(पृ० १३१)
अथ वक्ष्ये विशेषेण भूमिलम्बविधिक्रमम् ।
चतुरंशादिसंस्थानं भूमिलम्बमिति स्मृतम् ॥ ५२।१ ॥
अथवा क्षयवृद्धिर्वा हस्तानां परिकीर्तितम् ।
हस्तानां सप्ततिस्तारे शतं तुङ्गे प्रकीर्तितम् ॥ ५२।२ ॥
एकोनं वा प्रकर्तव्यं तलं द्वादशसञ्ज्ञिकम् ।
त्रिषष्टि विस्तृतं तत्र नवत्युन्नतमीरितम् ॥ ५२।३ ॥
एकादशतलं सप्तपञ्चाशद्विस्तृतं भवेत् ।
चतुर्हस्तमशीत्युच्चं दशभौमं द्विजोत्तमाः ॥ ५२।४ ॥
एकयुक्तं तु पञ्चाशत्करं तारे तु तुङ्गके ।
पञ्चसप्ततिसङ्ख्यातं नवभौमं प्रकीर्तितम् ॥ ५२।५ ॥
पञ्चहस्तसमायुक्तं चत्वारिंशत्करान्वितम् ।
षष्ट्युन्नतसमायुक्तमष्टभौमं प्रकीर्तितम् ॥ ५२।६ ॥
नवत्रिंशत्करोपेतं सप्तपञ्चाशदुन्नतम् ।
एतत्सप्त इति प्रोक्तम् एकविंशतिसंयुतम् ॥ ५२।७ ॥
त्रिंशद्धस्तसमुत्सेधं चतुस्तलमुदाहृतम् ।
तिथिहस्तविशालं यदेकविंशतितुङ्गकम् ॥ ५२।८ ॥
एकत्रितलमाख्यातं शास्त्रेऽस्मिन् कामिकाह्वये ।
सप्तत्यन्तं द्विरष्टादि विस्तारे वा प्रकल्प्यताम् ॥ ५२।९ ॥
एतदुत्तममानं स्याज्जात्याख्यस्य द्विजोत्तमाः ।
विस्तारे चापि चोत्सेधे द्वित्रिहस्तक्षयेण तु ॥ ५२।१० ॥
मध्यमं चाधमं ज्ञेयं सप्तविंशतिभेदकम् ।
महस्त्रितलस्येष्टत्रिभेदो नैव विद्यते ॥ ५२।११ ॥
अष्टाविंशतिहस्तं तु जात्याख्यमिह कीर्तितम् ।
एकाद्येकादशान्तानां हस्तानामन्तरक्षयात् ॥ ५२।१२ ॥
द्व्यादिद्वादशसीम्नां तु षण्णामप्यन्तरक्षयात् ।
सप्तविंशतिमाने तु षट्त्रिशत्सङ्ख्यकं मतम् ॥ ५२।१३ ॥
छन्दं विकल्पमाभासमेकैके तु द्विसङ्ख्यकम् ।
नवादिरुद्रभागान्तधाम्नामुक्तं प्रमाणतः ॥ ५२।१४ ॥
यत्तु षोडशभूम्यन्तं विमानं मानवं द्विजाः ।
एतदन्तरमानं स्यात्क्षुद्रमानमथोच्यते ॥ ५२।१५ ॥
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
एकभूमिप्रमाणं तु चतुर्विधमुदाहृतम् ॥ ५२।१६ ॥
पञ्चषड्ढस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
द्वितले तु चतुर्मानं रुद्रभानुकरान्तकम् ॥ ५२।१७ ॥
सप्ताष्टहस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
त्रितले तु चतुर्मानं मनुविश्वकरान्तकम् ॥ ५२।१८ ॥
नवदिक्करमारभ्य द्विद्विहस्तविवर्धनात् ।
पक्षषोडशहस्तान्तं चतुष्पञ्चतलं भवेत् ॥ ५२।१९ ॥
एकहस्तं द्विहस्तं वा क्षुद्रमेकतलं मतम् ।
