उपपीठविधिं वक्ष्ये अधिष्ठानसमन्वितम् ।
एकहस्तं द्विहस्तं वा त्रिहस्तं परितोऽधिकम् ॥ ५४।१ ॥
विमानादिविशालात्तु खातयेत्परितोऽधिकम् ।
तत्र चिक्वणपाषाणमुष्टिमृद्वालुकादिभिः ॥ ५४।२ ॥
अधिष्ठानषडष्टांशहीनं तु परिपूरयेत् ।
पञ्चांशद्ब्यंशत्र्यंशं वा हीनं वा परिकल्पयेत् ॥ ५४।३ ॥
मुद्गरैर्गजपादैश्च काष्ठतुण्डैर्घनीकृते ।
जलेन पूरिते तत्स्थं निरूनमुदकं यदि ॥ ५४।४ ॥
तद्व्यपोह्य समुद्धृत्य दण्डमानं तु शैलके ।
पतिते भारमात्रे तु न निम्नं च भवेद्यदि ॥ ५४।५ ॥
तत आरभ्य शैलैर्वा त्विष्टकाभिश्च बन्धयेत् ।
आदौ प्रकृतिभूमिः स्यात् त्रिप्रकारा तु सा स्मृता ॥ ५४।६ ॥
प्रकृतिर्हस्तमात्रेण चोत्तमे तु प्रशस्यते ।
अष्टादशाङ्गुला मध्ये हीने स्याद्द्वादशाङ्गुला ॥ ५४।७ ॥
जलस्य निस्रवार्थं तु प्रतिशालं प्रकल्पयेत् ।
षडङ्गुलक्षयेणादौ चतुरर्धं द्वितीयके ॥ ५४।८ ॥
पक्षयोस्त्र्यङ्गुलं हीनं प्रकृत्युपरि जन्मभूः ।
तदुपानमिति प्रोक्ता सैव भौमा प्रकीर्तिता ॥ ५४।९ ॥
तदूर्ध्वस्थमधिष्ठानं केवलं तु विधीयते ।
पादविस्तारमानेन साध्यर्धद्वित्रिदण्डकम् ॥ ५४।१० ॥
(पृ० १३७)
निर्गतं बाह्यदेशे तु तदर्धबहुलान्वितम् ।
उपानोपरि पद्मं वा सोपानं तु तदूर्ध्वतः ॥ ५४।११ ॥
यथा शोभांशमानेन भूतवेदाग्निभाजिते ।
उन्नतार्थं च शोभार्थं रक्षार्थं च बलार्थकम् ॥ ५४।१२ ॥
सभद्रं वा विभद्रं वा जन्मप्रभृति मध्यमे ।
उपपीठं विधातव्यमधिष्ठानोदयार्धतः ॥ ५४।१३ ॥
पादेन च त्रिपादेन समेन त्रिगुणेन वा ।
पञ्चांशे तु त्रयांशेन वह्न्यंशे त्वैकभागतः ॥ ५४।१४ ॥
तदुच्चार्धत्रिपादं वा पादं वाष्टांशहीनकम् ।
द्विदण्डं वा त्रिदण्डं वा निर्गमं पादबाह्यतः ॥ ५४।१५ ॥
पादुकाच्च बहिर्वाधो उपानस्तम्भबाह्यकम् ।
नवपङ्क्त्यंशकं कृत्वा त्र्यंशोच्चोपानभिष्यते ॥ ५४।१६ ॥
द्व्यंशं पद्मं तदूर्ध्वे तु कम्पमेकांशमिष्यते ।
षडंशः कर्णमिष्टः स्याच्छेषं प्राग्वत्प्रकीर्तितम् ॥ ५४।१७ ॥
कम्पस्त्वंशेन कर्तव्यमष्टांशमुपपीठकम् ।
तदेवोर्ध्वमधस्ताच्चेदम्बुजेन विहीनकम् ॥ ५४।१८ ॥
षडंशमुपपीठं स्याच्चतुर्विंशतिभाजिते ।
तदर्धं करणं प्राग्वदंशेनोत्तरमिष्यते ॥ ५४।१९ ॥
रुद्रांशेन त्रिभागेन कपोतमिह सम्मतम् ।
