(पृ० ११६)
अथ वक्ष्ये विशेषेण हस्तिशालाविधिक्रमम् ।
त्रिकरं तु समारभ्य करार्धेन तु वर्धयेत् ॥ ४६।१ ॥
यावत्पञ्चकरं भित्तिमानं पञ्चविधं भवेत् ।
हस्तिशाला विधेया तु भित्तिमानेन धीमता ॥ ४६।२ ॥
विस्तारे भक्तयः षट् च आयामे नव भक्तयः ।
चतुर्भक्तिविशाला वा सप्तभित्त्या अथापि वा ॥ ४६।३ ॥
त्रिपञ्चभित्तयो वास्युर्विस्तारे चायतावपि ।
मुखशालैकभित्तिः स्यात् सार्धा वा द्विगुणापि वा ॥ ४६।४ ॥
विस्तारे चायते वापि निर्गमागमयोग्यकाः ।
दक्षिणे शयनस्थानं चेष्टभक्त्या विधीयते ॥ ४६।५ ॥
राजादनो मधूकश्च कदरः खदिरः पुनः ।
तिन्त्रिणी चार्जुनः प्रोक्ताः स्तबकः पिहितः शमी ॥ ४६।६ ॥
क्षीरिणी पद्मकाद्यास्ते शालास्तम्भा गजस्य च ।
नवाष्टसप्तहस्तोच्चाः काकमानं विहाय च ॥ ४६।७ ॥
विस्तारे स्यात्षडङ्गुल्यमेकाङ्गुलविवर्धनात् ।
द्वादशाङ्गुलमानं तदवगाहो यथा वलम् ॥ ४६।८ ॥
शालास्तम्भा इमे प्रोक्ता विटपाङ्गशिखान्विताः ।
आलानस्य विशालः स्याद्द्वादशाङ्गुलमानतः ॥ ४६।९ ॥
एकाङ्गुलविवृद्ध्या तु पञ्चविंशाङ्गुलान्तकम् ।
छत्राभाग्रं सुविस्तारमष्टांशं पीनसंयुतम् ॥ ४६।१० ॥
पञ्चधा तु कृते शालाव्यासे पृष्टे त्रिभागिकम् ।
नीत्वारेः षोडशांशं तु वामेऽष्टांशं व्यपोह्य तु ॥ ४६।११ ॥
स्थापयेत्कूटमालानं पूर्वोक्तोच्चसमन्वितम् ।
अनुवाताः समन्तात्स्युस्तत्र भित्तिं प्रकल्पयेत् ॥ ४६।१२ ॥
तदर्धं पादहीनं वा अष्टांशोनमथापि वा ।
तदूर्ध्वे छादनं कुर्यात्कूटाद्यैस्तु समन्ततः ॥ ४६।१३ ॥
गोस्तनं स्याद्वितस्त्या तु बहिराननसंयुतम् ।
फलकाप्रस्तरं कार्यं दृढदारुभिरेव तु ॥ ४६।१४ ॥
शिलाभिश्चेष्टकाभिश्च प्रस्तरं नैव योजयेत् ।
मूत्रद्वारसमोपेतं स्थूलद्वारं प्रकल्पयेत् ॥ ४६।१५ ॥
गजराशिं समारभ्य चाष्टमं द्वादशं तथा ।
परिहृत्य विधेया स्याद्गजशाला विचक्षणैः ॥ ४६।१६ ॥
एवं तु गजशाला स्यादश्वशाला विधीयते ।
नगरे राजवेश्मादौ कुर्याद्देवालयादिषु ॥ ४६।१७ ॥
अश्वानामपि पूर्वोक्तभक्त्या शालां प्रकल्पयेत् ।
द्विहस्तं तु समारभ्य विस्तरेणापि वर्धयेत् ॥ ४६।१८ ॥
नवहस्तप्रमाणान्तं भित्तिमानमथापि वा ।
एतद्विस्तारमाख्यातं त्वायामस्त्वधुनोच्यते ॥ ४६।१९ ॥
पादाधिकमथाध्यर्धं पादोनद्विगुणं तु वा ।
द्विगुणं वाथ विस्तारादायामं परिकल्प्यते ॥ ४६।२० ॥
एकभित्त्या द्विभित्त्या वा त्रिभित्त्या वाथ वाजिनः ।
स्थानं प्रकल्पयेच्छ्रेण्याः पृथु वा कर्तृवाञ्छया ॥ ४६।२१ ॥
समन्तात्कुड्ययुक्तं वा यथेष्टदिशिवारणम् ।
अत्रानुक्तं तु सामान्यशालामानोक्तमाचरेत् ॥ ४६।२२ ॥
पञ्चाङ्गुलं सामारभ्य वृद्ध्या चैकाङ्ङ्गुलेन तु ।
द्वादशाङ्गुलपर्यन्तं स्तम्भमानमिहोदितम् ॥ ४६।२३ ॥
आजानुद्वयविस्तीर्णं फलकाप्रस्तरान्वितम् ।
मूत्रद्वारसमायुक्तं सारदारुमयं दृढम् ॥ ४६।२४ ॥
सारदारुमयं कीलं द्विसप्ताङ्गुलदैर्घ्यकम् ।
विस्तारं त्र्यङ्गुलं प्रोक्तं सूचिकाग्रसमन्वितम् ॥ ४६।२५ ॥
पश्चाद्वन्धेऽग्रबन्धे च योजयेद्दृढघातवत् ।
अष्टमं द्वादशं राशिं परिहृत्यानुकूलतः ॥ ४६।२६ ॥
(पृ० ११७)
अश्वानामधिपस्यापि स्थानं सम्यक्समाचरेत् ।
उष्ट्रादीनामनेनैव प्रमाणेन समाचरेत् ॥ ४६।२७ ॥
अश्वशाला समाख्याता गोशाला प्रविधीयते ।
अश्वशालोक्तभक्त्या तु गोशालां परिकल्पयेत् ॥ ४६।२८ ॥
एकशाला द्विशाला वा त्रिशाला वाथ कल्पयेत् ।
चतुः शालासमा वापि आयामेन युतापि वा ॥ ४६।२९ ॥
ब्रह्माङ्कणं वृषोपेतं वियुक्तं वा प्रकल्पयेत् ।
गोराशेरविरोधेन स्थानं तासां प्रकल्पयेत् ॥ ४६।३० ॥
गवां रक्षा प्रकर्तव्या धान्येन तृणराशिभिः ।
पलालैरोदनाद्यैश्च निर्माल्यैर्वापि पोषयेत् ॥ ४६।३१ ॥
निर्माल्यभक्षणं तासां न दोषाय प्रकल्पितम् ।
आयादिसम्पत्संयुक्तं गजादिस्थानमीरितम् ॥ ४६।३२ ॥
॥ इति कामिकाख्ये महातन्त्रे हस्तिशालादिविधिः चतुश्चत्वारिंशत्तमः
पटलः ॥