४९ नागरादिविभेदविधिः

नागरादिविभेदं तु प्रवक्ष्यामि विशेषतः ।
विन्ध्यान्तं चैव कृष्णान्तं कन्यान्तं तु हिमाचलात् ॥ ५१।१ ॥
तस्मात्तस्मात्त्रिधा धात्री युक्तसत्वतमोरजाः ।
नागरं द्रामिडं चैव वेसरं सार्वदेशिकम् ॥ ५१।२ ॥
कालिङ्गं च वराटं च षड्विधं त्विह कीर्तितम् ।
नागरं सात्विके क्षेत्रे वेसरं स्यात्तमोऽधिके ॥ ५१।३ ॥
राजसे द्रामिडं सार्वदेश्यं सर्वत्र सम्मतम् ।
कालिङ्गं च वराटं च ग्राह्यं सत्वरजोधिऽके ॥ ५१।४ ॥
मूलं मसूरकं जङ्घा कपोतं शिखरं गलम् ।
ऊर्ध्वे चामलसारेणाष्टवर्गः कुम्भशूलयुक् ॥ ५१।५ ॥
अन्यैरुपरि निक्षिप्तं प्रोक्तं वर्गाष्टकं तु यत् ।
रथैः प्रतिरथैः कोणैरन्योन्याधिकभद्रकैः ॥ ५१।६ ॥
त्रिभिर्वा पञ्चभिर्भागैर्नवभिर्वाथ सप्तभिः ।
सोष्ट्रभावादिभिर्नीडयुक्तोपान्तैश्चरण्डकैः ॥ ५१।७ ॥
सर्वाकृतिविचित्राङ्गैः सन्तारप्रस्तरक्रियम् ।
ऊहप्रत्यूहसंयुक्तमोजानोजांशमुण्डयुक् ॥ ५१।८ ॥
सकर्माकर्मजं यत्तु मण्डलामलसारकम् ।
शुकनासिकयोपेतं पार्श्वयोः प्रमुखे मुखे ॥ ५१।९ ॥
मुण्डमण्डपसंयुक्तमङ्गप्रत्यङ्गकल्पितम् ।
यथायुक्ति यथाशोभं विधातव्यं हि नागरम् ॥ ५१।१० ॥
बहिरभ्यन्तरस्तम्भभित्तितुल्यक्रियान्वितम् ।
प्रकृत्युपरि जन्मोर्ध्वे सोपपीठमसूरकम् ॥ ५१।११ ॥
समस्तम्भान्तरं यत्तु सभारमविभागभाक् ।
जन्मोपपीठाधिष्ठानस्तम्भप्रस्तरकन्धरैः ॥ ५१।१२ ॥
शिखरस्थूपिकाभ्यां च षड्वर्गसहितं नयेत् ।
मानसूत्राद्बहिस्तिर्यक्समसूत्राङ्गभद्रकम् ॥ ५१।१३ ॥
समस्तम्भान्तरस्योर्ध्वं प्रस्तरान्तरबन्धनम् ।
नालिकान्धारिकाधारहारोरस्याभिमण्डनम् ॥ ५१।१४ ॥
कपोतशालया ब्रह्मद्वारयुक्तं पताकया ।
शुकनासिकयोपेतं युक्तं प्रमुखमण्टपम् ॥ ५१।१५ ॥
श्रेष्ठं त्रयोदशांशं तु द्वादशांशमिति स्मृतम् ।
तथा षट्सप्तभौमं त्रिःपञ्चत्रिः सप्तभागभाक् ॥ ५१।१६ ॥
तथा चाष्टतलं प्रोक्तं नवभौमं निकेतनम् ।
सप्तदशद्विरष्टांशनवाष्टदशकांशकम् ॥ ५१।१७ ॥
षड्विधाकृतिविन्यासं सर्वाङ्गपरिमण्डनम् ।
मध्यकर्णविनिर्गच्छत्प्रमाणभवनान्वितम् ॥ ५१।१८ ॥
एवमादिविशिष्टाङ्गं विमानं द्रामिडं मतम् ।
युक्तं द्रामिडविन्यासं नागरक्रिययान्वितम् ॥ ५१।१९ ॥
नागरं द्रामिडोद्दिष्टविशेषेण विभूषितम् ।
सखण्डाखण्डहर्म्यं तु खण्डहर्म्योभयात्मकम् ॥ ५१।२० ॥

