(पृ० १११)
नन्द्यावर्तं प्रवक्ष्यामि षडष्टदशभागिकम् ।
निकृष्टं वसुदिग्भानुभागं नीचमिति स्मृतम् ॥ ४२।१ ॥
दशद्वादशमन्वंशं मध्यमं चेति कीर्तितम् ।
आदित्यमन्वोरेकांशं भागं ज्येष्ठमिति स्मृतम् ॥ ४२।२ ॥
मूलमेवं विनिर्दिष्टं जातयो द्व्यंशवर्धिताः ।
छन्दाः स्युर्वेदभागाढ्या विकल्पाः षड्विवर्धिताम् ॥ ४२।३ ॥
अष्टांशवृद्ध्या त्वाभासा हीनाद्या मिलिता यदा ।
चत्वारिंशद्भवन्त्यत्र सङ्ख्या पञ्चसमन्विता ॥ ४२।४ ॥
निष्कृष्टाः स्युस्त्रयो दीर्घास्तृतीयेन समन्विताः ।
मिलिते सप्तपञ्चाशत्सङ्ख्यात्र परिकीर्तिता ॥ ४२।५ ॥
निकृस्टे षट्कृते द्व्यंशमङ्कणं मध्यमं भवेत् ।
द्व्यंशशालाविशाला स्यात्सर्वालङ्कारसंयुता ॥ ४२।६ ॥
नन्द्यावर्तं चतुष्पट्टं मूलेनात्र विहीनकम् ।
द्वारं चतुष्टयं वापि यथेष्टदिशि वा भवेत् ॥ ४२।७ ॥
जालकश्च कवाटश्च बाह्ये बाह्ये प्रकल्पयेत् ।
सर्वतः कुड्यसंयुक्तं मुख्यधामात्र कीर्तितम् ॥ ४२।८ ॥
अन्तर्विवृतपादं च बाह्ये कुड्यं प्रकीर्तितम् ।
चतुर्दिक्षु विनिष्क्रान्तमर्धकूटं प्रयोजयेत् ॥ ४२।९ ॥
दण्डिकावारसंयुक्तं जातिरूपमिदं मतम् ।
तदेवांशावृतालिन्दं चतुर्णां छन्दमिष्यते ॥ ४२।१० ॥
तदेव स्याद्विवारं वा पृथुवारयुतं तु वा ।
विकल्पं बहुभौमं स्यादाभासं तत्र मिश्रितम् ॥ ४२।११ ॥
हर्म्याङ्गं मालिकाङ्गञ्च नैकैकतलसंयुतम् ।
नीचैः स्यादङ्कणं द्व्यंशं वारमेकांशमिष्यते ॥ ४२।१२ ॥
शालाव्यासो द्विभागेन दण्डिकावारसंयुतम् ।
सर्वालङ्कारसंयुक्तं भद्रकर्म यथेष्टतः ॥ ४२।१३ ॥
यथेष्टदिशि संयुक्तद्वारजालविभूषितम् ।
बहिरभ्यन्तरे कुड्यं मुख्यगेहं विधीयते ॥ ४२।१४ ॥
शेषांशं परितः कुड्यमंशं तदपि पादकम् ।
जातिरूपमिदं विप्रा भूभुजामेव भावितम् ॥ ४२।१५ ॥
विहीनपश्चिमद्वारं छन्दमत्र विधीयते ।
द्विभागमङ्कणं मध्ये मार्गमंशेन कल्पयेत् ॥ ४२।१६ ॥
शालाव्यासो द्विभागेन द्वारमंशेन बाह्यके ।
चतुष्टयानां शालानां मध्यमध्योर्ध्वमस्तकम् ॥ ४२।१७ ॥
पुरे पुरे भवेत्कूटं पक्षशालाननान्वितम् ।
चतुर्नेत्रसमायुक्तं छन्दमानं प्रकीर्तितम् ॥ ४२।१८ ॥
तदेव वृतवारं वा पृथुवारयुतं तु वा ।
सालिन्दचूलीहर्म्यं वा यथाशक्ति यथारुचि ॥ ४२।१९ ॥
