(पृ० १२१)
अथ वक्ष्ये विशेषेण मालिकां पद्मकाह्वयम् ।
अष्टांशव्याससंयुक्तं दशांशायामसंयुतम् ॥ ५०।१ ॥
समन्तात्परित्ॐऽशेन वारं तु परिकल्पयेत् ।
अन्तः शालाद्विभागेन मध्याङ्कणसमन्विता ॥ ५०।२ ॥
द्विभागविस्तृतं वेदभागायामसमन्वितम् ।
शालाकारं सभाकारं मण्टपं वाङ्कणं भवेत् ॥ ५०।३ ॥
एकभागविनिष्क्रामं भागद्वयविशालतः ।
पाश्वयोर्भद्रसंयुक्तमङ्कणस्योक्तरूपवत् ॥ ५०।४ ॥
मुख्यवारसमाश्लिष्टं कुर्याच्चङ्क्रमणत्रयम् ।
नेत्राणि चार्धकूटानि कर्णाश्लिष्टानि चाष्ट च ॥ ५०।५ ॥
शालाभशिखरं मुख्यधाम कुर्यात्तदुद्धृतम् ।
मण्टपाग्रजशाला स्यात्पक्षशाला तु वार्स्थले ॥ ५०।६ ॥
बाह्ये वारे चतुष्कोणे सभा स्याद्द्वयंशनिर्गमा ।
मध्ये शाला सभा वा स्यान्मध्ये वारणमिष्यते ॥ ५०।७ ॥
कूटशालान्तरे कुर्याद्धस्तिपृष्ठाभनासिकाम् ।
शालाग्रपृष्ठपार्श्वेषु द्विभागेनैकभागतः ॥ ५०।८ ॥
शालाः स्युर्वा सभा वा स्युरन्तरान्तरदेशके ।
हाराङ्कालङ्कृतं कुर्याच्छ्रीवर्धनमिदं मतम् ॥ ५०।९ ॥
एतत्सौभद्रमित्युक्तं त्यक्तमस्तकमेव च ।
शिखरं तु सभाकारं मुखे शालास्यमेव च ॥ ५०।१० ॥
पूर्वोक्तमन्यत्सर्वं स्यात् श्रीभद्रं नामतो भवेत् ।
विस्तारे दशभागाः स्युरायामे द्वादशांशकाः ॥ ५०।११ ॥
ब्रह्माङ्कणं द्विभागं स्याद्विस्तारे द्विगुणायतम् ।
अन्तर्वारं बहिर्वारं शालायास्त्वेकभागतः ॥ ५०।१२ ॥
शालाव्यासो द्विभागेन पार्श्वयोरुभयोरपि ।
चतस्रोऽर्धसभायास्ताः सक्तावारविशेषतः ॥ ५०।१३ ॥
पूर्वे च पश्चिमे भागे द्व्यंशांशव्यासनिर्गमे ।
शालास्ये वा सभास्ये वा भद्रे वारान्तरे स्थिरे ॥ ५०।१४ ॥
पार्श्वयोरुभयोर्द्व्यंशव्यासे वेदांशदैर्घ्यके ।
मध्यं वारणके कल्प्यं सवारे वासबाह्यतः ॥ ५०।१५ ॥
मुखशाला विशाला स्यान्मुखवासात्तु मण्टपः ।
शेषं हर्म्यस्थलं कार्यमङ्कणं तु विशेषतः ॥ ५०।१६ ॥
भद्रसुन्दरमेतत्स्यात्कल्पयेत्कल्पवित्तमः ।
एतदेव सभाकारं शिरश्चेन्मुख्यवासकम् ॥ ५०।१७ ॥
मेरुकान्तमिति प्रोक्तं सर्वालङ्कारशोभितम् ।
विस्तारे द्वादशांशः स्यादायामे नवभागकम् ॥ ५०।१८ ॥
वेदभागसमायामभागद्वयसुविस्तरम् ।
अङ्कणं बाह्यतो वारमेकशालाद्विभागतः ॥ ५०।१९ ॥