(पृ० १२६)

उत्तरोत्तरनिर्यूहयुक्तान्तरतलक्रियम् ।
एवमादिविचित्राङ्गं विमानं नाम वेसरम् ॥ ५१।२१ ॥
मूलादूर्ध्वोर्ध्वसन्धेया धारिकोपरि मण्डनम् ।
तदुपर्युचितग्रीवशिखरस्थूपिकान्वितम् ॥ ५१।२२ ॥
भद्रोपभद्रचित्राङ्गमाप्तान्तरतलक्रियम् ।
साधारणतलासक्तकायस्तम्भनिवेशनम् ॥ ५१।२३ ॥
श्रेण्याकारक्रियोपेतच्छायाप्रस्तरबन्धनम् ।
एवमाद्यङ्गवैचित्र्यं वराटं धाम सम्मतम् ॥ ५१।२४ ॥
विनान्धारिकयोरस्य पताकाबाह्यमण्डनम् ।
उत्तराध उपारोहक्रियान्धारिकयान्वितम् ॥ ५१।२५ ॥
उन्नतावनतस्याङ्गैः सर्वाङ्गैः परिमण्डनम् ।
चतुरश्राष्टवृत्ताभं ग्रीवाशिखरसौरभम् ॥ ५१।२६ ॥
ईदृग्भूताङ्गसङ्कल्पं कालिङ्गं सद्म सम्मतम् ।
नालिकान्धारिकाधारहारोरस्याभिमण्डनम् ॥ ५१।२७ ॥
कपोतशालया युक्तं ब्रह्मद्वारपताकया ।
षड्विधाकृतियुक्सद्म सम्मतं सार्वदेशिकम् ॥ ५१।२८ ॥
प्रत्येकं त्रिविधं प्रोक्तं द्रामिडं त्वधुनोच्यते ।
हस्तच्छेदपरीहारन्यूनाधिकसमीकृतम् ॥ ५१।२९ ॥
स्वायसम्पत्समुत्पन्नैर्नागरं तत्समाङ्गकम् ।
हस्तच्छेदेपरीहृत्यैर्हृत्वा धामविधानवित् ॥ ५१।३० ॥
भद्रालङ्कारसंयुक्तं द्रामिडं चेति कीर्तितम् ।
लब्धमात्राविहीनं तु नातिरिक्तं सवक्त्रकम् ॥ ५१।३१ ॥
उत्तरोत्तरनिर्यूहसङ्गतं वेसरं मतम् ।
त्रिपञ्चसप्तद्विचतुः षडभक्त्यैकतलक्रमात् ॥ ५१।३२ ॥
नागरादिषु षड्भेदहीनमुक्तं च मध्यमम् ।
साक्षाद्द्वित्रिचतुष्पञ्चतलमष्टनवांशकम् ॥ ५१।३३ ॥
कनिष्ठं मध्यमं ज्ञेयं दशांशैकदशांशकम् ।
श्रेष्ठं त्रयोदशांशं तु द्वादशांशमिति स्मृतम् ॥ ५१।३४ ॥
तथा षट्सप्तभौमं त्रिःपञ्चद्विः सप्तभागभाक् ।
तथा चाष्टतलं प्रोक्तं नवभौमं निकेतनम् ॥ ५१।३५ ॥
सप्तदशद्विरष्टांशं नवाष्टादिदशांशकम् ।
विमानं दशभौमं तु द्वात्रिंशत्सप्तभागयुक् ॥ ५१।३६ ॥
एकादशतलं द्वित्रिभागयुग्विंशदंशकम् ।
तथा द्वादशभौमं तु चतुः षट्पञ्चभागभाक् ॥ ५१।३७ ॥
शुद्धयुक्तिरियं प्रोक्ता त्वन्यथा च निगद्यते ।
सप्तत्रिद्व्यंशकादंशाद्दशाष्टदशभागिकम् ॥ ५१।३८ ॥
युग्मायुग्मत्रिभूम्यादिव्यासाद्द्विद्व्यंशवर्धनात् ।
दशद्वादशभूम्यन्ता सङ्ख्या ख्याता क्रमागता ॥ ५१।३९ ॥
कनिष्ठा मध्यमा श्रेष्ठा नागरादिषु पञ्चसु ।
अविरोधेन विन्यासभूषणं सार्वदेशिकम् ॥ ५१।४० ॥
असमा नागरे भागा द्रामिडे वै समासमाः ।
