४३ पञ्चशालादिविधिः

अथ वक्ष्ये विशेषेण पञ्चशालादिलक्षणम् ।
पञ्चशालां प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ४५।१ ॥
रविभागं गृहं कृत्वा चतुः शालासमन्ततः ।
द्विभागेन तथा मध्ये चाङ्कणद्वयसंयुतम् ॥ ४५।२ ॥
प्रस्तराग्रे तथा ग्रीवविभक्तिशिखराङ्गिनि ।
मध्यमे द्व्यंशविस्तारः षडंशायामसंयुतः ॥ ४५।३ ॥
सर्वतोभद्रशालादि नेत्रयुक्तं समन्ततः ।
मूलशालादिसंयुक्ता पञ्चशाला दिवौकसाम् ॥ ४५।४ ॥
षट्शाले मध्यमे द्व्यंशमङ्कणं परिकल्पयेत् ।
तत्पार्श्वयोस्तु शाले द्वे द्विद्विभागे विशालके ॥ ४५।५ ॥
जात्याद्यायामसंयुक्तां षट्शालां परिकल्पयेत् ।
सप्तशालासमाश्रं तु नवधा परिकल्पयेत् ॥ ४५।६ ॥
एकेन मध्यशाला स्यादङ्कणं पार्श्वयोः समम् ।
तत्पार्श्वयोस्तथा शाला पार्श्वयोरङ्कणं भवेत् ॥ ४५।७ ॥
समन्तादेकभागेन शालानां स्याच्चतुष्टयम् ।
एवं तु सप्तशालं स्याद्देवद्विजमहीभृताम् ॥ ४५।८ ॥
जात्याद्यायामसंयुक्तं सप्तशालं तथा भवेत् ।
विस्तारे पञ्चभागाः स्युरायामे रुद्रसङ्ख्यया ॥ ४५।९ ॥
अङ्कणं गृहविस्तारं पूर्ववत्परिकल्पयेत् ।
किन्त्वङ्कणं तु भागेन वर्धितायामसंयुतम् ॥ ४५।१० ॥
विस्तारे सप्तभागाः स्युरायामे द्वादशांशकाः ।
द्विभागेन समन्ताच्च मध्ये शालां प्रकल्पयेत् ॥ ४५।११ ॥
अङ्कणं तु त्रिभागं स्याद्विस्तारे चायतावपि ।
विस्तारे त्वष्टभागाः स्युरायामे स्युश्चतुर्दश ॥ ४५।१२ ॥

(पृ० ११५)

