५१ आद्येष्टकाविधिः

(पृ० १३५)

आद्येष्टकाविधानं तु वक्ष्ये हर्म्यादिके क्रमात् ।
ऐन्द्रे वा चोत्तरे चैशे कूटं वा मण्टपं प्रपा ॥ ५३।१ ॥
भूतादिविश्वहस्तान्तं वितानाद्यैरलङ्कृतम् ।
दर्भमालासमायुक्तं दिग्गजैश्च समन्वितम् ॥ ५३।२ ॥
तन्मध्ये वेदिकां कुर्यात् तत्त्रिभागैकभागतः ।
एकहस्तं द्विहस्तं वा मुष्टिमात्रसमन्वितम् ॥ ५३।३ ॥
कुण्डानि कारयेद्दिक्षु विदिक्ष्वष्टौ प्रधानकम् ।
पञ्चवाचैककुण्डं वा वृत्तं वा चतुरश्रकम् ॥ ५३।४ ॥
विसृज्य शिल्पिनं पश्चाद्गोमयेन तु लेपयेत् ।
पञ्चगव्येन सम्प्रोक्ष्य हृदयेनानुमन्त्रतः ॥ ५३।५ ॥
त्र्यङ्गुलं तु समारभ्य चैकैकाङ्गुलवर्धनात् ।
अष्टत्रिंशाङ्गुलान्तास्तु चेष्टका विस्तरा मताः ॥ ५३।६ ॥
एकादिद्वादशान्तानां तलानां स्यात्त्रयं त्रयम् ।
अथवा विस्तरस्तासां पादव्यासं महालये ॥ ५३।७ ॥
सपादार्धत्रिपादा वा द्विगुणा वा सपादकाः ।
इष्टकाया इह प्रोक्तं विस्तारार्धं त्रिपादकम् ॥ ५३।८ ॥
पादं वा पञ्चभागे तु त्रिद्व्यंशं वा घनं भवेत् ।
आचार्य आदिशैवस्तु शिवदीक्षासमन्वितः ॥ ५३।९ ॥
सुस्नातस्तु शुचिर्भूत्वा सकलीकृतविग्रहः ।
सुशुक्लवस्त्रः सोष्णीषः सोत्तरीयः सुभूषितः ॥ ५३।१० ॥
पञ्चाङ्गभूषणोपेतः सशिष्यपरिचारकः ।
इष्टकाः पञ्जगव्यैश्च क्षालयेद्वर्मणा गुरुः ॥ ५३।११ ॥
हेमकौतुकसूत्रेण कार्पासोत्थेन बन्धयेत् ।
स्थण्डिलं कारयेद्विद्वानष्टद्रोणैश्च शालिभिः ॥ ५३।१२ ॥
तदर्धं तण्डुलोपेतं तण्डुलार्धतिलान्वितम् ।
तिलार्धं लाजसंयुक्तं दर्भैश्चैव समन्वितम् ॥ ५३।१३ ॥
इदमुत्तमकल्पं स्यात्तदर्धं मध्यमिष्यते ।
तदर्धमधमं ज्ञेयं सर्वत्रैव विनिर्मितम् ॥ ५३।१४ ॥
लिखित्वाष्टदलं पद्मं कर्णिकाकेसरान्वितम् ।
स्थण्डिलं पञ्चगव्येन सम्प्रोक्ष्य हृदयेन तु ॥ ५३।१५ ॥
स्वस्वदिक्स्थापनार्थं च लेखयेदिष्टकान्तरे ।
पूर्वभागे त्वकारं तु याम्ये त्वाकारमेव च ॥ ५३।१६ ॥
इकारं पश्चिमे देशे त्वीकारं चोत्तरे न्यसेत् ।
उकारमूर्ध्वभागे तु वस्त्रैराच्छाद्य पूजयेत् ॥ ५३।१७ ॥
ऋग्यजुः सामाथर्वाणि शिवशास्त्रं यथाक्रमात् ।
अधिदेवा इह प्रोक्ताः पूर्वादीनां यथाक्रमम् ॥ ५३।१८ ॥
तन्तुनावेष्टितान् कुम्भान् गन्धाम्बुपरिपूरितान् ।
पिधानसितवस्त्राढ्यान् हेमयुक्तान् सकूर्चकान् ॥ ५३।१९ ॥
पुष्पाम्रपल्लवोपेतानिन्द्राद्यष्टदिशासु वै ।
लोकपालाधिपानष्टशिवकुम्भसमायुतान् ॥ ५३।२० ॥
इन्द्रेशानान्तराले तु संस्थाप्याभ्यर्चयेद्बुधः ।
ततो होमः प्रकर्तव्यस्त्वग्निकार्योक्तमार्गतः ॥ ५३।२१ ॥
पलाशोदुम्बराश्वत्थन्यग्रोधाः प्राग्दिगादितः ।
वह्न्यपामार्गखदिरवटास्त्वग्न्यादिकोणतः ॥ ५३।२२ ॥
प्रधानस्य पलाशः स्यात्समिदाज्यचरुं तिलम् ।
तण्डुलेन समायुक्तं मूलब्रह्माङ्गसंयुतम् ॥ ५३।२३ ॥
प्रत्येकं होमयेद्धीमान् मध्ये दिक्षु विदिक्ष्वपि ।
सहस्रं वा तदर्धं वा शतं तस्यार्धमेव वा ॥ ५३।२४ ॥
विन्यसेमूर्तिपान् तत्त्वतत्त्वेश्वरसमन्वितान् ।
तेषां होमं विधातव्यं पूर्णाहुतिमथाचरेत् ॥ ५३।२५ ॥
प्रभाते विधिना स्नात्वा देशिको मूर्तिपैः सह ।
सम्पूज्य चेष्टकान्कुम्भान्पूर्णाहुतिमथाचरेत् ॥ ५३।२६ ॥