अलिन्दान्तरितं द्व्यंशं प्रत्युत्सेधं तु तत्समम् ॥ ५४।२० ॥
वाजनं चैकभागं स्यात्कर्णस्त्वष्टाम्श इष्यते ।
उत्तरे चैकभागं स्याद्रुद्रभागेन कीर्तिता ॥ ५४।२१ ॥
कपोतकं त्रिभागेन भागेनालिन्दमिष्यते ।
अन्तरीतं तु भागेन भागाभ्यां प्रति इष्यते ॥ ५४।२२ ॥
प्रतिवाजनमेकांशं सर्वालङ्कारसंयुतम् ।
त्रिः सप्तांशत उत्सेधो द्वाभ्यां जन्म तथाम्बुजम् ॥ ५४।२३ ॥
गलमर्धेन चार्धेन पद्मं द्व्यंशेन वाजनम् ।
अर्धेनाब्जं तथा कम्पमष्टांशं कर्णमीर्तितम् ॥ ५४।२४ ॥
अंशेनोत्तरमर्धेन पद्मं चोपानकं त्रिभिः ।
भागार्धमूर्ध्वकम्पः स्यात् त्रिः सप्तांशे तदुन्नते ॥ ५४।२५ ॥
जन्म द्व्यंशेन त्र्यंशेन पद्ममंशेन कन्धरम् ।
बाह्यवाजनमेकेन कम्पमष्टांशकैर्गलम् ॥ ५४।२६ ॥
अंशेनोत्तरमंशाभ्यां वाजनं कम्पमंशकम् ।
सिंहेभमकरैर्व्यालैर्भूतैः पत्रैलङ्कृतम् ॥ ५४।२७ ॥
प्रतिवक्त्रं चषालं स्याद्बालेनारूढमस्तकम् ।
अर्पिते नार्पिते मत्स्यैः सर्वत्र परिकल्पयेत् ॥ ५४।२८ ॥
अङ्गमङ्गं विशेषेण वृद्धिं हानिं च कारयेत् ।
चतुःपञ्चषडंशं वा सप्ताष्टांशमथापि वा ॥ ५४।२९ ॥
अंशद्वयं त्रयांशं वा परिगृह्यावशेषतः ।
परिलोप्य विधातव्यमाद्यङ्गन्त्वोपपीठकम् ॥ ५४।३० ॥
अनेनैव प्रकारेण ह्यधिष्ठानं च कारयेत् ।
द्विविधं तदिह प्रोक्तं प्रत्यङ्गं पट्टिकाङ्गकम् ॥ ५४।३१ ॥
चतुर्विंशतिभागं तु कृत्वाधिष्ठानतुङ्गकम् ।
जगत्यष्टांशकेनोक्ता कुमुदं तत्समानकम् ॥ ५४।३२ ॥
अष्टपादं तदुद्दिष्टं कम्पमंशस्त्रिभागभाक् ।
कर्णस्त्वंशेन कम्पं स्यात् त्र्यंशं वाजनमिष्यते ॥ ५४।३३ ॥
जगती प्राग्वदुद्दिष्टा सप्तांशं कुमुदं भवेत् ।
पद्ममंशेन कर्तव्यं शेषं पूर्ववदाचरेत् ॥ ५४।३४ ॥
सप्तांशा जगती प्रोक्ता षडंशं कुमुदं भवेत् ।
पद्ममंशेन कर्तव्यं कम्पमेकांशतो भवेत् ॥ ५४।३५ ॥
त्र्यंशं तु गलमित्युक्तमेकांशं चोर्ध्वकम्पकम् ।
पद्ममेकांशतो ज्ञेयं वाजनं द्व्यंशमिष्यते ॥ ५४।३६ ॥
ऊर्ध्वपद्मं तदैकांशमुपकम्पं तथैव च ।
पञ्चांशा जगती प्रोक्ता पद्ममेकांशतो भवेत् ॥ ५४।३७ ॥
दृगंशेनांशतः पद्मं कुमुदं चतुरंशकम् ।
शेषं प्राग्वत्समुद्दिष्टं कम्पस्तम्भोदयाश्रितम् ॥ ५४।३८ ॥
(पृ० १३८)
भागेनैकेन जन्म स्यात्त्रिभागं गलमुच्यते ।
कम्पमेकांशतो ज्ञेयं षडंशं जगतिर्भवेत् ॥ ५४।३९ ॥
