अथ वक्ष्ये विशेषेण मालिकामौलिकाह्वयम् ।
विस्तारे दशभागाः स्युरायामे द्वादशांशकम् ॥ ४९।१ ॥
समन्ताद्द्वारमेकांशं शालाव्यासो द्विभागतः ।
वेदनेत्रसमायुक्तमन्यत्स्यात्सलिलस्थलम् ॥ ४९।२ ॥
कर्णकूटद्विभागेन मण्टपं मध्यमं भवेत् ।
कूटं च मण्टपं चैव निष्क्रमेण समन्वितम् ॥ ४९।३ ॥
युग्मनाभमिति प्रोक्तं मध्यमण्टपमध्यमे ।
चतुरश्रसमायुक्तं धनमित्यभिधीयते ॥ ४९।४ ॥
तदेव कूटकं चेत्तु सुखमित्यभिधीयते ।
बहिः शालाननोपेतं यदि स्याद्रौद्रमुच्यते ॥ ४९।५ ॥
षड्भिर्नेत्रैः समायुक्तं षण्णेत्रमिति कथ्यते ।
एवं पञ्चविधं प्रोक्तं त्रिशालामौलिकं तु तत् ॥ ४९।६ ॥
॥ इति कामिकाख्ये महातन्त्रे मौलिकामालिकाविधिः सप्तचत्वारिंशत्तमः
पटलः ॥