(पृ० १२०)
मालिकां लाङ्गलाख्यां तु प्रवक्ष्यामि विशेषतः ।
विस्तारेष्टांशकं कुर्यादायामे द्वादशांशकः ॥ ४८।१ ॥
परितो वारमेकांशं शालाव्यासो द्विभागतः ।
शेषं हर्म्यस्थलं कुर्यान्मध्ये वारणसंयुतम् ॥ ४८।२ ॥
चतुर्द्व्यंशेन विस्तारयुक्तमेतदिहोदितम् ।
कर्णे स्याल्लाङ्गलाकारकूटनिर्गमसंयुतम् ॥ ४८।३ ॥
नेत्रद्वयसमायुक्तं गोमेचमिति कथ्यते ।
तदेव वेदनेत्रं चेद्विश्वमित्यभिधीयते ॥ ४८।४ ॥
हर्म्यद्वयस्य मध्ये तु कर्णकूटद्वयान्वितम् ।
आदेयमिति विख्यातं लाङ्गलं त्रिविधं भवेत् ॥ ४८।५ ॥
॥ इति कामिकाख्ये महातन्त्रे लाङ्गलमालिकाविधिः षट्चत्वारिंशत्तमः
पटलः ॥