५३ पादमानविधिपटलः

अतः परं प्रवक्ष्यामि पादमानं विचक्षणाः ।
पादश्च द्विविधो होमस्तम्भः स्यात्प्रतिपादकः ॥ ५५।१ ॥
अधिष्ठानोपगूढस्तु निर्घातस्तम्भ इष्यते ।
प्रतिस्तम्भवृतेरूर्ध्वे चोत्तरान्तसमायतिः ॥ ५५।२ ॥ ५५।
सवितस्त्यष्टहस्तोच्चः प्रतिस्तम्भोदयो मतः ।
अयं द्वादशभूमेः स्यात्तलं प्रति तलं प्रति ॥ ५५।३ ॥
वितस्त्याः क्षपयेदेकभूमौ त्रिकर इष्यते ।
अनेनैव क्रमान्नेयं षोडशक्ष्मान्तमेव हि ॥ ५५।४ ॥
द्ब्यन्तराणां च षड्वेदाङ्गुलेन क्षय इष्यते ।
जातीतराणां क्षपणं द्वाभ्यां वा त्र्यङ्गुलेन वा ॥ ५५।५ ॥
रविभौमस्य विसृतिरष्टाविंशतिमात्रकम् ।
द्व्यङ्गुलेन क्षयो भूमौ भूमावेव षडङ्गुला ॥ ५५।६ ॥
एकभूस्तम्भविस्तारस्तलोपरितले मतम् ।
द्व्यन्तराणां च सर्वेषां द्वाभ्यां वा त्रिभिरङ्गुलैः ॥ ५५।७ ॥
ऊनाधिक्ये प्रकर्तव्ये तथान्येषां प्रकल्पयेत् ।
आर्ताधिष्ठानतुङ्गेन द्विगुणः पादतुङ्गकः ॥ ५५।८ ॥
अथवार्तांशमानेन स्तम्भदैर्घ्यं प्रकल्प्यताम् ।
आर्तोत्सेधांशमानं तु षट्सप्ताष्टनवांशकम् ॥ ५५।९ ॥
हीनं वाप्यधिकं वापि स्तम्भोत्सेधं प्रकल्पयेत् ।
अथवा स्तम्भतुङ्गे तु वसुनन्ददशांशके ॥ ५५।१० ॥
विस्तारस्त्वेकभागः स्यात्सर्वेषां दारुपादके ।
तद्व्यासार्धं च पादेन त्रिद्व्यंशं वा प्रकल्पयेत् ॥ ५५।११ ॥
भित्तिस्तम्भविशालं यत्तेन द्वित्रिगुणं मतम् ।
शिलास्तम्भविशालं स्याद्यथेष्टं वा प्रकल्पयेत् ॥ ५५।१२ ॥
षडंशं तु समारभ्य द्वादशांशसमावधि ।
भागं कृत्वैकभागेन वोर्ध्वोर्ध्वं स्तम्भतुङ्गता ॥ ५५।१३ ॥
मूलादग्रं यथा प्रोक्तं कुड्यं चापि तथा मतम् ।
द्वित्रिवेदचतुर्दण्डः कुड्यविस्तार इष्यते ॥ ५५।१४ ॥
पञ्चषड्गुणितो वापि स्तम्भालङ्कार इष्यते ।
उच्यते चतुरश्रं च वृत्तं वा तत्प्रकीर्तितम् ॥ ५५।१५ ॥
सर्वं तच्चतुरश्रं तु कुम्भमण्डीसमन्वितम् ।
ब्रह्मकान्तं विजानीयाद्व्यासत्रिगुणमानतः ॥ ५५।१६ ॥
मध्येष्टाश्रं पोतिकान्तं मध्याष्टाश्रं प्रकल्पयेत् ।
सर्वत्राष्टाश्रसंयुक्तं कुम्भमण्ड्यादिसंयुतम् ॥ ५५।१७ ॥
विष्णुक्रान्तं स्वयं नाम्ना कौमारं स्यात्षडश्रकम् ।
भानुकान्तं तदग्रं स्यात्कलाश्रं चन्द्रकान्तकम् ॥ ५५।१८ ॥
मूले कर्णप्रमाणेन चतुरश्रस्तदूर्ध्वतः ।
पूर्वोक्ताकृतिसंयुक्ताः पूर्वाश्रा ननु कीर्तिताः ॥ ५५।१९ ॥
सर्वत्र वृत्तसंयुक्तमीशकान्तमिति स्मृतम् ।
समत्रिभागमानेन चतुरष्टाश्रवृत्तकम् ॥ ५५।२० ॥