(पृ० १३६)

प्रायश्चित्तं ततो हुत्वा पुनः पूर्णाहुतिं चरेत् ।
गर्भविन्यासमार्गोक्तस्थाने तान् विन्यसेत्क्रमात् ॥ ५३।२७ ॥
हृदयं च शिखा चैव कवचं च शिरस्तथा ।
मूलं चैव क्रमेणैव पठन्नेतांश्च विन्यसेत् ॥ ५३।२८ ॥
अग्रमग्रं तथैशान्यां पृष्ठं पृष्ठं च नैरृते ।
पृष्ठाग्रे त्वनले वायौ ज्ञात्वा कर्म समाचरेत् ॥ ५३।२९ ॥
मानुषे प्रागुदग्दीर्घा दिव्ये प्राक्प्रत्यगायता ।
इष्टका प्रागवागेका प्रक्षेप्यादौ क्रमेण तु ॥ ५३।३० ॥
नन्द्यावर्ताकृति स्थाप्यमिष्टकानां चतुष्टयम् ।
पञ्चमीत्वीशवदना शैवी प्राग्वदना सुरे ॥ ५३।३१ ॥
कौबेरवदना नॄणामेवं ज्ञात्वा तु विन्यसेत् ।
आचार्यं प्राक् प्रपूज्याथ तेनैतत्कारयेत्सुधीः ॥ ५३।३२ ॥
निष्कादिनवनिष्कान्तं काञ्चनं देशिकस्य तु ।
रत्नादीन्विन्यसेन्मध्ये त्ववटेषु च विन्यसेत् ॥ ५३।३३ ॥
एकवर्गं द्विवर्गं वा त्रिवर्गं सर्वमेव वा ।
गर्भन्यासोक्तमार्गेण विन्यसेद्देशिकोत्तमः ॥ ५३।३४ ॥
आदौ जलेन सम्पूर्य शिवकुम्भस्थितेन तु ।
पुष्पं निक्षिप्य तत्रैव पश्चाद्रत्नानि विन्यसेत् ॥ ५३।३५ ॥
शुभं प्रदक्षिणावर्तो वामावर्तस्त्वशोभनम् ।
वामावर्ते तु सञ्जाते शान्तिहोमं समाचरेत् ॥ ५३।३६ ॥
मन्दिरे मण्टपे चैव प्राकारे गोपुरे गृहे ।
परिवारालये पीठे शालायां च सभाविधौ ॥ ५३।३७ ॥
पुष्करिण्यां च कुल्यायां कूपे सेतोश्च बन्धने ।
अनेनैव प्रकारेण कर्म चैतत्समाचरेत् ॥ ५३।३८ ॥
अत्रानुक्तं तु यत्सर्वं गर्भन्यासोक्तमाचरेत् ।

॥ इति कामिकाख्ये महातन्त्रे आद्येष्टकाविधिः एकपञ्चाशत्तमः
पटलः ॥