युग्मायुग्मकरं मानं पादार्धकरसंयुतम् ॥ ५२।२० ॥
व्योमहस्तं समारभ्य व्योमहस्तविवर्धनात् ।
विमानं योजितव्यं स्यात्सर्वेषामपि शंसितम् ॥ ५२।२१ ॥
आयामे द्विगुणान्तं स्याद्वेदान्ता मण्टपे मताः ।
तथा भक्त्या विधेयाः स्युरायामे द्विजसत्तमाः ॥ ५२।२२ ॥
देवभूसुरभूमीन्द्र विट्छूद्राणां समानकम् ।
विस्तारे सप्तषट्पञ्चचतुस्त्र्यंशेऽधिकं त्रिभिः ॥ ५२।२३ ॥
शान्तिकं पुष्टिजयदमद्भुतं सार्वकामिकम् ।
उत्सेधे द्विगुणो व्यासः पादाधिक्यं च सम्मतम् ॥ ५२।२४ ॥
विस्तारद्विगुणादष्टांशाधिकं वाधियोजयेत् ।
क्षुद्राणामेवमुद्दिष्टं कनिष्ठानामथोच्यते ॥ ५२।२५ ॥
सप्तांशे तु कृते व्यासे सप्तांशं वा षडंशकम् ।
विस्तारादधिकस्तुङ्गो मध्यमानमथोच्यते ॥ ५२।२६ ॥
(पृ० १३२)
विस्तारं पूर्ववत्कृत्वा चतुःपञ्चाधिकं तु यत् ।
मध्यमानमिदं प्रोक्तमुत्तमानां त्रयांशकम् ॥ ५२।२७ ॥
पूर्वमुद्देशमानं स्यादेतन्निर्देशमानकम् ।
एकद्वित्रिकरैर्युक्तं मानहीनं तु वाधिकम् ॥ ५२।२८ ॥
उत्सेधं कल्पयेद्धीमान् सर्वेषामपि सद्मनाम् ।
देवानां सार्वभौमानामाद्वादशतलं विदुः ॥ ५२।२९ ॥
रक्षोगन्धर्वयक्षाणामेकादशतलं मतम् ।
द्विजानां नवभौमं स्याद्दशभौमं तु धाम वा ॥ ५२।३० ॥
युवराजस्य राज्ञांश्च च पञ्चमस्यैव पञ्चभूः ।
नन्दाद्येकादशतलं षण्णां वै चक्रवर्तिनाम् ॥ ५२।३१ ॥
त्रिभौमं च चतुर्भौमं वैश्यानां शूद्रजन्मनाम् ।
राज्ञां पञ्चतलं वापि मतं पट्टभृतां तु तत् ॥ ५२।३२ ॥
सप्तहस्तसमुत्सेधादूर्ध्वं सप्ततिविस्तरात् ।
नेष्यतेऽधिकमानं तु सर्वथा तद्विचक्षणैः ॥ ५२।३३ ॥
शिवस्य षोडशक्ष्मादिसर्वभूमिर्विधीयते ।
प्रासादवशतो लिङ्गं लिङ्गात्प्रासाद एव वा ॥ ५२।३४ ॥
परीक्ष्य मतिमान् कुर्याद् यथाशास्त्रं तदुच्यते ।
स्वायम्भुवं बाणलिङ्गं दैविकं चार्षकं त्विति ॥ ५२।३५ ॥
गाणवं मानुषं लिङ्गं षट्प्रकारं प्रकीर्तितम् ।
स्वेनैवोद्भूतलिङ्गं तु स्वायम्भुवमुदाहृतम् ॥ ५२।३६ ॥
शिवेन संस्कृतं यत्तु बाणलिङ्गमिति स्मृतम् ।
देवैः संस्थापितं दैवमार्षम् ऋषिहितं स्मृतम् ॥ ५२।३७ ॥
गणैः संस्थापितं लिङ्गं गाणवं तदुदाहृतम् ।
मानुषं मनुजैः शिष्टैः शिष्टं षष्ठमिहोदितम् ॥ ५२।३८ ॥
मानुषे लिङ्गमानं तु प्रासादवशतो भवेत् ।