एकेन पद्ममंशेन गलमेकेन पद्मकम् ।
त्रिभागं कुमुदं पद्ममेकांशं परिकीर्तितम् ॥ ५४।४० ॥
एकेन कम्पं द्व्यंशेन गलमंशेन कम्पकम् ।
दलमंशेन कर्तव्यं वाजनं द्व्यंशमीरितम् ॥ ५४।४१ ॥
एकांशं जलजं प्रोक्तं कम्पमंशेन कीर्तितम् ।
एकभागेन जन्म स्यात्पञ्चांशा जगतिर्भवेत् ॥ ५४।४२ ॥
प्रकर्तव्ये तथान्येषां सर्वमेतत्प्रकल्पयेत् ।
आर्ताधिष्ठानतुङ्गेन द्विगुणापाततुङ्गता ॥ ५४।४३ ॥
अथवार्तांशमानेन तं भेदैः परिकल्पयेत् ।
एकांशं जलजं प्रोक्तं गलमर्धांशतो भवेत् ॥ ५४।४४ ॥
उर्ध्वपद्मं तथार्धांशं चतुर्भिः कुमुदं भवेत् ।
अर्धेन पद्ममर्धेन कम्पं द्व्यर्धांशकैर्गलम् ॥ ५४।४५ ॥
अंशेन कम्पमर्धेन पद्मं द्व्यंशेन वाजनम् ।
अर्धेन पद्ममेकेन कम्पमर्धेन पद्मकम् ॥ ५४।४६ ॥
एकेन जन्म द्वाभ्यां तु पद्ममेकेन कम्पकम् ।
षडंशा जगती वेदभागं च कुमुदं भवेत् ॥ ५४।४७ ॥
एकांशं कम्पकर्णौ हृद्भागं भागेन निर्मितम् ।
कम्पमेकेन कर्तव्यं वाजनं द्व्यंशमिष्यते ॥ ५४।४८ ॥
एकांशं कम्पकं पद्मं सार्धेनार्धेन कम्पकम् ।
षड्विंशत्यंशकं प्रोक्तं सर्वस्मिन् धाम्नि योजयेत् ॥ ५४।४९ ॥
द्विभागं जन्म सम्प्रोक्तमेकांशं पद्ममिष्यते ।
एकेन कम्पकं पञ्चभागेन जगती भवेत् ॥ ५४।५० ॥
कुमुदं चतुरंशं स्यादेकं पद्मं तु भागतः ।
कम्पकर्णौ द्विभागेन एकं कम्पं तथाब्जकम् ॥ ५४।५१ ॥
वाजनं तु द्विभागं स्यात्कम्पमंशेन कीर्तितम् ।
एवं स्यात्पादबन्धं तु छेदनीयं यथोचितम् ॥ ५४।५२ ॥
देवानां च द्बिजातीनां चतुर्णामपि योग्यकम् ।
प्रतिबन्धं प्रवक्ष्यामि त्रयोविंशतिभाजिते ॥ ५४।५३ ॥
अष्टांशा जगती प्रोक्ता कुमुदं तत्समानकम् ।
आलिङ्गमर्धभागं स्यात् द्वाविंशत्यंशके कृते ॥ ५४।५४ ॥
एवं स्यात्पादबन्धे तु छेदनीयं यथोचितम् ।
तदेवं कुमुदं प्रोक्तं वाजनं स्यात्कपोतकम् ॥ ५४।५५ ॥
प्रत्युत्सेधं त्रिभागेन साब्जकं पञ्चभागतः ।
देवद्विजनरेन्द्राणां प्रशस्तं नान्यजातिषु ॥ ५४।५६ ॥
अष्टांशमम्बुजं प्रोक्तं कण्ठभागे च भागतः ।
अम्बुजं कुमुदं भूतैरेकांशं पद्ममिष्यते ॥ ५४।५७ ॥
आलिङ्गस्य द्विभागं स्यात्तथैवान्तरितं मतम् ।
प्रत्युत्सेधं त्रिभागेन साब्जक्षेपणमंशुकम् ॥ ५४।५८ ॥
तृतीयं विंशतिभागैः कल्पयेत्कल्पवित्तमः ।
अष्टभागं महापद्मं दृगेकेनांशतोऽम्बुजम् ॥ ५४।५९ ॥