सवारमुखभद्रं च साधिष्ठानाङ्घ्रिभूषितम् ।
ऊर्ध्वोर्ध्वमङ्कणं कार्यं पक्षशालासमोपरि ॥ ४२।२० ॥
सभा वा मण्टपो वाथ मालिका वाङ्कणक्रिया ।
चतुर्णामुदितं धाम विशेषाद्राजयोग्यकम् ॥ ४२।२१ ॥
विकल्पं तत्त्रयाणां तु यदा सम्मिश्रितं भवेत् ।
मुण्डप्रासादसंयुक्तं हर्म्याङ्गं मालिकं भवेत् ॥ ४२।२२ ॥
चतुर्णामुदितं नन्द्यावर्ताख्यं मध्यमेऽंशके ।
अङ्कणं तु द्विभागं स्यान्मार्गमेकेन कारयेत् ॥ ४२।२३ ॥
अन्तर्वारं तु चांशेन शालाव्यासो द्विभागतः ।
दण्डिकावारसंयुक्तं चतुराननसंयुतम् ॥ ४२।२४ ॥
ऊर्ध्वे शालास्तथाष्टौ स्युरधस्ताच्चतुराननम् ।
द्वादशास्यसमायुक्तमूर्ध्वाधस्ताद्द्वितीयतः ॥ ४२।२५ ॥
चतुर्दिग्भद्रसंयुक्तं द्वारजालकशोभितम् ।
जातिरूपमिदं न?न्द्यावर्तं क्षोणिभृतां गृहम् ॥ ४२।२६ ॥
(पृ० ११२)
तदेव परित्ॐऽशेन वारयुक्छन्दमिष्यते ।
तद्वाह्ये वारमेकं वा पृथुवारयुतं तु वा ॥ ४२।२७ ॥
नन्द्यावर्ताननाः शालाश्चतस्रस्ताः स्ववंशकाः ।
तस्योपरि गताः शालाश्चतुष्कशिखरान्विताः ॥ ४२।२८ ॥
नन्द्यावर्तं तु वैकल्पं नृपादीनां निवेशनम् ।
तत्तद्विनिश्चितं कुर्यान्मुण्डप्रासादसञ्ज्ञिकम् ॥ ४२।२९ ॥
मालिकाङ्गञ्च हर्म्याङ्गमेकानेकतलान्वितम् ।
आभासं नन्दिकावर्तं चतुर्णामपि कीर्तितम् ॥ ४२।३० ॥
उत्कृष्टं मध्यमे द्व्यंशमङ्कणं चैकमार्गकम् ।
अन्तर्वारमथैकांशं शालाव्यासो द्विभागतः ॥ ४२।३१ ॥
अंशेनावृतवारं तु सर्वालङ्कारशोभितम् ।
मध्यशालाशिरस्तम्भाश्चैव निम्नास्तथापरे ॥ ४२।३२ ॥
द्वादशाननसंयुक्ता जातिर्भूपतियोग्यकम् ।
जातिस्तु परितो द्व्यंशं महावारसमन्वितम् ॥ ४२।३३ ॥
वारद्वसमायुक्तं छन्दमेतत्प्रकीर्तितम् ।
सालिन्दं खण्डहर्म्यं वा कूटकोष्ठकभारकम् ॥ ४२।३४ ॥
चतुः शालाः शिरश्चैव सभामुखशिरोन्वितम् ।
नद्यावर्तं विकल्पं स्यात्प्रासादवदलङ्कृतम् ॥ ४२।३५ ॥
तेषां तेषां तु सम्मिश्रं प्रासादाङ्गसमन्वितम् ।
हर्म्याङ्गं मालिकाङ्गं वा एकानेकतलान्वितम् ॥
ऊहप्रत्यूहसंयुक्तं यथायुक्ति यथारुचि ।
आभासं नन्दिकावर्तं चतुर्णामपि कीर्तितम् ॥
एवं षोडशधा प्रोक्तं नन्द्यावर्तं द्विजोत्तमाः ।
॥ इति कामिकाख्ये महातन्त्रे नन्द्यावर्तविधिः चत्वारिंशत्तमः पटलः
॥