समन्तान्मध्यमे चैव शालाव्यासो द्विभागतः ।
अङ्कणं द्वितयं कार्यं पञ्चभिः सप्तभिः पदैः ॥ ४५।१३ ॥
षण्णेत्रमष्टनेत्रं वा दशास्यं वाथ कल्पयेत् ।
सप्तशालमिदं प्रोक्तमष्टशालमथोच्यते ॥ ४५।१४ ॥
विस्तारे रुद्रभागाः स्युरायामे च तथैव च ।
समन्तादेकभागेन चतुः शालां प्रकल्पयेत् ॥ ४५।१५ ॥
एकभागाङ्कणं कुर्यान्मध्ये शालाचतुष्टयम् ।
अष्टनेत्रयुतं वापि षोडशास्ययुतं तु वा ॥ ४५।१६ ॥
विशिष्टप्रस्तरार्धांशामष्टशालां प्रकल्पयेत् ।
देवानां भूसुराणां स्यादष्टशाला द्विजोत्तमाः ॥ ४५।१७ ॥
विस्तारे रुद्रभागाः स्युरायामे स्युस्त्रयोदश ।
समन्तादेकभागेन चतुः शालां प्रकल्पयेत् ॥ ४५।१८ ॥
मध्यमे पञ्चशालाः स्युरेकभागविनिर्मिताः ।
अङ्कणानां चतुष्कं तु मध्यभागद्वयेन तु ॥ ४५।१९ ॥
एकभागकृतं शेषं द्व्यङ्कणं परिकल्पयेत् ।
भवन्ति विपुले सप्तदशदैर्घ्यद्वयाधिकम् ॥ ४५।२० ॥
एकभागमिता दिक्षु चतुः शालाः प्रकीर्तिताः ।
शालानां पञ्चकं मध्ये चतुः शालाः प्रकीर्तिताः ॥ ४५।२१ ॥
भागद्वयमिदं तासां षडङ्गणमुदाहृतम् ।
एकोनविंशदंशाः स्युर्विस्तारे दैर्घ्यके पुनः ॥ ४५।२२ ॥
एकविंशतिभागाः स्युर्द्विभागेन समन्ततः ।
मध्यमे पञ्चशालाः स्युर्भागद्वयविनिर्मिताः ॥ ४५।२३ ॥
एकभागेन मध्ये तु अङ्कणानां तु षट्ककम् ।
नवशालमिदं प्रोक्तं दशशालमिहोच्यते ॥ ४५।२४ ॥
पञ्चादिनवभागान्तं विस्तारेऽशं प्रकल्पयेत् ।
आयामे द्विगुणं कुर्यादथवायाम उच्यते ॥ ४५।२५ ॥
अष्टदिग्भागमन्वंशं विकारांशाः क्रमेण तु ।
अथवायामकॢप्तिस्तु पञ्चादीनां क्रमेण तु ॥ ४५।२६ ॥
आदित्यमन्वोरेकांशादष्टादशांशाश्च विंशतिः ।
यथायुक्ति गृहाणां च अङ्कणं तत्र कल्पयेत् ॥ ४५।२७ ॥
दशशालमिदं प्रोक्तं सर्वेषामपि योग्यकम् ।
विहारशाला कर्तव्या चैकशाला विशालका ॥ ४५।२८ ॥
एकविंशद्गुणानां तु शालाव्यासेन वर्धयेत् ।
द्विगुणाद्यायसंयुक्तं मानं विंशतिसङ्ख्यकम् ॥ ४५।२९ ॥
कूटकोष्ठादिसंयुक्तं पुरतो भद्रसंयुतम् ।
पुरतः पृष्ठतो वापि वारालिन्दयुतं न वा ॥ ४५।३० ॥
नेत्रद्वयसमायुक्तमग्रनासाविभूषितम् ।
एकद्वित्रितलोपेतं कूटकोष्ठयुतं न वा ॥ ४५।३१ ॥
विहारशाला चैवोक्तं सर्वालङ्कारसंयुतम् ।
बौद्धार्हतादिपाषण्डयोग्यमेतदुदीरितम् ॥ ४५।३२ ॥
सकलक्षितिपेन्द्राणामेकादशतलं मतम् ।
नवभूमिर्द्विजानां स्यान्नृपाणां सप्तभूर्मता ॥ ४५।३३ ॥
षट्तलं मण्डलीकस्य पञ्चकं युवराजके ।
वैश्यानां च चतुर्भूमिर्योधसेनेशयोरपि ॥ ४५।३४ ॥
एकस्मादात्रितलान्तं तु शूद्राणां प्रविधीयते ।
सामन्तप्रमुखानां तु पञ्चभूमीर्विधीयते ॥ ४५।३५ ॥
युग्मं वायुग्मसङ्ख्यं वा सर्वभूमीन्द्रमन्दिरम् ।
राज्ञां स्त्रीणां च देवीनां युग्मं वायुग्मसङ्ख्यकम् ॥ ४५।३६ ॥
सदण्डिकं लुपारोहं द्विनेत्रं प्रस्तरान्वितम् ।
मृण्मयं तु तृणाच्छाद्यमेकद्वित्रितलान्वितम् ॥ ४५।३७ ॥
स्थूपिवर्णलुपासीनं प्रशस्तं सर्वजातिषु ।

॥ इति कामिकाख्ये महातन्त्रे पञ्चशालादिविधिः त्रिचत्वारिंशत्तमः
पटलः ॥