द्विविधा भक्तयो ग्राह्या वेसरे सार्वदेशिके ॥ ५१।४१ ॥
अनन्योन्याधिकक्षीणं क्षीणं नागरधामनि ।
द्रामिडे स्वाङ्गविश्लेषे क्षेत्रभागोचितं क्षणात् ॥ ५१।४२ ॥
ईषदूनाधिका वा स्युर्वेसरादिषु भक्तयः ।
त्रिचतुःपञ्चमात्राभिः कपोतैः स्थलनिश्चयः ॥ ५१।४३ ॥
एवं भक्तिविभागः स्याद्गर्भगेहमथोच्यते ।
सैकत्रिपञ्चभक्त्यंशषण्णवैकादशांशभाक् ॥ ५१।४४ ॥
नागरस्यैकभौमस्य प्रासादस्यैकनालिका ।
श्रेष्ठमध्यहीनस्य बहिः शेषेण भित्तिका ॥ ५१।४५ ॥
गर्भः षडष्टदशसु त्रिचतुःपञ्चभागभाक् ।
द्वितले नागरस्योक्ता नालीगेहविशालता ॥ ५१।४६ ॥
षोडशांशे तु षड्भागो गर्भसप्तदशांशके ।
अष्टादशांशे सप्तांशस्त्रितले नागरस्य तु ॥ ५१।४७ ॥
द्रामिडे त्रिचतुःपञ्चभागैर्नालिविशालता ।
पञ्चसप्तनवांशैश्च बहिः शेषास्तु भित्तयः ॥ ५१।४८ ॥

(पृ० १२७)

एवमेकतले प्रोक्तमुत्तमादिविभेदतः ।
सप्तत्र्येकादशांशे च चतुष्पञ्चषडंशकम् ॥ ५१।४९ ॥
द्वितले द्रामिडस्योक्ता नालीगृहविशालता ।
गर्भे नवदशांशे तु बहिः शेषास्तु भित्तयः ॥ ५१।५० ॥
एवमेव नवांशस्तु त्रितले द्रामिडे मतः ।
त्रिपञ्चसप्तभिर्नाली षडष्टादशभाजिते ॥ ५१।५१ ॥
वेसरस्यैकभौमस्य श्रेष्ठमध्याधमक्रमात् ।
नवैकादशविश्वेषु चतुष्पञ्चषडंशकः ॥ ५१।५२ ॥
वेसरे द्वितलस्योक्ता नालीगृहविशालता ।
द्वित्रिवेदांशके विंशत्यंशे नवदिगंशकः ॥ ५१।५३ ॥
वेसरे गर्भगेहः स्यात्त्रितले तु द्विजोत्तमाः ।
एकद्वित्रितलानां तु गर्घस्त्वेवमुदाहृतः ॥ ५१।५४ ॥
नागरोक्तं वराटे स्यात्कालिङ्गे द्रामिडोचितम् ॥
वेसरोक्तं तु यत्सर्वं तद्योग्यं सार्वदेशिके ।
यथाक्रमं वा तद्बाह्यं सर्वं वा सार्वदेशिके ॥ ५१।५५ ॥
अष्टत्रित्रिदशत्र्यंशगर्भः स्यात्त्रितलादिषु ।
नागरादिषु सामान्यविशेषालङ्कृतिस्थितिः ॥ ५१।५६ ॥
श्रेयसी श्रेयसी नार्धश्रेयसी श्रेयसी मता ।
एवं गर्भगृहं प्रोक्तं भद्रस्य विधिरुच्यते ॥ ५१।५७ ॥
सैकत्रिपञ्चपङ्क्त्यंशपञ्चषट्सप्तविस्तराः ।
तत्तारैकांशनिष्क्रान्ता मध्ये मूषा कनीयसी ॥ ५१।५८ ॥
कनिष्ठे नवपञ्चांशा सप्तत्र्यंशा च मध्यमे ।
मूले द्विपञ्चषट्सप्तचतुष्पञ्चषडंशिका ॥ ५१।५९ ॥
मध्यमे मध्यमा मूषा सर्वव्यासार्धनिष्क्रमा ।
षोडशांशे षडंशाष्टादशसप्तांशविस्तराः ॥ ५१।६० ॥
पञ्चादशषडंशः स्यान्मध्ये मूषा कनीयसौ ।