अङ्कणं मण्टपं मुख्यवारं तत्तद्भवेदिह ।
अग्रशाला च तद्वत्स्याच्छेषं सर्वं तु वार्स्थलम् ॥ ५०।२० ॥
स्वायामार्धप्रमाणेन चोद्धृतं मुख्यवासकम् ।
हाराङ्गशोभितं तच्च मण्टपं प्रविधीयते ॥ ५०।२१ ॥
वासबाह्येऽंशतो वारं तत्राष्टौ स्युः सभामुखे ।
कर्करीबन्धयुक्तास्तु वासाश्लिष्टास्त्विमे मताः ॥ ५०।२२ ॥
प्रधाने चाग्रशालायामन्तः पार्श्वद्वयोरपि ।
बहुशालानुसारेण सभाशालानने मते ॥ ५०।२३ ॥
तद्बाह्ये चावृतं वारमेकभागेन कल्पयेत् ।
तद्बाह्ये च चतुर्दिक्षु पञ्चभागविनिर्गमात् ॥ ५०।२४ ॥
दशभागविशालेन कुर्याद्भद्रचतुष्टयम् ।
तत्रैव च चतुर्दिक्षु वेदभागविशालतः ॥ ५०।२५ ॥
भागद्वयविदिङ्मार्गं मध्यवारणमिष्यते ।
तत्पार्श्वयोर्द्वयोश्चैवान्तराला द्व्यंशविस्तराः ॥ ५०।२६ ॥
(पृ० १२२)
एकभागविनिष्क्रान्ताश्चाष्टौ स्युस्ते सभामुखाः ।
मध्यवारणबाह्ये तु पार्श्वयोर्द्व्यंशविस्तरे ॥ ५०।२७ ॥
चतुरंशाययुक्ते चैकान्तरालसमन्विते ।
द्वे शाले च प्रकर्तव्ये दक्षिणे चोत्तरेऽपि च ॥ ५०।२८ ॥
तत्पार्श्वयोर्द्वयोद्व्यंशन्त्र्यंशे च विपुलास्तथा ।
विपरीतायसंयुक्ताश्चैकभागान्तरालकाः ॥ ५०।२९ ॥
शालाश्चतस्रः कर्तव्याः पार्श्वयोरुभयोरपि ।
पुरतः पृष्ठतो वापि मध्यवारणपूर्वकम् ॥ ५०।३० ॥
चतुरंशेन कूटं स्यादेकभागान्तरालकम् ।
अथवा चतुरंशेन शाला पूर्ववदीरिता ॥ ५०।३१ ॥
तत्पार्श्वयोर्द्वयोश्चैव कर्णकूटद्वयं भवेत् ।
भागद्वयान्तरालं तु दक्षिणोत्तरकूटयोः ॥ ५०।३२ ॥
कूटार्धसभयोरेवं पश्चिमेऽप्येवमेव तु ।
अन्यत्सर्वं समानोक्तं नाम्ना चैतत्सुमङ्गलम् ॥ ५०।३३ ॥
पञ्चषट्सप्तभौमान्तं भूपालानां प्रकीर्तितम् ।
तदेव चाङ्कणं मुख्यं वासशालाख्यमीरितम् ॥ ५०।३४ ॥
कर्णकूटद्वयं चाग्रशालांशे वेदभागतः ।
अहन्यमेतदुद्दिष्टमन्यत्सर्वं तु पूर्ववत् ॥ ५०।३५ ॥
सभाग्रमङ्कणं मुख्यागारं चेत्कान्तिवर्धनम् ।
विस्तारायामतोर्कांशं मन्वंशेन समायुतम् ॥ ५०।३६ ॥
अङ्कणं स्याच्चतुर्भागं विस्तारे चायतेऽपि च ।
शालाव्यासो द्विभागेन सर्वत्र परिकीर्तितः ॥ ५०।३७ ॥
मुख्यधाम्नः समन्तात्तु वारमेकांशतो भवेत् ।
मुख्यधाम्नो मुखे पृष्ठे शाला स्यान्नासिकाद्वयम् ॥ ५०।३८ ॥
