(पृ० १०९)
शाला तु वर्धमानाख्या षडष्टदशभागिका ।
निकृष्टभागिनी चाष्टदशद्वादशभागिका ॥ ४१।१ ॥
दशद्वादशमन्वंशा मध्यमा परिकीर्तिता ।
द्विषट्सप्ताष्टभागे तु श्रेष्ठा तु परिकीर्तिता ॥ ४१।२ ॥
मूलमेवं समाख्यातं जातिर्द्व्यंशाधिका तथा ।
छन्दादयस्तथाद्व्यंशवर्धितायामसंयुताः ॥ ४१।३ ॥
नीचादयस्त्रयोऽप्यत्र नवभेदसमन्विताः ।
जात्याद्याभासकान्ता या उक्ता मूलसमन्विता ॥ ४१।४ ॥
सङ्ख्यया पञ्चचत्वारिंशदन्तावधि भवादिभिः ।
उत्कृष्टा चात्र या जातिर्विकल्पाद्यन्तदीर्घिका ॥ ४१।५ ॥
द्वादशात्र मिलित्वा तु सप्तपञ्चाशदीरिता ।
निकृष्टे वर्धमाने तु द्विभागं मध्यमाङ्कणम् ॥ ४१।६ ॥
शालाव्यासो द्विभागेन मध्यभागो ह्यलिन्दभाक् ।
मध्यभित्तिसमाश्लिष्टकुल्याभद्वारसंयुतम् ॥ ४१।७ ॥
अपरे दीर्घशाला स्याद्द्विनेत्रा तुङ्गसंयुता ।
अल्पनिम्ना भवेत्प्राची शालादीर्घा द्विनेत्रका ॥ ४१।८ ॥
पक्षगे द्वे तु शाले तु वंशनिम्ने द्विवक्त्रके ।
बाह्ये भित्तिसमायुक्तमन्तः पादैः समन्वितम् ॥ ४१।९ ॥
सर्वतः कुड्यसंयुक्तं मध्यगेहं विधीयते ।
द्विभागकृतनिष्क्रान्तं चतुर्दिङ्मध्यवारणम् ॥ ४१।१० ॥
कर्णे द्व्यंशविशालं तु सोपानं वंशसङ्गमे ।
मुख्यगेहस्य मूले तु स्नानगेहं द्विभागतः ॥ ४१।११ ॥
तस्यापरे तु संश्लिष्टं प्रच्छन्नं मैत्रगेहकम् ।
वास्तूनां तु चतुर्मध्ये चतुः सूत्रं प्रयोजयेत् ॥ ४१।१२ ॥
प्रादक्षिण्यं तु तद्वारं तदन्ते जलनिस्रवः ।
नासिकातोरणस्तम्भजालकादिविचित्रितम् ॥ ४१।१३ ॥
प्रासादवदलङ्कुर्याद्विभद्रं वा सभद्रकम् ।
निकृष्टं वर्धमानं स्याद्राज्ञामावासयोग्यकम् ॥ ४१।१४ ॥
तदेव परित्ॐऽशेन द्वारं तु परिकल्पयेत् ।
यथेष्टदिशि भद्राङ्गं यथेष्टदिशि वासकम् ॥ ४१।१५ ॥
यथेष्टद्वारसंयुक्तं छन्दमित्यभिधीयते ।
तदेव पृथुवारं तु दण्डिकावारसंयुतम् ॥ ४१।१६ ॥
सभद्रं वा विभद्रं वा विकल्पमिति कीर्तितम् ।
जात्यादित्रयसंयुक्तमाभासमिति कीर्तितम् ॥ ४१।१७ ॥
नीचमानांशके द्व्यंशे नाङ्कणं परिकल्पयेत् ।
अंशेन परितोऽलिन्दं शालाव्यासो द्विभागतः ॥ ४१।१८ ॥
उच्छ्रितं मुख्यगेहं स्याच्छालाः शेषाः समा मताः ।
प्रागुक्तवदलङ्कुर्यान्नीचे जातिः प्रकीर्तिता ॥ ४१।१९ ॥
तदेव परितोऽलिन्दमेकांशेन प्रकल्पयेत् ।
छन्दनाम्ना समुद्दिष्टं विश्वमन्यत्पुरोक्तवत् ॥ ४१।२० ॥
तदेव परित्ॐऽशेन वारं वा पृथुवारकम् ।
कर्करीमुखवंशाग्रं मुखपट्टिसमायुतम् ॥ ४१।२१ ॥
उत्तुङ्गं स्वामिवासाङ्गमितरद्विवृताङ्घ्रिकम् ।
विकल्पमिति निर्दिष्टमाभासं तत्र मिश्रितम् ॥ ४१।२२ ॥
मध्यमं वर्धमानं तु भागं द्विमध्यमाङ्कणम् ।
समन्तान्मार्गएकांशः शालाव्यासो द्विभागतः ॥ ४१।२३ ॥
एकांशावृतवारं स्यादष्टनेत्रसमन्वितम् ।
दण्डिकावारसंयुक्तं सर्वालङ्कारसंयुतम् ॥ ४१।२४ ॥
चतुः षडंशदीर्घं तु मध्ये शालाचतुष्टयम् ।
मुखपट्यङ्गनेत्राङ्गं विस्तारे चायतौ क्रमात् ॥ ४१।२५ ॥