कनिष्ठे नवपञ्चांशाः सप्तत्र्यंशाब्ध मध्यमे ॥ ५१।६१ ॥
त्र्यंशकैकांशके षट्सु नागरादिष्वनुक्रमात् ।
निष्क्रान्तिरासां पूर्वोक्तरीत्यैवं परिकल्प्यताम् ॥ ५१।६२ ॥
शान्तिकाद्याः कामदान्ताः पञ्चाशद्द्रामिडोचिताः ।
व्यासद्विगुण-उत्सेधाः कामदाद्यास्तु नागरे ॥ ५१।६३ ॥
एकद्वित्रिचतुःपञ्चभागैस्तु द्विगुणाधिकाः ।
अष्टांशेषु विशालेषु उत्सेधाः शान्तिकादिकाः ॥ ५१।६४ ॥
वराटे चापि कालिङ्गे वेसरे नागरोक्तवत् ।
नागरे समहस्ताः स्युर्द्रामिडादिषु पूर्ववत् ॥ ५१।६५ ॥
स्वायम्भुवादिलिङ्गानां पूजांशप्रिणाहके ।
पञ्चादशांशके पञ्चभागोत्सेधं तु शान्तिकम् ॥ ५१।६६ ॥
नागरं समलिङ्गं तन्नाहे सप्तदशांशके ।
नागरं पौष्टिकं नाम सप्तांशोच्चं शिवाधिकम् ॥ ५१।६७ ॥
एकोनविंशदंशात्तु नवांशं वर्धमानकम् ।
जयदं नागरं तस्माद्दशांशाधिकतुङ्गकम् ॥ ५१।६८ ॥
अद्भुतं चाभिवारं च तदर्धं सार्वदेशिकम् ।
एवं नागरलिङ्गे तु सौधमोजःपदेन तु ॥ ५१।६९ ॥
परिणाहे विकारांशे भूतकौशिकधातुभिः ।
उदयं द्रामिडं प्रोक्तं शान्तिपुष्टिजयावहम् ॥ ५१।७० ॥
तत्तर्धांशकाधिक्यं हीनद्व्यन्तरमानकम् ।
अद्भुतं चाभिवारं च सार्वकामिकमुच्यते ॥ ५१।७१ ॥
नाहे तु भास्करे भागे त्रिचतुःपञ्चभागिकम् ।
पौष्टिकं तुङ्गजयदं जयदं वेसरं मतम् ॥ ५१।७२ ॥
पूर्वोक्तविधिना ज्ञेया अद्भुताद्यास्त्रयस्त्रयः ।
द्रामिडे वेसरे लिङ्गे समभागप्रमाणतः ॥ ५१।७३ ॥
प्रासादं योजयेद्विद्वान् यथाशास्त्रं द्विजोत्तमाः ।
मानवे लब्धदैर्घ्यं यत् तद्विरष्टांशके कृते ॥ ५१।७४ ॥
भूतवेदगुणव्यासं नागरं शान्तिकादिकम् ।
अर्धार्धाधिकहीनं तु द्व्यन्तरं तु विशालकम् ॥ ५१।७५ ॥

(पृ० १२८)

अद्भुतं चाभिवारं च नागरं सार्वकामिकम् ।
अष्टादशांशके तुङ्गे कौशिकेन्द्रियवेदिकम् ॥ ५१।७६ ॥
द्रामिडं शान्तिकादि स्यादद्भुताद्यथ पूर्ववत् ।
वेसरे विंशदंशे तु वसुभानुरसांशकम् ॥ ५१।७७ ॥
शान्तिकादिक्रमेणैवमद्भुताद्यथ पूर्ववत् ।
लिङ्गायामसमो व्यासः पूजांशोच्चद्वयेन वा ॥ ५१।७८ ॥
तदन्तरेऽष्टभागे तु नवैते पीठविस्तराः ।
व्यासार्धमुच्छ्रयं कुर्याद्द्वात्रिंशद्द्व्यंशमेव वा ॥ ५१।७९ ॥
तदन्तरेऽष्टभागे तु नवैते पीठिकोच्छ्रयाः ।
लिङ्गायामे नवांशैस्तु सप्तभागैस्तु कन्यसः ।
उत्तमो नवभिर्भागैर्द्रामिडे पीठविस्तरः ॥ ५१।८० ॥