(पृ० १४१)

कुम्भमण्ड्यादिसहितो रुद्रकान्तस्तु कीर्तितः ।
शुक्लभेदसमायुक्त ईशकान्तः प्रकीर्तितः ॥ ५५।२१ ॥
पिण्डपाद इति प्रोक्तो मूले विपुलमानतः ।
चतुरश्रः तदूर्ध्वे तु षोडशाश्रादिसंयुतः ॥ ५५।२२ ॥
स्यान्मूलचतुरश्रोऽसौ स्तम्भव्यासोद्वयेन च ।
विस्तृतं तु तदूर्ध्वोच्चं मूले पद्मासनं भवेत् ॥ ५५।२३ ॥
यथेष्टाकृतिशेषं तु मूलपद्मासनं भवेत् ।
द्वित्रिदण्डविशालोच्चो लूखलो यदि मूलतः ॥ ५५।२४ ॥
तदूर्ध्वेऽष्टाश्रसंयुक्तः स्यादुलूखलपादपः ।
उदयं तु चतुर्भागः सिंहव्यालेभभूतकैः ॥ ५५।२५ ॥
नरनारीयुतो मूले यथेष्टाकारसंयुतः ।
उपरिष्टाच्च तन्नाम्ना पादाश्च बहवो मताः ॥ ५५।२६ ॥
स्तम्भार्धनिष्क्रमः कुड्यादष्टाश्राणां विधीयते ।
त्रिभागैकं च वृत्तानां वेदाश्राणां तु पादतः ॥ ५५।२७ ॥
कुम्भश्चतुर्विधः प्रोक्तः सपादः सार्ध एव च ।
पादोनद्विगुणश्चैव द्विगुणस्तून्नतिक्रमात् ॥ ५५।२८ ॥
श्रीकान्तब्रह्मकान्तादिचन्द्रकान्ताः प्रकीर्तिताः ।
भानुकान्त इति प्रोक्तः तदुच्चे तु नवांशके ॥ ५५।२९ ॥
अंशेन दृक् चतुर्भागः कलशः कण्ठ एकतः ।
आस्यमंशमथांशेन पद्ममर्धेन वृत्तकम् ॥ ५५।३० ॥
अर्धेन हीनकौ कार्यौ स्तम्भद्विगुणमानतः ।
कुम्भविस्तार उद्दिष्टश्चाध्यर्धं चास्यमीर्तितम् ॥ ५५।३१ ॥
मूलपादविशालं तु हीनकौ पादविस्तरौ ।
दृक्कण्ठौ च विधातव्यौ पादविस्तारमानतः ॥ ५५।३२ ॥
तद्विस्तारसमायुक्तं ततो द्बिगुणमूलतः ।
किञ्चिदग्रं विहीनं स्यात्कमलं तदधो भवेत् ॥ ५५।३३ ॥
अष्टांशाधिकपद्व्यासमर्धपादेन तुङ्गकम् ।
मूलस्थानमधस्तत्स्याद्दण्डमानमथोच्यते ॥ ५५।३४ ॥
त्रिगुणार्धयुता सा च चतुरश्रा समायता ।
मण्डिता पञ्चधा कृत्वा सार्धेन फलकासनम् ॥ ५५।३५ ॥
तत्समं वेत्रमित्युक्तं मण्डी शेषेण कल्प्यताम् ।
दण्डाक्रारस्तु वेत्रान्तं पादाकारसमो भवेत् ॥ ५५।३६ ॥
पालिकाभा च पद्माग्रा तथा नागतलाकृतिः ।
त्रिधा मण्डी समाख्यात पादोर्ध्वे पोतिका भवेत् ॥ ५५।३७ ॥