जात्याख्यं वर्धमानं स्याच्छन्दं स्यात्पृथुवारयुक् ।
विकल्पं पृथुवारेण बाह्यवारेण संयुतम् ॥ ४१।२६ ॥
(पृ० ११०)
दण्डिकावारसंयुक्तमाभासं सर्वमिश्रितम् ।
उत्तमव्यासभागे तु द्विभागं मध्यमाङ्कणम् ॥ ४१।२७ ॥
अंशेन परितो वारं मण्टपाकारमूर्ध्वतः ।
शालाव्यासो द्विभागेन परितोऽलिन्दवारके ॥ ४१।२८ ॥
अन्तर्वारं परित्यज्य बहिर्वारं यथेष्टतः ।
पूर्ववद्भद्रसंयुक्तं पूर्ववत्कर्करीकृतम् ॥ ४१।२९ ॥
मध्यशालोच्चयुक्तं च सर्वालङ्कारसंयुतम् ।
जात्याख्यं वर्धमानं स्याद्विप्रभूमीन्द्रयोग्यकम् ॥ ४१।३० ॥
तदेवैकांशतो वारविशेषं परिकल्पयेत् ।
छन्दं स्यात्परितो मार्गयुक्तं वैकल्पसञ्ज्ञितम् ॥ ४१।३१ ॥
जात्यादीनां तु संयोगादाभासमिति कीर्तितम् ।
विशिष्टं वर्धमानाख्यं सालङ्कारमथोच्यते ॥ ४१।३२ ॥
विस्तारे षोडशांशाः स्युरायामे द्वादशांशकाः ।
ब्रह्माङ्कणं द्विभागं स्यादायामे चतुरंशकम् ॥ ४१।३३ ॥
शालाव्यासो द्विभागेन मुख्यगेहमलिन्दभाक् ।
भागद्वयेन तद्बाह्ये अलिन्दं परिकल्पयेत् ॥ ४१।३४ ॥
तद्बहिर्वारमेकाशं पृथुवारं द्विभागतः ।
विहाय पृष्ठदेशे तु रचना मिश्रदेशके ॥ ४१।३५ ॥
तृतीये वाःस्थलं पञ्चप्रदेशे तु प्रकल्पयेत् ।
मध्यसूत्रानुसारेण पूर्वस्मिन् पार्श्वयोर्द्वयोः ॥ ४१।३६ ॥
आग्नेयैशानयोश्चैव क्षेत्रप्रान्ते प्रकल्पयेत् ।
त्रितले वाः स्थलं चान्तर्नेत्रशाला चतुः स्थले ॥ ४१।३७ ॥
षण्णिर्गमसमायुक्ता सचारा प्रान्तमागता ।
स्वामिवासाग्रशालानुसारेणोभयपार्श्वयोः ॥ ४१।३८ ॥
चतस्रः पूर्वदेशे तु द्वे चालिन्दानुसारतः ।
अलिन्दस्य चतुष्कोणे कर्णकूटचतुष्टयम् ॥ ४१।३९ ॥
कुर्यात्पञ्चतलप्रान्ते तन्मध्ये पूर्वभागतः ।
चतुर्भागसमायामद्विभागविस्तृतान्विता ॥ ४१।४० ॥
कर्णकूटसमोपेतसवारमुखपट्टिका ।
अलिन्दपार्श्वयोः कर्णकूटानां मध्यदेशतः ॥ ४१।४१ ॥
पञ्जरद्वितयं कुर्यात्कूटद्वयसमोदयम् ।
पार्श्वं वाः स्थलसंयुक्तं वारयुक्तद्विभागिकम् ॥ ४१।४२ ॥
कर्णकूटद्वयोर्मध्ये परवेदद्विभागतः ।
पृष्ठवारसभां कुर्यात् षट्तले तु द्विजोत्तमाः ॥ ४१।४३ ॥
पार्श्वयोर्नेत्रकूटे द्वे मुखायामस्तु षट्तले ।
अङ्कणं मण्टपाकारं सभाकारमथापि वा ॥ ४१।४४ ॥
वासदक्षिणसंस्थं यच्चूलीहर्म्यविभूषितम् ।
वामसोपानसंयुक्तं नेत्रयुग्द्वारसंयुतम् ॥ ४१।४५ ॥
मुखं चङ्क्रमणोपेतं गुह्यसोपानसंयुतम् ।
वाः स्थलं च विशिष्टं स्यात्सप्तभौममिदं स्मृतम् ॥ ४१।४६ ॥
वर्धमानमिदं राज्ञां सर्वकामफलप्रदम् ।
अथवा त्वष्टभागेन पृष्ठभद्रयुतं भवेत् ॥ ४१।४७ ॥
नैरृते वायुदेशे तु वाः स्थालं वा विधीयताम् ।
मध्यशालासमायुक्तं कोटिहीनं तु वा भवेत् ॥ ४१।४८ ॥
नेत्रशालासमायुक्तं वाथ कुर्याद्यथाबिधि ।
एवं षोडशधा प्रोक्तं वर्धमानमिहागमे ॥ ४१।४९ ॥
॥ इति कामिकाख्ये महातन्त्रे वर्धमानशालालक्षणविधिः
एकोनचत्वारिंशत्तमः पटलः ॥