तदन्तरेऽष्टभागे तु नवधा पीठविस्तराः ।
तस्य चोच्चेऽष्टभागे तु त्यक्त्वैकं द्वित्रिभागिकम् ॥ ५१।८१ ॥
शेषं पूर्वोच्छ्रयं पूजाभागमर्वाक्स्थलोपरि ।
द्रामिडे विहितं ह्येवं वेसरं तु निगद्यते ॥ ५१।८२ ॥
वेसरे परिणाहे तु विकारांशे तु विस्तरः ।
पीठस्य सप्तनन्दांशैरधमोत्तममिष्यते ॥ ५१।८३ ॥
तदन्तरेऽष्टभागे तु पूर्ववत्परिकल्पयेत् ।
विष्णुभागसमुत्सेधः शेषं भूगतमिष्यते ॥ ५१।८४ ॥
विष्णुभागे तुरीयांशेनाधिका वाथ पीठिका ।
विष्कम्भत्रिगुणो व्यासोऽधस्ताद्ब्रह्मशिलां न्यसेत् ॥ ५१।८५ ॥
व्यासत्रिभाग उत्सेधश्चतुरंशैक एव वा ।
यस्य लिङ्गस्य विष्कम्भश्चाष्टभागैकमेव वा ॥ ५१।८६ ॥
नवभागैकभागं वा गाम्भीर्यमवटस्य तु ।
एषा नागरलिङ्गे तु ब्रह्माख्या कथिता शिला ॥ ५१।८७ ॥
गर्भकर्णतुरीयांशा व्यासात्तत्त्र्यंशकोदया ।
लिङ्गव्यासाष्टभागैकरवाता द्रामिडभूशिला ॥ ५१।८८ ॥
गर्भादर्धचतुर्भागहीनविस्तारसंयुता ।
तत्पादांशकयोपेता शिला वा वेसरे स्थिता ॥ ५१।८९ ॥
लिङ्गपीठशिलायामसजातीया सुसम्पदे ।
विपरीते विपत्यै स्यात्कर्तुः कारयितुस्तथा ॥ ५१।९० ॥
अयं विभागो लिङ्गे तु नेष्यते सार्वदेशिके ।
प्रासादेऽपि तथा लिङ्गे नियमो नेष्यते द्विजाः ॥ ५१।९१ ॥
एवं पीठशिलायां च नियमो नेप्यतेऽत्र तु ।
मुख्यत्वात्सर्वलिङ्गेभ्यः सर्वत्रापि च सम्मतम् ॥ ५१।९२ ॥
तथा प्रासाद एव स्यात्पीठश्चापि तथैव च ।
शान्तिकं पौष्टिजयदमद्भुतं सार्वकामिकम् ॥ ५१।९३ ॥
शान्तिकश्चोच्छ्रयेऽष्टांशो भागोच्छ्रायविनिर्मितम् ।
द्विभागश्चरणोत्सेधः प्रस्तरोऽष्टांशहीनकः ॥ ५१।९४ ॥
त्रिभागं गलमित्युक्तमर्धांशं शिखरोदयम् ।
स्थूपिकाष्टांशहीना स्याद्द्रामिडं चैकभूमिकम् ॥ ५१।९५ ॥
नवाऽंशेष्टांशयुग्भागं मसूरं द्विगुणं भवेत् ।
तारोच्चप्रस्तरो भागो गलं भागविनिर्मितम् ॥ ५१।९६ ॥
त्रिभागशिखरोत्सेधं शेषेण स्थूपिका भवेत् ।
द्रामिडं पौष्टिकं प्रोक्तं दशांशे तु सपादकम् ॥ ५१।९७ ॥
मसूरद्विगुणः पादो भागः प्रस्तर उच्यते ।
पादमानं गलं प्रोक्तं सर्वात्म्यांशं शिरो भवेत् ॥ ५१।९८ ॥
भागेन स्थूपिकाजय्यं द्रामिडं परिकीर्तितम् ।
द्वादशांशे सपादांशं मसूरश्च त्रिभागभाक् ॥ ५१।९९ ॥
द्विपादः पाद इत्युक्तः सपादप्रस्तरोदयः ।
एकांशं गलमित्युक्तं चतुरर्धं शिरो भवेत् ॥ ५१।१०० ॥
