निकृष्टं स्वस्तिकं तत्र षडष्टदशभागिकम् ।
वसुदिग्द्वादशांशं तु नीचं वै स्वस्तिकं भवेत् ॥ ४३।१ ॥
दशद्वादशमन्वंशं मध्यमं स्वस्तिकं मतम् ।
आदित्यमन्वोरेकांशमुत्तमं भागमिष्यते ॥ ४३।२ ॥
मूलं तु चतुरश्रं स्यात्तद्द्विभागाधिकायतम् ।
जातिरूपं भवेच्छन्दं चतुरंशाधिकायतम् ॥ ४३।३ ॥
षड्भागाधिकदैर्घ्यं तु विकल्पमिति कीर्तितम् ।
आभासमष्टवृत्तं यच्चत्वारिंशत्तु पञ्चयुक् ॥ ४३।४ ॥
हीनाद्यैस्त्रित्रिभागे तु सङ्ख्यैषां परिकीर्तिता ।
त्रित्रिदीर्घानि नीचाः स्युः पञ्चाशत्सप्तसङ्ख्यया ॥ ४३।५ ॥
निकृष्टाद्यैः षडंशे तु द्व्यंशमङ्कणमिष्यते ।
शालाव्यासो द्विभागेन सर्वालङ्कारसंयुतः ॥ ४३।६ ॥
पृष्ठे तु दीघकोष्ठं स्यात्पूर्वकोष्ठं तथा भवेत् ।
बाह्यशालाद्वयं नेत्रं युक्तं तु कर्करीयुतम् ॥ ४३।७ ॥
एवं जातिस्वरूपं तु प्रोक्तं भूमीन्द्रवैश्ययोः ।
तदेवांशावृतालिन्दं छन्दं शास्त्रे प्रकीर्तितम् ॥ ४३।८ ॥
पृष्ठे नेत्रविहीनं स्यात्संयुक्तं पृष्ठशालया ।
दण्डिकावारसंयुक्तं भद्राङ्गं परिकीर्तितम् ॥ ४३।९ ॥
तदेवावृतवारं वा पृथुवारयुतं तु वा ।
विकल्पं स्वस्तिकं ज्ञेयमाभासं तत्र मिश्रितम् ॥ ४३।१० ॥
मुण्डप्रासादशोभाङ्गं हर्म्याङ्गं मालिकाङ्गकम् ।
अनेकभूमिसंयुक्तं प्रासादवदलङ्कृतम् ॥ ४३।११ ॥
आभासं स्वस्तिकं प्रोक्तं नृपाणां वणिजामपि ।
हीने द्व्यंशाङ्कणं मध्ये मार्गस्तु परित्ॐऽशतः ॥ ४३।१२ ॥
(पृ० ११३)
शालाव्यासो द्विभागेन षण्णेत्रसमवंशकम् ।
तत्र मध्ये चतुः शालाश्चोर्ध्वगानेकसंयुताः ॥ ४३।१३ ॥
मनुसङ्ख्यातनेत्रं तु सर्वत्र परिकीर्तितम् ।
स्थूपिकादिसमायुक्ता सभा भद्राननान्विता ॥ ४३।१४ ॥
अङ्कणं मण्टपाकारमूर्ध्वोर्ध्वोपरि कल्पयेत् ।
दण्डिकावारसंयुक्तं स्वस्तिकं जातिरूपकम् ॥ ४३।१५ ॥
तदेवांशावृतालिन्दं छन्दं स्वस्तिकमिष्यते ।
अंशेनावृतवारं वा पृथुवारयुतं तु वा ॥ ४३।१६ ॥
चूलीहर्म्ययुतं वापि विकल्पं स्वस्तिकं मतम् ।
जात्यादीनां तु संयोगादाभासमिति कीर्तितम् ॥ ४३।१७ ॥
मुण्डप्रासादहर्म्याङ्गं मालिकाभासमीरितम् ।
मध्यमे त्वङ्गणं प्राग्वन्मार्गमेकांशतो भवेत् ॥ ४३।१८ ॥
अन्तर्वारमथैकांशं शालाव्यासो द्विभागतः ।
दण्डिकावारसंयुक्तं षण्णेत्रसमवंशकम् ॥ ४३।१९ ॥
वंशोपरिगताः शालाश्चतस्रोऽष्टाननान्विताः ।
ऊर्ध्वोर्ध्वमण्टपाकारहर्म्यस्थलमथाङ्कणम् ॥ ४३।२० ॥
चतुर्दिग्भद्रसंयुक्तं सभाङ्गं स्वस्तिकं भवेत् ।
तदेवांशाभितो द्वारं छन्दमित्यभिधीयते ॥ ४३।२१ ॥
तद्द्व्यंशं पृथुवारं यद्विकल्पमिति कीर्तितम् ।
आभासं तत्र मिश्रं यन्मुण्डप्रासादशोभितम् ॥ ४३।२२ ॥
हर्म्याङ्गं मालिकाङ्गं च मध्यमं चेति कीर्तितम् ।
उत्कृष्टे त्वङ्कणं द्व्यंशं मार्गस्तु परित्ॐऽशतः ॥ ४३।२३ ॥
अन्तर्वारमथैकेन शालाव्यासो द्विभागतः ।
अंशेन परितोऽलिन्दं नीव्रवारः शिरःक्रिया ॥ ४३।२४ ॥
अर्कनेत्रसमायुक्तं चतुर्दिग्भद्रसंयुतम् ।
जालकस्तम्भकुड्याङ्गनासिकातोरणान्वितम् ॥ ४३।२५ ॥
प्रस्तरक्षुद्रसोपानं सोपानादिसमन्वितम् ।
पादोत्तरं तुलाद्यङ्गं भित्तिसंश्लिष्टविष्टरम् ॥ ४३।२६ ॥
प्रासादवदलङ्कुर्याज्जातिरूपमिदं मतम् ।
तदेव परितो मार्गं वारभद्रसभामुखम् ॥ ४३।२७ ॥
पार्श्वशाले सभाकारे पूर्वे पृष्ठे सकोष्ठकम् ।
एकच्छन्दमिति प्रोक्तं पृथुवारं विकल्पकम् ॥ ४३।२८ ॥
महावारान्वितं वापि मुण्डहर्म्यमथापि वा ।
आभासं तत्र मिश्रं स्यान्मुण्डप्रासादशोभितम् ॥ ४३।२९ ॥
हर्म्याङ्गं मालिकाङ्गं वा स्वस्तिकं चैतदीरितम् ।
भूमीन्द्रवैश्ययोरेव भाषितं स्यादिहागमे ॥ ४३।३० ॥
॥ इति कामिकाख्ये महातन्त्रे स्वस्तिकविधिः एकचत्वारिंशत्तमः पटलः ॥