शालाख्यमुख्यधाम स्यात्कभित्त्या च समन्वितम् ।
अग्रशालांशके कोणे कूटे द्व्यंशेन निर्मिते ॥ ५०।३९ ॥
शेषं हर्म्यस्थलं चान्तः शिष्टं कुड्यसमन्वितम् ।
बहिरावृतवारं स्यात्पताकाकुड्यसंयुतम् ॥ ५०।४० ॥
बहिर्वारे द्विभागैकभागविस्तारनिर्गमे ।
शालासभामुखे पूर्वे पूर्वकार्याग्रशालके ॥ ५०।४१ ॥
तद्बहिः कारयेद्वर्षस्थलं भागद्वयेन तु ।
खण्डहर्म्यसमायुक्तं समन्तात्परिकल्पयेत् ॥ ५०।४२ ॥
स्वव्यासार्धं तदर्धं वा कर्णकूटस्य निर्गमः ।
शालायामविशालेन पञ्चभागविनिष्क्रमात् ॥ ५०।४३ ॥
बाह्ये तु खण्डहर्म्यं स्याच्चतुर्भद्रं प्रयोजयेत् ।
दक्षिणे चोत्तरे वापि भद्रयोश्च द्वयोरपि ॥ ५०।४४ ॥
खण्डहर्म्यस्य पार्श्वे तु वार्स्थलं चैकभागतः ।
तदग्रे मण्टपे मध्ये वेदभागेन निर्मितम् ॥ ५०।४५ ॥
तत्कर्णयोर्द्वयोश्चैव कर्णकूटद्वयं भवेत् ।
पार्श्वयोर्मण्टपं वेदभागेनैव तु वार्स्थलम् ॥ ५०।४६ ॥
पार्श्वयोर्द्व्येकभागेन तद्वदेव च वार्स्थलम् ।
तत्पार्श्वयोर्द्वयोर्वेदद्व्यंशेनैव तु निर्मिते ॥ ५०।४७ ॥
प्रतिलोमायते शाले कार्ये मध्ये तु वार्स्थलम् ।
उभयोः पार्श्वयोर्वारे कार्या चार्धसभामुखा ॥ ५०।४८ ॥
भागद्वयविशालास्तु चैकभागविनिर्गमाः ।
पृष्ठतः पुरतो भद्रद्वये त्वेवं समाचरेत् ॥ ५०।४९ ॥
खण्डहर्म्यस्य बाह्ये तु वार्स्थले चैकभागतः ।
तदग्रे मण्टपं वेदभागेनैव तु निर्मितम् ॥ ५०।५० ॥
तत्कर्णकूटयोश्चैव कर्णकूटद्वयं भवेत् ।
पार्श्वयोर्मण्टपस्यैव वेदभागेन वार्स्थलम् ॥ ५०।५१ ॥
तदग्रे वार्स्थलं चैकभागेनैव तु निर्मितम् ।
तदग्रे वारमेकांशं कुड्यं चापि प्रयोजयेत् ॥ ५०।५२ ॥
तदग्रे द्व्यंशविस्ताराच्चैकभागविनिष्क्रमात् ।
मुखशाला प्रकर्तव्या विशेषेण विमानवत् ॥ ५०।५३ ॥
पूर्वपश्चिमभद्रं तु सवारं वाक्षिपक्ष्मवत् ।
एतत्तद्वर्धमानं स्याद्भूपालानां प्रशंसितम् ॥ ५०।५४ ॥
(पृ० १२३)
तदेव च शिरोहीनं शुकपञ्जरसंयुतम् ।
मनोरम्यमिति ख्यातं द्विजातीनां प्रशंसितम् ॥ ५०।५५ ॥
तदेव मुख्यधामैवं सभाशिखरसंयुतम् ।
अङ्कणं तु सभारं स्यात् श्रीकरं चैतदीरितम् ॥ ५०।५६ ॥
विस्तारे द्वादशांशाः स्युरायामे मनुभागतः ।
