर्याद्वाजनोपरि बुद्धिमान् ।
तुलाच्छेदेन वा कुर्यात् स्तम्भाग्रविपुलान्वितम् ॥ ५६।२८ ॥
तदर्धं निष्क्रमोपेतं स्वाग्रपट्टिकयान्वितम् ।
कायपादं नयेद्धीमान् दण्डिकावाजनान्तरे ॥ ५६।२९ ॥
कायपादान्तरं छाद्यं फलकैः सारदारुजैः ।
दण्डिकामुष्टिबन्धान्तः समाद्यायसमन्वितम् ॥ ५६।३० ॥
दण्डत्रिपादविसृतं तदर्धार्धघनान्वितम् ।
हस्तिमुण्डकसंस्थानं कुम्भमण्डीसमायुतम् ॥ ५६।३१ ॥
ऊर्ध्वाधस्ताच्छिरोपेतं नानाकम्पसमायुतम् ।
मण्डनं त्वन्तरे कार्यं दण्डिकामुष्टिबन्धयोः ॥ ५६।३२ ॥
व्यालनालकसिंहाद्यं मध्ये वा परिकल्पयेत् ।
मुष्टिबन्धसमाकारं चतुरश्रसमाकृति ॥ ५६।३३ ॥
यथेष्टविपुलोत्तुङ्गं तुङ्गार्धसमवेशनम् ।
दण्डिकोर्ध्वे तु वलयं गोपनं स्यात्तदूर्ध्वतः ॥ ५६।३४ ॥
हित्वावशिष्टमानं तु गोपनं चार्पयेद्बुधः ।
वसन्तकं वालिन्दं वा विधेयं वाजनोपरि ॥ ५६।३५ ॥
त्रिपादोच्चं तदूर्ध्वे स्यात्कपोतोच्चं तु पूर्ववत् ।
एवं स्याद्दृढकल्पं तु शिलयेष्टकया द्रुमैः ॥ ५६।३६ ॥
यथा प्रयोगस्थैर्यं तु तथा योज्यं विचक्षणैः ।
कपोतोच्चत्रिभागं वा पादं वा क्षुद्रनिद्रकम् ॥ ५६।३७ ॥
कपोतनासिका क्षुद्रनीव्रोर्ध्वे स्थितकर्णिका ।
सपाददण्डा वाध्यर्धद्विदण्डा विस्तृतान्विता ॥ ५६।३८ ॥
सिंहश्रोत्रशिखालिङ्गपट्टिकान्तस्य पट्टिका ।
विधेया स्वस्तिकाकृत्या नासिकोर्ध्वेन नासिका ॥ ५६।३९ ॥
कुक्षिकादिशिखामानं यथाशोभनमेव वा ।
वाताहतचलच्चारुलतावत्कर्णिकाक्रिया ॥ ५६।४० ॥
प्रतिवाजनकस्योर्ध्वे नेष्यते नासिकोच्छ्रयः ।
पादपादघनोपेतं पादात्पादविनिर्गमः ॥ ५६।४१ ॥
आलिङ्गं स्यात्तदूर्ध्वस्थं तदूर्ध्वान्तरितं मतम् ।
पादार्धविपुलं त्वर्धनिवृत्याश्राग्रपट्टिका ॥ ५६।४२ ॥
पादे पादान्तरे त्वन्तःप्रविष्टं पादबाह्यकम् ।
पादाकारं त्रिपादार्धसदृशोदयसंयुता ॥ ५६।४३ ॥
प्रतिं निवेशयेत्तस्य त्रित्रिभागैकभागतः ।
पादेन वाजनं कुर्यात्तदनन्तरमुच्यते ॥ ५६।४४ ॥
तच्चेन्निम्नोन्नतं सर्वं देवानां कुलनाशनम् ।
विकारः स्यात्तु देवानां द्विजानां भूभृतामपि ॥ ५६।४५ ॥
अन्ययोश्चार्धचन्द्राभा प्रतिः कार्या द्विजोत्तमाः ।
दण्डं सपादं सार्धं वा प्रतिनिर्गमनं नयेत् ॥ ५६।४६ ॥
(पृ० १४४)
एकद्वित्रिचतुर्मात्रैर्यवैर्वा परिकल्पयेत् ।
हीनाधिक्यं तु चाङ्गानां प्रस्तरस्य द्विजोत्तमाः ॥ ५६।४७ ॥
पादाङ्गानां तथा कुर्याद्गलाङ्गे च मसूरके ॥
॥ इति कामिकाख्ये महातन्त्रे प्रस्तरविधिः चतुःपञ्चाशत्तमः पटलः ॥