अन्येषां चैव सर्वेषां लिङ्गात्प्रसाद इष्यते ॥ ५२।३९ ॥
प्रासादगर्भमानेन लिङ्गं ज्येष्ठादिभेदतः ।
मुख्यतः सिद्धये प्रोक्तं मुक्त्यर्थमनुषङ्गतः ॥ ५२।४० ॥
हस्तादिलिङ्गमानानि यानि तानि विमुक्तये ।
मुक्तये चानुषङ्गेण भवन्ति विधियोगतः ॥ ५२।४१ ॥
स्वायम्भुवादिलिङ्गानां दृश्यभागादधस्तनम् ।
दर्शयेद्यदि मोहेन सर्वदोषकरं नृणाम् ॥ ५२।४२ ॥
नाहतारौ तथा स्थूलदेशे सङ्गृह्य कल्पयेत् ।
मानवेलिङ्गमानं तु शिरोमानं विनोदयम् ॥ ५२।४३ ॥
स्वायम्भुवादिलिङ्गानां शिरसा सह मानकम् ।
कल्पयेदर्चनाभागं तेन पीठं प्रकल्पयेत् ॥ ५२।४४ ॥
लिङ्गविष्कम्भमानेन भवेद्द्वित्रिचतुर्गुणः ।
तथा पञ्चगुणो वापि पीठविस्तर इष्यते ॥ ५२।४५ ॥
एतेषामपि सर्वेषां कर्णमानेन वा भवेत् ।
कृत्वाष्टधा वा नवकम् एकद्व्यंशत्रयांशकम् ॥ ५२।४६ ॥
चतुरंशं तु वा हीनमधिकं वा प्रकल्पयेत् ।
पीठद्विगुणमानो वा त्रिगुणो वा चतुर्गुणः ॥ ५२।४७ ॥
पञ्चषड्गुणतो वापि गर्भगेहस्य विस्तरः ।
गर्भगेहत्रयांशं तु भित्तिविष्कम्भ इष्यते ॥ ५२।४८ ॥
अर्धो वा सदृशः पीठाद्द्विगुणस्त्रिगुणोऽपि वा ।
एतेषां कर्णमानो वा भित्तिविष्कम्भ इष्यते ॥ ५२।४९ ॥
अनेनैव प्रकारेण सन्धानेऽपि प्रकल्प्यताम् ।
पीठव्यासेन हर्म्यस्थनालीगेहमयुग्मकम् ॥ ५२।५० ॥
यदि तद्बाह्यभागं च युग्ममेव समाचरेत् ।
युग्मं चेद्युग्मभागं स्यात्सम्मिश्रं नैव कारयेत् ॥ ५२।५१ ॥
यत्र लिङ्गेन यन्मानं युग्मं वायुग्महस्तकम् ।
यदि तत्र करच्छेदो हीनो वाप्यधिको भवेत् ॥ ५२।५२ ॥
मानसम्पूर्णकं कुर्यात्तत्र दोषो न विद्यते ।
अङ्गुलैर्गर्भमाने तु विभक्ते लिङ्गदैर्घ्यके ॥ ५२।५३ ॥
लिङ्गं चेदङ्गुलं छिन्नं तत्र सम्पूर्णतां नयेत् ।
आयादिसम्पदर्थं च एकद्वित्रिभिरङ्गुलैः ॥ ५२।५४ ॥
(पृ० १३३)
क्षीणं वाप्यधिकं वापि कर्तव्यं सम्पदिच्छता ।
त्रिः सप्तभागतारे तु भागं कृत्वा षडंशकम् ॥ ५२।५५ ॥
लिङ्गमध्यात्तदेकांशं दक्षिणेन व्यपोहति ।
प्रासादमध्यमिष्टं स्यात्पश्चिमेऽपि तथैव च ॥ ५२।५६ ॥
पूर्वद्वारं प्रशस्तं स्यात्पश्चिमास्ये विपर्ययः ।
एवमादौ परीक्ष्यैव प्रासादं परिकल्पयेत् ॥ ५२।५७ ॥
एतेषामपि सर्वेषामायादिविधिरुच्यते ।
विस्तारं द्विगुणं कृत्वा वसुभिर्भाजिते सति ॥ ५२।५८ ॥
शिष्टं योनिरिह प्रोक्ता तदभावे तु शोधकः ।
