अथ वक्ष्ये विशेषेण मालिकालक्षणं द्विजाः ।
चतुर्धा मालिका शाला सभा मुण्डजसौधजे ॥ ४७।१ ॥
शालायामपि शालाङ्गा निष्क्रान्ताननशोभिता ।
सा शाला मालिका ज्ञेया शास्त्रेऽस्मिन् कामिकाह्वये ॥ ४७।२ ॥
सभावद्विहिता बाह्ये प्रासादवदलङ्कृता ।
ऊहप्रत्यूहसंयुक्ता या सभा सा च मालिका ॥ ४७।३ ॥
यथेष्टदिशि संयुक्ता भोगभूमिसमन्विता ।
प्रासादव्यासदीर्घोच्चा प्रोक्ता प्रासादमालिका ॥ ४७।४ ॥
मण्डपस्योक्तविस्तारायामतुङ्गविभूषिणी ।
सर्वत्र मुण्डाकारत्वात्कथिता मुण्डमालिका ॥ ४७।५ ॥
प्रत्येकं त्रिविधं प्रोक्तं सञ्चितं चाप्यसञ्चितम् ।
उपसञ्चितमित्येवं नागरं द्रामिडं तथा ॥ ४७।६ ॥
वेसरं च तथा जातिच्छन्दो वैकल्पमेव च ।
शुद्धं मिश्रं च सङ्कीर्णं बीजमूलं तथाङ्कुरम् ॥ ४७।७ ॥
अलिन्दसहितं वापि षड्वर्गसहितं च यत् ।
अर्पितं सञ्चितं प्रोक्तं पुंलिङ्गं तद्धनीकृतम् ॥ ४७।८ ॥
देवानामसुराणां च सिद्धविद्याधरेष्वपि ।
रक्षोगन्धर्वयक्षाणां प्रशस्तानां च जन्मिनाम् ॥ ४७।९ ॥
सर्वत्र भोगभूम्यङ्गमलिन्दपरिशोभितम् ।
सर्ववर्गसमायुक्तं मनःप्रीतिसमन्वितम् ॥ ४७।१० ॥
चतुर्णामनुलोमानां योग्यं स्त्रीलिङ्गमिष्यते ।
पञ्चवर्गयुतं मिश्रमर्पितानर्पिताङ्गकम् ॥ ४७।११ ॥
पाषण्डानामिदं शस्तं नपुंसकसमन्वितम् ।
स्वविस्तारवाशाच्छन्नहस्तपूर्णायतान्वितम् ॥ ४७।१२ ॥
युग्मायुग्मविभागेन नागरं स्यात्समीकृतम् ।
अन्तरप्रस्तरोपेतमूहप्रत्यूहसंयुतम् ॥ ४७।१३ ॥
नीव्रसन्धारसंस्तम्भव्रातैः परिदृढैः शुभैः ।
द्रामिडं वक्ष्यतेऽथातस्तथा विस्तारदैर्घ्यकम् ॥ ४७।१४ ॥
रक्तच्छन्नप्रतिक्षेपाद्युग्मायुग्मविशेषतः ।
हित्वा तत्र समीभूतं भद्रालङ्कारसंयुतम् ॥ ४७।१५ ॥
अनेकवारसंयुक्तं षड्वर्गं द्रामिडं स्मृतम् ।
लब्धव्यासायतं यत्तु नातिरिक्तं न हीनकम् ॥ ४७।१६ ॥
बहुवर्गयुतं वापि दण्डिकावारशोभितम् ।
महावारं विमानोर्ध्वे निर्व्यूहाननसंयुतम् ॥ ४७।१७ ॥
स्वक्षेत्रोपेतमध्याङ्घ्रियुक्तं तद्वेसरं मतम् ।
यतीनां गणिकानां च जीविनां क्रूरकर्मणाम् ॥ ४७।१८ ॥
(पृ० ११८)
प्रशस्तं वेसरं तेषामन्येषामितरे शुभे ।
कर्णमध्येऽन्तरे कूटकोष्ठे पञ्जरसंयुतम् ॥ ४७।१९ ॥
षड्वर्गकसमायुक्तं जातिर्येषां ह्यनर्पितम् ।
कर्णे शालासभामध्ये छन्दं स्याच्छन्दमेव तत् ॥ ४७।२० ॥
त्यक्तमध्यांशके कोष्ठे यस्य स्यात्तद्विकल्पकम् ।
द्रुमेणेष्टकया वापि दृषदाद्यैरथापि वा ॥ ४७।२१ ॥
एतेन सहितं गेहं शुद्धमित्यभिधीयते ।