सपादभागं स्थूप्युच्चमुद्भूतं द्रामिडं भवेत् ।
त्रयोदशांशे सार्धांशं मसूरं वा त्रिभागतः ।
सपादः प्रस्तरः प्रोक्तस्त्वेकेन गलमिष्यते ॥ ५१।१०१ ॥
पञ्चांशं शिखरं ज्ञेयं सपादः स्थूपिका भवेत् ।
सार्वकामिकसञ्ज्ञं तु द्रामिडं परिकीर्तितम् ॥ ५१।१०२ ॥
सभद्रं वा विभद्रं वा कर्णकूटयुतं तु वा ।
निष्कर्णकूटं वा कार्यं सनीडं वा सतोरणम् ॥ ५१।१०३ ॥

(पृ० १२९)

एवं लक्षणसंयुक्तं विधेयं चैकभूमिकम् ।
गर्भान्तर्गलवेशस्तु यदि स्यान्मरणं भवेत् ॥ ५१।१०४ ॥
नागरे सार्वदेश्ये च कालिङ्गे द्रामिडेऽपि वा ।
वराटे न प्रवेशं तु वेसरे परिकल्पयेत् ॥ ५१।१०५ ॥ ५१।
विष्णुर्ब्रह्मा हरश्चेति विप्रराजन्यवैश्यकाः ।
नागरे द्रामिडे धाम्नि वेसरे त्वधिपा मताः ॥ ५१।१०६ ॥
उपानात् स्थूपिपर्यन्तं युगाश्रं नागरं भवेत् ।
कण्ठात्प्रभृति वृत्तं यद्वेसरं परिकीर्तितम् ॥ ५१।१०७ ॥
कण्ठात्प्रभृति वस्वश्रं द्रामिडं परिकीर्तितम् ।
सार्वदेशिकधाम्न्येतन्नागराद्यं प्रकीर्तितम् ॥ ५१।१०८ ॥
चतुरश्रायताश्रं तन्नागरं प्ररिकीर्तितम् ।
अष्टाश्रं च षडश्रं च तत्तदायाममेव च ॥ ५१।१०९ ॥
सौधं द्रामिडमित्युक्तं वेसरं तु प्रकथ्यते ।
वृत्तं वृत्तायतं चाश्रं वृत्तं चान्यत्प्रकीर्तितम् ॥ ५१।११० ॥
द्रामिडाख्यविमानेऽपि नागरादिप्रभेदितम् ।
लिङ्गाद्यं कथितं पूर्वं वपुस्तत्रापि कथ्यते ॥ ५१।१११ ॥
नागरे लक्षणं पूजाभागे षोडशभाजिते ।
ऊर्ध्वे षड्भूतवेदांशं त्यक्त्वाधो लक्ष्म कारयेत् ॥ ५१।११२ ॥
विष्ण्वंशाभिमुखे सूत्रे पार्श्वयोर्द्वेऽवलम्बयेत् ।
पृष्ठे तयोर्यूतिहीने वेदाग्निनयनान्यथ ॥ ५१।११३ ॥
विहाय मध्यमे भूतवेदाग्निनयनानि च ।
ज्येष्ठे षट्पञ्चवेदाग्निपादभागानधस्त्यजेत् ॥ ५१।११४ ॥
त्रिभागं त्वेकभागं तु द्व्यंशं सूत्रान्तरं मतम् ।
तदर्धं पार्श्वसूत्राग्रं तारं प्रोक्तं मुनीश्वराः ॥ ५१।११५ ॥
यवमानं भवेत्सूत्रगाम्भीर्यं विस्तरेण च ।
हीने हीने भवेदष्टयवैः श्रेष्ठोत्तमे द्विजाः ॥ ५१।११६ ॥
एवं नागरलिङ्गेषु लक्षणं द्विजसत्तमाः ।
द्रामिडे शिवभागे तु त्रिपञ्चांशे कृते क्रमात् ॥ ५१।११७ ॥
नवभागैर्दशांशेन ह्येकादशविभागकैः ॥ ५१।११८ ॥
हीनमध्योत्तमाख्यं तु लक्षणोद्धारकं भवेत् ।
सप्ताष्टनवभागेभ्यः सूत्रे संलम्बयेत्क्रमात् ॥ ५१।११९ ॥
त्रिचतुर्द्व्यंशके हीने यूतिः स्यात्पक्षसूत्रयोः ।