अङ्कणं वेदभागं स्याच्छालाव्यासो द्विभागतः ॥ ५०।५७ ॥
मुखागारेऽग्रशालायां स्याच्चङ्क्रमणमेकतः ।
अङ्कणं तु सभारं स्यान्मुख्यागारं तु कोष्ठकम् ॥ ५०।५८ ॥
तत्संश्लिष्टद्विभागैकभागविस्तारनिर्गमम् ।
शालावक्त्रसमायुक्तं तद्भद्रं च क्रमोज्झितम् ॥ ५०।५९ ॥
तस्य पश्चिमभागे तु तद्वदेव विधीयताम् ।
वार्स्थले बाहुशाले द्वे मुख्यागारस्य पार्श्वयोः ॥ ५०।६० ॥
मण्टपद्वितयं कुर्याद्वासकं वापि मण्टपम् ।
परितो वारमेकांशं सभारं स्याज्जलस्थलम् ॥ ५०।६१ ॥
पार्श्वयोर्मुखशालायाः कुर्यादर्धसभामुखे ।
पार्श्वयोरुभयोश्चैव शाले कार्ये विचक्षणैः ॥ ५०।६२ ॥
बहिर्भागद्वयेनेष्टं वार्स्थलं खण्डहर्म्ययुक् ।
कर्णकूटचतुष्कं तु तत्र कोणेषु कारयेत् ॥ ५०।६३ ॥
सद्वारं स्याच्चतुर्दिक्षु विभागेन तु निर्मितम् ।
चतुर्भागसमायामं सवारं मुखपार्श्वके ॥ ५०।६४ ॥
शालाचतुष्टयं कुर्यादुत्तरे कूटकोष्ठयोः ।
नीडाष्टकं प्रकर्तव्यं दिशामुखमिदं मतम् ॥ ५०।६५ ॥
एतदेव शिरोहीनं मुखागारं सभारकम् ।
अङ्कणं मण्टपाकारं नाम्ना विपुलमुच्यते ॥ ५०।६६ ॥
मुख्यागारं सभाकारं शाला स्याच्चाङ्कणक्रिया ।
मण्टपं चाग्रशालास्थद्वयं हित्वा तु कूटकम् ॥ ५०।६७ ॥
द्वयं तत्र पकर्तव्यं सूर्यकान्तमिदं मतम् ।
विस्तारे दशभागाः स्युरायामे द्वादशांशकम् ॥ ५०।६८ ॥
द्व्यंशेनायतदीर्घे तु विभागो विस्तरः पुनः ।
अङ्कणस्य पुरः पृष्ठवारमेकांशतो भवेत् ॥ ५०।६९ ॥
शालाव्यासो द्विभागेन सर्वत्र परिकीर्तितः ।
बहिर्वर्षस्थलं चैकभागं भागेन वारकम् ॥ ५०।७० ॥
व्यासायामविशालेन तदर्धेन च निर्गमम् ।
बहिर्वर्षस्थलाद्भद्रद्वयं भद्रान्वितं भवेत् ॥ ५०।७१ ॥
प्रतिलोमायते शाले द्विचतुर्व्यासदैर्घ्यके ।
तयोर्मध्येऽनुलोमेन शालायाममिहेष्यते ॥ ५०।७२ ॥
बहिष्ठद्व्येकभागेन पार्श्वाभ्यां निर्गमं भवेत् ।
एकभागान्तरालेन सर्वाः शाला निवेशिताः ॥ ५०।७३ ॥
पूर्वस्मिन् पृष्ठदेशे तु विभागेनैव निर्गमम् ।
मध्ये वाराणमिष्टं स्यादुच्छ्रितं स्वामिवासकम् ॥ ५०।७४ ॥
अग्रहारं तु तद्वत्स्यात्तत्संश्लिष्टे तु बाहुके ।
जालकैस्तोरणैश्चैव नासिकाद्यैरलङ्कृतम् ॥ ५०।७५ ॥
