(पृ० ११४)
सर्वतोभद्रकाख्या च पूर्वोक्तायामसंयुता ।
निकृष्टा रुचका ज्ञेया देवपाषण्डयोग्यका ॥ ४४।१ ॥
सर्वतोभद्रकाख्याश्च प्रागत्र कथिताश्च याः ।
अन्तर्वारं च मार्गं च परित्यज्य बहिस्तु वा ॥ ४४।२ ॥
बाह्ये बाह्यान्तरं योज्यं यजमानेच्छया क्रमात् ।
तथैव पृथुवारं तु योजनीयं विचक्षणैः ॥ ४४।३ ॥
दीर्घहीना तु या शाला दैवे पाषण्डके द्विजे ।
दानादौ योजनीया सा पञ्चांशादिनवांशकम् ॥ ४४।४ ॥
कृत्वा गेहं द्विभागेन चैकभागेन कारयेत् ।
शालाव्यासं तु शेषेण वारमङ्कणमिष्यते ॥ ४४।५ ॥
चतुः शालमिदं प्रोक्तं सर्वसामान्यमिस्।यते ।
भित्तिमध्यं तु वा मानं पादमध्यमथापि वा ॥ ४४।६ ॥
ग्रामादिवास्तुमानं तु त्यक्तभक्तिकमिष्यते ।
प्रासादमालिकायानप्रभृतीनां तु मानकम् ॥ ४४।७ ॥
पादमध्यं तु वार्बाह्यव्यासायामप्रमाणकम् ।
पिण्डहीनं चतुः शालं सर्ववर्णेषु योग्यकम् ॥ ४४।८ ॥
मुक्ताङ्कणं च सामान्याङ्गणं कोणाङ्गणं च यत् ।
गेहं तु सर्ववर्णानामनिष्टमिति च स्मृतम् ॥ ४४।९ ॥
॥ इति कामिकाख्ये महातन्त्रे चतुः शालाविधानं नाम
द्विचत्वारिंशत्तमः पटलः ॥