मध्यमे भूतवेदाग्नियूकैश्चापि युतिर्भवेत् ॥ ५१।१२० ॥
षड्भूतवेदवह्न्यंशैः श्रेष्ठे पृष्ठे तयोर्युतिः ।
स्वभागात्सूत्रविस्तारः पक्षसूत्रं पुरोक्तवत् ॥ ५१।१२१ ॥
षोडशांशे शिवायामे सूत्रायामो दशांशकः ।
चतुर्भागं तदूर्ध्वेऽथ पृष्ठे द्व्यंशं विहाय च ॥ ५१।१२२ ॥
मुकुलाकारमारभ्य संयुतः पार्श्वसूत्रयोः ।
अथवाथ त्रयांशं तु त्यक्त्वोर्ध्वे रुद्रभागतः ॥ ५१।१२३ ॥
नालायामः समुद्दिष्टः शेषं पूर्ववदेव हि ।
एवं द्रामिडलिङ्गस्य ब्रह्मसूत्रं प्रकल्पितम् ॥ ५१।१२४ ॥
वेसरस्यार्चनांशोच्चे त्रिपञ्चांशे तशांशतः ।
नालायामः समुद्दिष्टस्त्वष्टभागात्प्रभृत्यधः ॥ ५१।१२५ ॥
भूतवेदगुणांशेषु सङ्गमः पक्षसूत्रयोः ।
द्वःदशांशार्चनाभागे षोडशद्व्यंशमूर्ध्वतः ॥ ५१।१२६ ॥
नालायामो नवांशः स्यात्सङ्गमः पूर्ववद्भवेत् ।
व्यासे द्विरस्टभागे तु भागः स्यात्सूत्रविस्तरः ॥ ५१।१२७ ॥
तदर्धं पक्षसूत्रं स्यादन्तरं शेषपूर्ववत् ।
एवं वेसरलिङ्गस्य ब्रह्मसूत्रमुदाहृतम् ॥ ५१।१२८ ॥
सार्वदेशिकलिङ्गे तु विभागोऽयं न कीर्तितः ।
तथा पीठे तु पीठस्य नागराद्यं विधीयते ॥ ५१।१२९ ॥
अभद्रं द्रामिडे पीठं भद्रं भद्रोपभद्रकम् ।
नागरे वेसरे योग्यं कालिङ्गेऽपि वराटके ॥ ५१।१३० ॥
सामान्यं पीठमुद्दिष्टं प्रतिमाप्यधुनोच्यते ।
गर्भे धिष्ण्ये मसूरे च द्वारे स्तम्भे च मस्तके ॥ ५१।१३१ ॥
स्थूपिकोच्चे दशांशोच्चे सप्तांशा प्रतिमा वरा ।
चतुर्थ्यंशोदया हीना षड्विंशत्यन्तरेऽन्तरम् ॥ ५१।१३२ ॥

(पृ० १३०)

नक्षत्रसङ्ख्यातुङ्गानि प्रतिमायां भवन्ति हि ।
नागरे त्रित्रिसङ्ख्यानि द्रामिडे नवसङ्ख्यया ॥ ५१।१३३ ॥
वेसराणि तथान्यानि श्रेष्ठमध्याधमक्रमात् ।
सात्त्विकं राजसं चैव तामसं च क्रमात्त्रिधा ॥ ५१।१३४ ॥
सात्त्विकं स्थानके योग्यं राजसं नृत्तरूपके ।
तामसं चान्यरूपे तु योजनीयं विचक्षणैः ॥ ५१।१३५ ॥
सार्वदेशिकलिङ्गे तु विधानं नेष्यते बुधैः ।
धामवास्त्वमराणां तु नागराद्यं परं मतम् ॥ ५१।१३६ ॥
ग्रामे वा नगरे वापि पत्तने राजधानिके ।
खेटादौ परमेशस्य ब्रह्मस्थानेऽष्टदिक्षु वा ॥ ५१।१३७ ॥
बहिर्वाष्टासु काष्ठासु कुड्यान्तर्वा बहिष्कृतम् ।
एतेषामन्तराले वा प्रासादं कर्तुमारभेत् ॥ ५१।१३८ ॥
उत्तरे नागरं कुर्याद्वायौ वैशानदेशके ।