नागवृत्ता पत्रचित्रा समुद्रोर्मिरिति त्रिधा ।
स्तम्भत्रिगुणमाना सा दण्डोदयसमायुता ॥ ५५।३८ ॥
छायाक्षेपणसंयुक्ता नागवृत्तेति कीर्तिता ।
चतुर्दण्डसमायामा त्रिपादोदयसंयुता ॥ ५५।३९ ॥
छायाक्षेपणपत्रैश्च युक्ता पत्रविचित्रिता ।
पञ्चदण्डसमायामा दण्डमानसमोदया ॥ ५५।४० ॥
चतुर्भागैकमानेन युक्ता युग्मैस्तरङ्गकैः ।
यथेष्टैः पार्श्वयोश्चैव समुद्रोर्मिरिति स्मृता ॥ ५५।४१ ॥
पोतिकानां च सर्वासां विस्तारः पादतः समः ।
तदुच्चस्त्रित्रिभागेन तस्यास्त्वग्रे तु पट्टिका ॥ ५५।४२ ॥
तदर्धार्धेन कर्तव्यं तदधः क्षेपणं द्विजाः ।
छायायामं तदुच्चार्धं त्रिद्व्यंशं वाथ कल्पयेत् ॥ ५५।४३ ॥
स्वव्यासार्धं त्रिभागं वा त्वग्रमण्डनमिष्यते ।
सनालिकं समतलं सिंहव्यालादिमण्डितम् ॥ ५५।४४ ॥
मुष्टिबन्धोपरि क्षिप्तं व्यालाद्यैर्भूषितं तु वा ।
पूर्वाश्रचतुरश्राणां नागवृत्ता प्रकीर्तिता ॥ ५५।४५ ॥
सर्वेषु चातिहारेषु पत्रचित्रा प्रकीर्तिता ।
समुद्रोर्मिस्तथान्येषां पादानां फलका मता ॥ ५५।४६ ॥
विस्तारे त्रिचतुर्भागे चैकांशेन शिखा भवेत् ।
हस्तादिपञ्चहस्तान्तं षट्षडङ्गुलवर्धनात् ॥ ५५।४७ ॥
स्तम्भान्तरं प्रयोक्तव्यमोजं वा युग्ममेव वा ।
समाः स्तम्भान्तराः सर्वे प्रासादे सार्वदेशिके ॥ ५५।४८ ॥

(पृ० १४२)

विषमस्तम्भभागं तु वास्तु चाशु विनश्यति ।
सायं चापि च तत्सर्वं तत्प्रकारेण कारयेत् ॥ ५५।४९ ॥
शिलामयास्तु देवानामन्येषां नैव कीर्तिताः ।
इष्टकाभिर्द्रुमैः सर्वे स्तम्भाः कार्या विचक्षणैः ॥ ५५।५० ॥
युग्मायुग्मास्तु देवानामयुग्मास्तु नृणां मताः ।
अन्तस्तम्भा बहिस्तम्भा ऋजुस्तम्भाः समा मताः ॥ ५५।५१ ।
अधिष्ठानं च पादं च भित्तिरुत्तरसञ्ज्ञकम् ।
तुला जयन्ती चाख्याता छायाख्यमिति कीर्तितम् ॥ ५५।५२ ।
एभ्यो विशिष्टं यद्वस्तु तनुकायमिति स्मृतम् ।

॥ इति कामिकाख्ये महातन्त्रे पादमानविधिः त्रिपञ्चाशत्तमः पटलः ॥