उदये वसुभिः सप्तविंशद्भिर्भमिहोदितम् ॥ ५२।५९ ॥
परिधौ नन्दगुणिते सप्तमूर्द्वारमुच्यते ।
सकलं त्रिगुणं कृत्वा त्रिंशद्भिर्भाजिता तिथिः ॥ ५२।६० ॥
उदयं वसुभिर्भक्त्वा सूर्यैरायस्तु शेषतः ।
पुनरप्युदयं नन्दवसुभिर्व्यय उच्यते ॥ ५२।६१ ॥
पूर्वोक्तेन प्रकारेणाप्यनेन विधिनापि वा ।
परिक्ष्यायादिषट्कं तु प्रासादं परिकल्पयेत् ॥ ५२।६२ ॥
पादादिकं तु यच्छिष्टं तत्सर्वं सकलं भवेत् ।
पूर्ववद्गुणितं कृत्वा भागं तारं च तत्समम् ॥ ५२।६३ ॥
कृत्वा तेनैव विभजेत् यल्लाभादधिकं भवेत् ।
युग्महस्तैः स्वरोद्भूतैः शिखिभिर्योनिरुच्यते ॥ ५२।६४ ॥
अथवान्यप्रकारेण आयादिविधिरुच्यते ।
नागैः सूत्राग्निरन्ध्रैर्हतदिनदशवस्वब्धिशिष्टं तु तत् स्या-
दायोनौ योनिवारं वसुहतमुडुभिर्भक्तशिष्टं तु ऋक्षम् ।
हत्वा भक्त्वाथ सूत्रैर्भुवनमथ फलं शिष्टमंशं वसुघ्नं
त्रिंशद्भक्तं तिथिः स्याद्गृहदिनतिथियोगादयो योनिभेदाः ॥ ५२।६५ ॥
अथवान्यप्रकारेण चायादिन् परिकल्पयेत् ।
नागनन्दगुणनागनन्ददृक् भानुनाडिवसुभं मुनिर्नव ।
आयमन्यतरयोनिऋक्षकं वारमंशकगुणक्षयक्रमात् ॥ ५२।६६ ॥
इदं लिङ्गे च सकले द्वारे स्तम्भादिके मतम् ॥ ५२।६७ ॥
इदमायादिकं चार्धमण्टपे शिष्टमण्टपे ।
परिवारालये तुङ्गहर्म्येऽन्यस्मिन् प्रकल्पयेत् ॥ ५२।६८ ॥
एवं परीक्ष्य बहुधा प्रासादं परिकल्पयेत् ।
त्र्यशैकांशो भवेद्गर्भः पञ्चांशात् त्र्यंशमेव वा ॥ ५२।६९ ॥
सप्तांशे चतुरंशो वा नवांशे पञ्चभागतः ।
रुद्रभागे षडंशः स्याद्विश्वांशे सप्तभागकः ॥ ५२।७० ॥
तिथ्यंशे वसुभिः सप्तदशांशे तु नवांशकः ।
विस्तारार्धप्रमाणं तु गर्भविस्तार इष्यते ॥ ५२।७१ ॥
एकद्वित्रितलानां स्याद्गर्भगेहे प्रमाणकम् ।
प्रासादस्य नवाष्टांशः दशांशः कूटविस्तरः ॥ ५२।७२ ॥
शालाव्यासो मतो द्वित्रिगुणायामसमन्वितः ।
पञ्जरश्चार्धभागो वा त्रिपादो वाथ भागिकः ॥ ५२।७३ ॥
अलिन्दान्धारिकान्धारहारा भागेन कल्पिताः ।
भागार्धद्वित्रिभागं वा पञ्चत्रिंशमथापि वा ॥ ५२।७४ ॥
अलिन्दं कल्पयेच्छेषं गृहविन्यासके मतम् ।
महतां च विमानानां रचनात्र विधीयते ॥ ५२।७५ ॥
नवभागत्रिभागो वा व्यासनालीगृहान्वितः ।
बहिरान्धारिकान्धारहारभागेन विस्तृताः ॥ ५२।७६ ॥
हारप्रमाणं बाह्ये तु रचनार्थं प्रकल्पयेत् ।