श्रीकान्तमेतदाख्यातं योग्यमैश्वर्यभोगिनाम् ।
तदेव मुख्यागारस्य शिखरं तु सभाकृति ॥ ५०।७६ ॥
वारणैश्चावृतं ब्रह्माङ्कणस्थानं सभाकृति ।
पूर्वशालाग्रमूलस्थं कर्णकूटद्वयं भवेत् ॥ ५०।७७ ॥
शेषं तु वार्स्थलोपेतं रुद्रकान्तमिदं मतम् ।
मुख्यागारं तु गोष्ठाभं कोष्ठाग्रं त्वङ्कणं भवेत् ॥ ५०।७८ ॥
अग्रशालाङ्गके पार्श्वे कर्तव्ये कोष्ठकानने ।
तत्रैव पूर्वभागे तु कोष्ठकस्य द्विभागतः ॥ ५०।७९ ॥
विस्तारान्निर्गमादेकभागं षण्मुखमीरितम् ।
षण्णेत्रं स्यादिति ब्रह्माङ्कणं कोष्ठाननेऽपि च ॥ ५०।८० ॥
सन्त्यक्तशिखरं सर्वमण्टपाकारमिष्यते ।
जयन्तं नामतः प्रोक्तं सर्वालङ्कारसंयुतम् ॥ ५०।८१ ॥
विस्तारे मनुभागाः स्युरायमे षोडशांशकाः ।
अङ्कणं तु चतुर्भागं शालाद्व्यंशेन बाह्यतः ॥ ५०।८२ ॥
(पृ० १२४)
तद्बहिर्वारमेकांशं खण्डहर्म्यं तु बाह्यतः ।
खण्डहर्म्याङ्गके बाह्ये वेदभागेन निर्मितम् ॥ ५०।८३ ॥
चतुष्कूटं चतुष्कोणे चतुर्नासिसमन्वितम् ।
तयोर्मध्ये चतुर्द्व्यंशे चतुः शालाः प्रकीर्तिताः ॥ ५०।८४ ॥
कर्करीशिखरोपेता अग्रवारान्विता नव ।
हारबन्धं यथास्थानं कामाङ्कणमुदीरितम् ॥ ५०।८५ ॥
एतदेवाङ्कणं भागत्रयेणायामसंयुतम् ।
तेन वारं प्रकर्तव्यं मुख्यागारस्य चाग्रतः ॥ ५०।८६ ॥
उत्तुङ्गशिखरग्रीवं मुख्यागारं प्रकीर्तितम् ।
शालास्यमङ्कणं च स्यात्कर्करीकृतवक्त्रकम् ॥ ५०।८७ ॥
शेषं तु वार्स्थलं कुर्याद्वारबन्धान्तमौलिकम् ।
भद्रेण भद्रसंयुक्तं सुखदं स्वस्तिकं मतम् ॥ ५०।८८ ॥
विस्तारे चायते चैव पूर्ववद्भागसंयुतम् ।
द्विचतुर्भागसंयुक्तमङ्कणं तस्य बाह्यतः ॥ ५०।८९ ॥
वारमेकेन कर्तव्यं शालाव्यासो द्विभागतः ।
बहिर्वारमलिन्दं च खण्डहर्म्यं च भागशः ॥ ५०।९० ॥
शालाभागे चतुष्कोणे चतुष्कूटं तु कारयेत् ।
चतुर्णामपि मध्ये तु कुर्याच्छालाचतुष्टयम् ॥ ५०।९१ ॥
अङ्कणं मण्टपाकारं शालातुङ्गाधिकोन्नतम् ।
अन्तर्विन्यासवत्खण्डहर्म्यं तु परिकल्पयेत् ॥ ५०।९२ ॥
शालामध्याननोपेतं चतुर्दिक्षु प्रकल्पयेत् ।
अन्तरे पञ्जरान् कुर्यात्खण्डहर्म्ये विशेषतः ॥ ५०।९३ ॥
गुह्ये गुह्ये क्रियोपेतं विश्वभद्रं भवेदिदम् ।
द्विचतुर्भागविस्तारदैर्घ्यमङ्कणमिष्यते ॥