दक्षिणे द्रामिडं कुर्याद्वह्नौ वा नैरृतेऽपि वा ॥ ५१।१३९ ॥
पूर्वस्मिन् पश्चिमे वापि वेसरं हर्म्यमाचरेत् ।
सोमपार्श्वद्वये तद्वद्यमपार्श्वे यमोक्तिवत् ॥ ५१।१४० ॥
इन्द्रस्य पार्श्वयोस्तद्वद्वारुणोभयस्तथा ।
धामान्येतानि सर्वाणि द्रामिडानि भवन्ति हि ॥ ५१।१४१ ॥
सार्वदेशिकहर्म्यं चेत्सर्वत्रापि समाचरेत् ।
एतेषामिष्टकामाद्यामिष्टदेशे समाचरेत् ॥ ५१।१४२ ॥
ब्राह्मे चेदग्निकोणस्थकोष्ठः स्याद्वापणस्य च ।
नैरृतेप्येकदेशस्थं सभाया वाविरोधतः ॥ ५१।१४३ ॥
धामान्येतानि कार्याणि वंशसूत्राविरोधतः ।
पार्वतीभवनं सार्वदेशे शर्वोक्तवन्नयेत् ॥ ५१।१४४ ॥
वलभ्याकारकोपेतं द्रामिडाकारमेव वा ।
विघ्नेश्वरस्य मध्ये वा पूर्वोक्ते वा यथा शिवे ॥ ५१।१४५ ॥
हस्तिपृष्ठशिरः कार्यं साधारणशिरस्तु वा ।
सेनानीभवनं कार्यं यथा शर्वस्य सम्मतम् ॥ ५१।१४६ ॥
पूर्वोक्तदेशे कर्तव्यं नागरं विष्णुमन्दिरम् ।
मध्यमे च चतुर्दिक्षु नैरृतेऽन्यत्र ब्रह्मणः ॥ ५१।१४७ ॥
वेसरं धाम कर्तव्यं चतुर्भद्रसमन्वितम् ।
वारुण्यां वाथ याम्याग्निमध्ये वा ग्राममध्यमे ॥ ५१।१४८ ॥
श्रीधाम वैष्णवं कुर्याद्याम्ये नैरृतमध्यमे ।
ग्रामादिमध्यमेऽन्यत्र यथा वा ब्रह्ममन्दिरम् ॥ ५१।१४९ ॥
तथाविधे वा चग्नेय्यां सूर्यस्य शिववन्मतम् ।
अष्टदिक्ष्विष्टदेशेषु क्षेत्रेशे द्रामिडं ततः ॥ ५१।१५० ॥
पार्वतीभवनं यद्वत्पूर्वोक्तस्थानकं द्विजाः ।
जेष्ठाधाम यथा वाचस्त्विन्द्रपावकमध्यमे ॥ ५१।१५१ ॥
पूर्वोक्तदेशे वा कार्यं वह्नौ सोमेशमध्यमे ।
शास्तुर्धाम विधातव्यं यथा विघ्नेशमन्दिरम् ॥ ५१।१५२ ॥
सोमस्य सोमदिग्भागे नैरृते वाथ तद्गृहम् ।
नागरं सोमवायव्ये वास्तुवैश्रवणं गृहम् ॥ ५१।१५३ ॥
सोममन्दिरवत्कार्यं वह्नौ सोमेशमध्यमे ।
कामधाम यथा विष्णोरथवान्यत्र देशतः ॥ ५१।१५४ ॥
अनुक्तानां च सर्वेषां देवानां योषितामपि ।
प्रागुक्तानां च देवानां देवीनां सार्वदेशिकम् ॥ ५१।१५५ ॥
अथवा कारयेद्धाम तत्तद्वाहनसंयुतम् ।
सार्वदेशिकसञ्ज्ञस्य प्रासादस्य च लक्षणम् ॥ ५१।१५६ ॥
लिङ्गस्य लक्षणं विप्रास्तद्वत्पीठस्य लक्षणम् ।
लक्षणं ब्रह्मशैलस्य तद्वद्बेरादिलक्षणम् ॥ ५१।१५७ ॥
तत्तदध्यायसंसिद्धं सङ्ग्राह्यं देशिकोत्तमैः ।

इति कामिकाख्ये महातन्त्रे नागरादिविभेदविधिः नवचत्वारिंशत्तमः
पटः ॥