भित्त्यन्तस्थं प्रमाणं स्याद्भित्तिबाह्ये त्वबाह्यतः ॥ ५२।७७ ॥
रचनाक्षेत्रमानं तु हित्वा मानं प्रकल्पयेत् ।
एवमन्तस्थविन्यासो बाह्यविन्यास उच्यते ॥ ५२।७८ ॥
सप्तविंशतिभागे तु प्रासादस्य तु विस्तरे ।
एकैकभागवेशात्तु कूटशादिकं नयेत् ॥ ५२।७९ ॥
आदौ भागद्वयेनाथ कूटमेकेन वा भवेत् ।
तलमेकं भवेद्ग्रासं खण्डहर्म्यं त्रिभूमिके ॥ ५२।८० ॥
(पृ० १३४)
अथवान्यप्रकारेण चान्तर्विन्यास उच्यते ।
सप्तविंशतिभागे तु प्रासादस्याय उच्यते ॥ ५२।८१ ॥
त्रिभागेन भवेद्गर्भं समन्ताद्भित्तिरिष्यते ।
पञ्चालिन्दं सषट्कुड्यं बहिरान्धारिकावृतम् ॥ ५२।८२ ॥
त्रिनवांशमिदं जातिविमानं द्वादश क्ष्मकम् ।
एतन्मणिमये लिङ्गे बाणादौ वा प्रकल्पयेत् ॥ ५२।८३ ॥
दशादिपञ्चहस्तर्द्ध्या यदा प्रासाद इष्यते ।
पञ्चाशत्करपर्यन्तं नवलिङ्गेष्वनुक्रमात् ॥ ५२।८४ ॥
तदायामायविस्तारे हस्तराशौ कराहते ।
लिङ्गवत्पीठमन्येन सैकेन त्रयमन्तरम् ॥ ५२।८५ ॥
द्व्यधिकेन बहिर्भित्तिः शेषं प्राग्वत्प्रकीर्तितम् ।
लिङ्गे शिलासु च क्रोधे भित्तिपञ्चांशवर्जिताः ॥ ५२।८६ ॥
क्रिञ्चिन्न्यूनमलिन्दं वा शेषं कुड्येषु योजयेत् ।
तलस्तम्भोत्तराः सर्वसामान्याः परिकीर्तिताः ॥ ५२।८७ ॥
प्राग्वंशैरन्यवंशैश्च नालिकेरदलादिभिः ।
आच्छादिता प्रपा नाम प्रस्तरं चात्र मण्डपः ॥ ५२।८८ ॥
प्रभूत शिखरोपेतं हर्म्यं नाम्ना प्रकीर्तितम् ।
अनेकभूमियुक्ता तु मालाकारा तु मालिका ॥ ५२।८९ ॥
वंशादिवंशसहिता शिखरस्तूपिकान्विता ।
नासिकामुख्यपट्यंशा शालेति परिकीर्तिताः ॥ ५२।९० ॥
षड्वर्गसहितं यत्तु गर्भगेहसमन्वितम् ।
अन्धार्यान्धारिहारोक्तखण्डहर्म्यविशेषितम् ॥ ५२।९१ ॥
कूटशालान्वितं यत्तु पञ्जरैश्च समन्वितम् ।
हस्तिपृष्ठयुतं चेन्द्रशालाभिश्च समन्वितम् ॥ ५२।९२ ॥
तिलकक्षुद्रनास्योक्ततोरणैश्च समन्वितम् ।
ब्रह्मद्वारपताकाद्यैरङ्गैर्युक्तं विमानकम् ॥ ५२।९४ ॥
मण्टपे मण्टपं यत्तु रङ्गमित्यभिधीयते ।
मूलकूटसमायुक्ता बालकूटसमन्विता ॥ ५२।९५ ॥
कचग्रहसमायुक्ता सभेति परिकीर्तिता ।
विविधं वस्तुमुख्यं स्याद्गौणमन्यत्प्रकीर्तितम् ॥ ५२।९६ ॥
यथोक्तं मुख्यमेवं स्यात्तदभावे तु गौणकम् ।
॥ इति कामिकाख्ये महातन्त्रे भूमिलम्बविधिः पञ्चाशत्तमः पटलः ॥