द्रव्यद्वययुतं मिश्रं सङ्कीर्णं बहुभिर्युतम् ॥ ४७।२२ ॥
देवानामेव सङ्कीर्णमन्येषामन्यदिष्यते ।
विस्तारे चतुरंशं स्यादायामे तु षडंशकाः ॥ ४७।२३ ॥
परितो वारमेकांशं शालाव्यासो द्विभागतः ।
आयामं चतुरश्रं स्याच्छालानां च विशेषतः ॥ ४७।२४ ॥
मध्यागारविनिष्क्रान्तनिर्गमेन समन्विता ।
निर्गमस्तु द्विभागेन विस्तारो द्व्यंशमानतः ॥ ४७।२५ ॥
कोष्ठाननसमायुक्तं तदग्रे मण्डपं नयेत् ।
विस्तारे निर्गमे चैव विभागो मण्डपस्य तु ॥ ४७।२६ ॥
बहिर्वारसमायुक्तं व्यासः पार्श्वद्वयोरपि ।
पृष्ठे च मण्डपस्यापि पार्श्वयोरग्रदेशके ॥ ४७।२७ ॥
एकभागं विनिष्क्रान्तं द्व्यंशविस्तारसंयुतम् ।
संश्लिष्टवारसंयुक्तं षट्सु चार्धसभामुखम् ॥ ४७।२८ ॥
शालाशिखरसंयुक्तं नाम्ना सिन्धुकमिष्यते ।
एतदेव सभाकारशिखरं मन्त्रपूर्वकम् ॥ ४७।२९ ॥
सन्त्यक्तशिखरग्रीवचूलीहर्म्यसमायुतम् ।
सम्पूर्णमिति विख्यातमन्यत्सर्वं तु पूर्ववत् ॥ ४७।३० ॥
पूर्वोक्तसिन्धुकं वारवृक्षस्थलसमन्वितम् ।
मुखवत्पृष्ठशोभाढ्यं सर्वालङ्कारसंयुतम् ॥ ४७।३१ ॥
मेरुकूटमिदं नाम्ना चान्यत्पूर्वोक्तवद्भवेत् ।
एतदेव सभाकारशिखरं क्षेममुच्यते ॥ ४७।३२ ॥
क्षेममेव च पूर्वोक्तं पूर्वभद्रविहीनकम् ।
अग्रभक्तिसमायुक्तं शालापृष्ठे च पार्श्वयोः ॥ ४७।३३ ॥
भद्रपार्श्वद्वयोरग्रे षड्भागान् परिवर्जयेत् ।
तत्रैव शालापृष्ठे च नेत्रयोरुभयोरपि ॥ ४७।३४ ॥
शालाननं प्रकर्तव्यमेकद्व्यंशविनिर्मितम् ।
तत्तदग्रे प्रकर्तव्यं वारे भद्रस्य पश्चिमे ॥ ४७।३५ ॥
द्विभागं चतुरश्रस्य भद्रस्यैव च पार्श्वयोः ।
अग्रे च वाः स्थलं कुर्याद्द्वित्र्यंशायामविस्तरम् ॥ ४७।३६ ॥
पार्श्वयोः स्थलपूर्वे च द्वारमण्डपपार्श्वयोः ।
कर्णकूटद्वयं कुर्याच्चतुर्भागविनिर्मितम् ॥ ४७।३७ ॥
अग्रे च पार्श्वयोश्चैव कुर्यादेकांशवारकम् ।
चतुर्मध्ये चतुष्कोणे सभाकारं प्रकल्पयेत् ॥ ४७।३८ ॥
शिवमेतत्समाख्यातमन्यत्सर्वं तु पूर्ववत् ।
एतदेव च कर्णे तु कर्करीकृतकूटकम् ॥ ४७।३९ ॥
मध्ये शाला सुदृष्टाख्या अन्यत्सर्वं तु पूर्ववत् ।
एतदेव सभाकारशिखरं हर्म्यमिष्यते ॥ ४७।४० ॥
अन्ते तु प्रस्तरोपेतमेतत्सौम्यं तु कथ्यते ।
सर्वमङ्गं सभाकारं कर्णकूटविवर्जितम् ॥ ४७।४१ ॥
सभाव्यावृतवाराङ्गं विशालमिति कथ्यते ।
विशाले षट् तु भागं स्यादायामे दशभागकम् ॥ ४७।४२ ॥
षड्द्व्यंशायामविस्तारा मध्यशाला विधीयते ।
तद्बहिर्वारमेकांशं तद्बाह्ये तु वृषस्थलम् ॥ ४७।४३ ॥
तद्बहिश्च चतुर्दिक्षु द्व्यंशांशं वारनिष्क्रमः ।