वृत्तं तु पञ्चभागेन भागेनोर्ध्वाम्बुजम् भवेत् ।
कम्पमेकेन कर्णस्तु त्रिभिरंशेन वाजनम् ॥ ५४।६० ॥
निद्रांशेन कपोतस्तु सार्धद्व्यंशेन कल्पितम् ।
आलिङ्गान्तरिते द्वाभ्यां प्रतिभागद्वयेन तु ॥ ५४।६१ ॥
अर्धांशेनोर्ध्वकम्पं तु भागेन त्रिंशदंशके ।
एकविंशतिभागे तु जन्मभागेन कीर्तितम् ॥ ५४।६२ ॥
सार्धेन पद्ममर्धेन कम्पं स्यात्सप्तभागतः ।
जगती कुमुदं षड्भिरेकेनालिङ्गगमंशुके ॥ ५४।६३ ॥
प्रोक्तमन्तरितं द्वाभ्यां प्रतिसाब्जं तु वाजनम् ।
एकभागेन कर्तव्यं लतापत्रादिशोभितम् ॥ ५४।६४ ॥
द्वात्रिंशद्भाजिते तुङ्गे जन्म द्वाभ्यामथैकतः ।
वाजनं स्यान्महापद्मं सप्तभागेन कीर्तितम् ॥ ५४।६५ ॥
कर्णस्त्वंशेन पद्मं स्यादेकं वेदेन वृत्तकम् ।
अब्जमेकेन कम्पं स्यादंशमग्न्यंशकैर्गलम् ॥ ५४।६६ ॥
(पृ० १३९)
कम्पमेकेन तद्वत्स्यात्पद्मं वेदैः कपोतकम् ।
आलिङ्गान्तरिते द्वाभ्यां प्रतिभागद्वयेन तु ॥ ५४।६७ ॥
सपद्मकम्पमेकेन सर्वालङ्कारशोभितम् ।
एकेन जन्मषड्भागैर्जगती शरभागिकम् ॥ ५४।६८ ॥
कुमुदं भागवेत्रं स्यात् त्रिभिः कण्ठः प्रकीर्तितः ।
एकेन कम्पमंशेन गलं त्र्यंशैः कपोतकम् ॥ ५४।६९ ॥
एकं कम्पं भवेदुच्चैः कृते द्वाविंशकांशके ।
तत्तदेव भवेदूर्ध्वं भागेनान्तरितं भवेत् ॥ ५४।७० ॥
द्वाभ्यां प्रतिरथांशेन गलत्र्यंशैः कपोतकम् ।
सार्धजं वार्धजं कम्पं महापद्मं शरांशकम् ॥ ५४।७१ ॥
गलमंशेन भागेन गलवृत्तं त्रिभागिकम् ।
पद्ममंशं भवेत्कम्पमंशेन परिकीर्तितम् ॥ ५४।७२ ॥
अंशेनान्तरितं द्वाभ्यां प्रतिरंशेन वाजनम् ।
द्वाभ्यां जन्मांशतः पद्मं कम्पमेकेन कीर्तितम् ॥ ५४।७३ ॥
जगती पञ्चभागेन वेदांशैः कुमुदं भवेत् ।
एकांशं पद्ममेकेन पद्मं कण्ठो द्विभागतः ॥ ५४।७४ ॥
कम्पमंशेन भागेन पद्मं द्वाभ्यां कपोतकम् ।
एकेन कम्पमंशेन त्र्यशं द्वाभ्यां प्रतिर्भवेत् ॥ ५४।७५ ॥
अंशेन वाजनं तुङ्गे कृते षड्विंशकांशके ।
त्र्यंशं प्रतिश्च कम्पं च त्यक्त्वान्यैरन्यदिष्यते ॥ ५४।७६ ॥
एकेन जन्म भागाभ्यां पद्ममंशेन कम्पकम् ।
जगती चतुरंशेन कम्पं पद्मं द्विभागकम् ॥ ५४।७७ ॥
कम्पमंशेन भागेन पद्मं वृत्तं त्रिभिर्भवेत् ।
एकांशं पद्ममालिङ्गमंशमन्तरितं तथा ॥ ५४।७८ ॥
द्वाभ्यां प्रतिश्च भागेन वाजनं पञ्चविंशेके ।