अङ्कणावृतवारं तु नन्दिच्छन्दं प्रदक्षिणम् ॥ ५०।९४ ॥
नन्द्यावर्ताननोपेतं कुर्याच्छालाचतुष्टयम् ।
समवंशं यथाकार्यं खण्डहर्म्ये तु कोणके ॥ ५०।९५ ॥
एकाङ्गनिर्गतच्छन्दं छन्दाकाराननान्वितम् ।
शालाचतुष्टयं कुर्याच्छालाव्यासार्धनिर्गमम् ॥ ५०।९६ ॥
द्विगुणायामसंयुक्तं मध्यवारणमिष्यते ।
प्रासादवदलङ्कुर्यान्नन्द्यावर्तं द्विजोत्तमाः ॥ ५०।९७ ॥
शालाचतुष्टयं कुर्यात्सभाकारशिरो यथा ।
अङ्कणं मण्टपं कुर्यादुच्छ्रितं ततमीरितम् ॥ ५०।९८ ॥
सौमुख्यमिदमाख्यातं सर्वेषां तु सुखावहम् ।
सर्वं तु मण्टपाकारं शालानां परिकीर्तितम् ॥ ५०।९९ ॥
शुकपञ्जरसंयुक्तं बाह्ये वारादि पूर्ववत् ।
रुचकं चेदमाख्यातमन्यत्सर्वं तु पूर्ववत् ॥ ५०।१०० ॥
विस्तारायाममानेन समं स्याद्वारमङ्कणम् ।
शालाव्यासोऽपि तद्वत्स्याद्वारादित्रितयं ततः ॥ ५०।१०१ ॥
मण्टपं तु चतुर्दिक्षु कोणे वेदसभान्वितम् ।
शेषं तु वार्स्थलं कुर्यात्सुप्रतिष्ठितमीरितम् ॥ ५०।१०२ ॥
मुख्यागारं तु शालास्यमङ्कणं च यथा भवेत् ।
अन्यद्वर्षस्थलं सर्वं नामतो जयमङ्गलम् ॥ ५०।१०३ ॥
अङ्कणं तु सभाकारं मुख्यागारं तु हर्म्यवत् ।
कूटाकारं चतुर्दिक्षु मण्टपं परिकल्पयेत् ॥ ५०।१०४ ॥
अन्यत्सर्वं तु पूर्वोक्तमेतदद्भुतमिष्यते ।
विस्तारे षोडशांशाः स्युरायामेऽष्टादशांशकाः ॥ ५०।१०५ ॥
मध्यमे द्विचतुर्भागैरङ्कणं परिकल्पयेत् ।
तद्बाह्ये द्वारमेकांशं शालाव्यासो द्विभागतः ॥ ५०।१०६ ॥
समन्ताद्वारमेकांशं बाह्ये वारं तथैव च ।
अलिन्दं चैकभागेन खण्डहर्म्यं तु चैकतः ॥ ५०।१०७ ॥
मुख्यशालाग्रशाले च नेत्रहीने प्रकल्पयेत् ।
बाहुशालाद्वयं कार्यं तत्संश्लिष्टं तथा भवेत् ॥ ५०।१०८ ॥
मुख्यागारापरस्थाने स्थाने मूले तु वर्चसा ।
मध्यवारं च भद्रैश्च खण्डहर्म्यैश्च मण्डितम् ॥ ५०।१०९ ॥
(पृ० १२५)
कर्णद्व्यंशेन सोपानमग्रशालांशके नयेत् ।
अग्रे शालासमायुक्तं त्रिशिरोमण्टपं तु वा ॥ ५०।११० ॥
वासस्थानं च भोगं च स्वामिवाञ्च्छावशान्नयेत् ।
एतत्पद्मकमित्युक्तमन्यत्सर्वं तु पूर्ववत् ॥ ५०।१११ ॥
॥ इति कामिकाख्ये महातन्त्रे पद्ममालिकाविधिः अष्टचत्वारिंशत्तमः
पटलः ॥