चतस्रस्तु सभाः कार्याः कोणकूटचतुष्टयम् ॥ ४७।४४ ॥
लाङ्गलाकारसंयुक्तं वार्स्थलस्य बहिर्गतम् ।
नेत्रयोरुभयोश्चैव वार्स्थलांशे सभे मते ॥ ४७।४५ ॥
द्व्यंशं वाससमायुक्तं वारस्यैव बहिः स्थितः ।
चतुः षडंशविस्तारदैर्घ्यभद्रं मुखे मुखे ॥ ४७।४६ ॥
(पृ० ११९)
तन्मध्ये चतुरंशेन सभां कुर्यात्समन्ततः ।
वार्स्थलं चैकभागेन पार्श्वयोरुभयोरपि ॥ ४७।४७ ॥
चतुष्कोणे चतुष्कूटमेकभागविनिर्गमम् ।
शालामध्ये च कर्तव्या द्विभागेनैकभागतः ॥ ४७।४८ ॥
अन्तरे वार्स्थलं कुर्याद्विजयं नामतो भवेत् ।
एतदेव च पृष्ठे तु भद्रयुक्तं भवेद्यदि ॥ ४७।४९ ॥
सर्वकल्याणमित्युक्तमन्यत्सर्वं तु पूर्ववत् ।
पूर्वोक्तमेव विजयं भद्रयोरग्रपृष्ठयोः ॥ ४७।५० ॥
परित्यक्तसभाकारं मण्टपाकारसंयुतम् ।
सभाकारशिरोयुक्तं प्रधानागारमीरितम् ॥ ४७।५१ ॥
भद्रनाम्ना समाख्यातमन्यत्पूर्वोक्तवद्भवेत् ।
एतदेवमुखं भद्रं सभाकारशिरोयुतम् ॥ ४७।५२ ॥
एतद्रङ्गमुखं प्रोक्तमन्यत्सर्वं तु पूर्ववत् ।
पूर्वोक्तमेव विजयं भद्रयोरग्रकूटयोः ॥ ४७।५३ ॥
एतदेव तु शाला स्यान्मध्ये भद्रं भवेद्यदि ।
नाम्ना चाल्पमिति प्रोक्तमन्यत्पूर्वोक्तवन्नयेत् ॥ ४७।५४ ॥
आयामे दशभागाः स्युर्विस्तारे रसभागकाः ।
वासोमध्ये तु षड्द्व्यंशे वारं बाह्ये तु कारयेत् ॥ ४७।५५ ॥
तद्बाह्ये वार्स्थलं चैकभागेनैव प्रकल्पयेत् ।
वार्स्थले तु चतुष्कर्णे कूटमेकेन कारयेत् ॥ ४७।५६ ॥
तत्रैव मध्यभागे तु चैकद्व्यंशेन मण्डपम् ।
वासाद्यंशविनिष्क्रान्तशालामुखसमन्वितम् ॥ ४७।५७ ॥
हर्म्यस्थलस्य बाह्ये तु द्व्यंशैकांशसभामुखम् ।
पृष्ठे तु तद्वदिष्टं स्यान्नाम्नेदं कोणसञ्ज्ञकम् ॥ ४७।५८ ॥
एतदेव सभाकारशिरोनाहमिति स्मृतम् ।
अग्रतः पृष्ठतः शालामुखागतमिति स्मृतम् ॥ ४७।५९ ॥
नेत्रयोः पृष्ठकास्यं चेद्गेयं नाम्ना समीरितम् ।
शालामुखं तु कर्णे स्यात्सारं नाम्ना प्रकीर्तितम् ॥ ४७।६० ॥
तदग्रे चैव पृष्ठे च द्विचतुर्भागसंयुतम् ।
पारावृतस्य शालास्यं पुष्करं त्विति कथ्यते ॥ ४७।६१ ॥
उभयं च दशास्यं चेद्द्भुतं चेति कीर्तितम् ।
मध्ये शालाननोपेतं बाहुकोष्ठाननान्वितम् ॥ ४७।६२ ॥
अन्यत्र सञ्ज्ञया चैतत्सङ्कीर्णं परिपठ्यते ।
भद्रद्व्यं च सन्त्यक्तं शिखरं मण्टपं तु चेत् ॥ ४७।६३ ॥
नाम्ना पुष्करमित्युक्तमन्यत्पूर्वोक्तवर्त्मना ।
एतदेव च सर्वत्र सभागं दण्डमुच्यते ॥ ४७।६४ ॥
॥ इति कामिकाख्ये महातन्त्रे मालिकालक्षणविधिः
पञ्चचत्वारिंशत्तमः पटलः ॥