यवमेकं समारभ्य चैकैकयववर्धनात् ॥ ५४।७९ ॥
पञ्चमात्रान्तकं वृद्धिमाधिक्यं वा प्रकल्पयेत् ।
मसूरकमधिष्ठानं वस्त्वाधारं धरातलम् ॥ ५४।८० ॥
तलं कृट्टिममाद्यङ्गं पर्यायवचनानि हि ।
जगत्या निष्क्रमो यावत् तावदेव च कैरवे ॥ ५४।८१ ॥
अम्बुजानां च सर्वेषां स्वे स्व यो निष्क्रमो मतः ।
वेत्राणामपि सर्वेषां चतुर्भागैकनिर्गमः ॥ ५४।८२ ॥
स्वसमो वा त्रिभागो वा महावाजननिर्गमः ।
एवं निवृत्तमेवं स्यात् शोभाबलवशेन वा ॥ ५४।८३ ॥
प्रवेशनिर्गमौ कार्यौ सर्वाङ्गानां मसूरके ।
प्रतिच्छन्दो न कर्तव्यो सर्वत्रैव विचक्षणैः ॥ ५४।८४ ॥
द्वारार्थं यः परिच्छेदः सम्पद्द्वारं च नेत्यलम् ।
स्वायम्भुवादिलिङ्गेषु प्रतिच्छन्दो न दोषकृत् ॥ ५४।८५ ॥
पादबन्धमधिष्ठानं छेदनीयं यथोचितम् ।
जन्मादिपञ्चवर्गेषु तत्तदंशेऽवसानके ॥ ५४।८६ ॥
पट्टिकाङ्गे त्वधिष्ठानैरन्यस्मिन्नेवमूह्यताम् ।
तदधिस्ठानमानं च श्रूयतां मुनिपुङ्गवाः ॥ ५४।८७ ॥
देवानां स्याच्चतुर्हस्तं द्विजानां तत्समो भवेत् ।
नृपाणां त्रिकरं सार्धं द्विहस्तं यौवराजकम् ॥ ५४।८८ ॥
द्विहस्तं वणिजामेकहस्तं शूद्रस्य कीर्तितम् ।
एतज्जातिवशाद् भूमिवशादत्रैव कथ्यते ॥ ५४।८९ ॥
दण्डात् षण्मात्रहत्यात्तु द्वादशाद्यात् त्रिभूमिकात् ।
त्रितलस्योत्तमस्येष्टं पादेनोनं द्विहस्तकम् ॥ ५४।९० ॥
महत्तराणां क्षुद्राणां मानमेवात्र चानयेत् ।
मसूरकोन्नतं पञ्चहस्तैर्द्वात्रिंशदङ्गुलम् ॥ ५४।९१ ॥
त्रिंशदङ्गुलमूलं वा द्विद्व्यङ्गुलविवर्धनात् ।
अष्टत्रिंशाङ्गुलं चान्ते त्रयोदशविशालतः ॥ ५४।९२ ॥
षडादीनां तु पञ्चानामेकत्रिंशाङ्गुलादितः ।
नवत्रिंशाङ्गुलं तत्स्याच्चतुर्दशकरस्य तु ॥ ५४।९३ ॥
त्रिचतुर्हस्तयोर्धाम्नोस्तन्नीत्यैव विनिश्चयः ।
आर्तोत्सेधांशमानं वाधिष्ठानस्य विधीयते ॥ ५४।९४ ॥
(पृ० १४०)
तत्तत्पादोदयार्धेन षडष्टांशोनमानतः ।
अधिष्ठानोछ्रयो वा स्यात् पादतुङ्गोनमेव वा ॥ ५४।९५ ॥
त्रिभागाद्रविभागान्तं त्यक्त्वाधिष्ठानतुङ्गकम् ।
भागेन वा प्रकर्तव्यमङ्गुलैर्वा यवैस्तु वा ॥ ५४।९६ ॥
न्यूनं वाप्यधिकं वापि कारयेत्कर्तुरिच्छया ।
अधिष्ठानादिषड्वर्गेप्येवमेव समाचरेत् ॥ ५४।९७ ॥
॥ इति कामिकाख्ये महातन्त्रे उपपीठाधिष्ठानविधिः
द्विपञ्चाशत्तमः पटलः ॥