(पृ० १०७)
चतुः-शालादिशालानामलङ्कारोऽथ उच्यते ।
अष्टादिद्वादशान्तं तु नीचे तु परिकल्पयेत् ॥ ४०।१ ॥
दशार्कमनुभागांस्तु निकृष्टे सम्प्रकल्पयेत् ।
आदित्यमन्वोरेकांशं भागं मध्ये तु कल्पयेत् ॥ ४०।२ ॥
चतुर्दशद्विरष्टाष्टादशांशाः श्रेष्ठवर्त्मनि ।
बीजभागः समाख्यातो जातिर्द्व्यंशाधिका यतः ॥ ४०।३ ॥
चतुरंशाधिकाश्चात्र प्रकल्प्यं स्याद्रसाधिकम् ।
अष्टांशाधिकमाभासं सर्वतोभद्रसञ्ज्ञके ॥ ४०।४ ॥
बीजं तु चतुरश्रं स्याज्जात्या द्वन्द्वादिवृद्धितः ।
बीजजात्यादिसम्भूता सङ्ख्या षष्टिरिति स्मृता ॥ ४०।५ ॥
निकृष्टे सर्वतोभद्रे द्विभागं मध्यमाङ्कणम् ।
समन्तान्मार्ग एकांशो द्विभागो गेहविस्तरः ॥ ४०।६ ॥
अष्टनेत्रसमायुक्तं चतुर्दिग्भद्रसंयुतम् ।
भद्रमध्ये सभास्यं स्याच्चतुष्कं कर्णकूटकम् ॥ ४०।७ ॥
मध्यमे वारसंयुक्तं कूटे शङ्खं युगान्वितम् ।
पूर्वस्मिन्नपरस्मिन् वा स्वाम्यावासः प्रशस्यते ॥ ४०।८ ॥
सर्वतः कुड्यसंयुक्तं कुड्याभद्वारसंयुतम् ।
बहिर्जालककुड्याढ्यमन्तरं लूतपादकम् ॥ ४०।९ ॥
पक्षशालांशके द्वारं पूर्वस्मिन् वा प्रशंस्यते ।
समस्तम्भं समद्वारं समवंशं तु कारयेत् ॥ ४०।१० ॥
दण्डिकाद्वारसंयुक्तं शिखरं दिक्प्रदीपकम् ।
कर्करीवंशजालाग्रं कूटहीनं तु वा नयेत् ॥ ४०।११ ॥
अन्तर्द्वारं परित्यज्य बहिर्द्वारयुतं तु वा ।
सालिन्दं वाऽनलिन्दं वा सावकाशान्तरं तु वा ॥ ४०।१२ ॥
अङ्कणं तु प्रकर्तव्यं सर्वालङ्कारसंयुतम् ।
जात्याख्यं सर्वतोभद्रं भूपतीनामिहोदितम् ॥ ४०।१३ ॥
तदेव परितो द्व्यंशं महावारसमन्वितम् ।
कर्करीवंशजालाख्यं कूटहीनं तु वा नयेत् ॥ ४०।१४ ॥
अष्टास्योर्ध्वतलग्रीवसस्थूपिसमवंशकम् ।
अष्टास्यमुखपट्यङ्गनीव्राङ्गकसमावृतम् ॥ ४०।१५ ॥
भद्रोर्ध्वं मुख्यकूटाङ्गं सर्वालङ्कारसंयुतम् ।
चित्रं तु सर्वतोभद्रं भूपतीनां प्रशस्यते ॥ ४०।१६ ॥
तदेव पुरतो द्व्यंशं महावारसमन्वितम् ।
चतसृणां तु शालानां शिखरं तु सभाकृति ॥ ४०।१७ ॥
विकल्पं सर्वतोभद्रं गृहप्रासादसंयुतम् ।
एकद्वित्रितलोपतं सर्वालङ्कारशोभितम् ॥ ४०।१८ ॥
विहीनकर्णशिखरं हर्म्याङ्गं स्वामिवासकम् ।
शिखरस्थूपिकानासावेदिकाजालकान्वितम् ॥ ४०।१९ ॥
उच्चशालासमायुक्तं नीब्रकूटमथापि वा ।
उभयं विपरीतं वा हर्म्यं स्यान्मध्यमण्डपम् ॥ ४०।२० ॥
जात्यादीनां तु संयोगादाभासं गृहमालिकम् ।
निकृष्टं सर्वतोभद्रं चतुर्विधमुदाहृतम् ॥ ४०।२१ ॥
नीचे तु सर्वतोभद्रे द्विभागं मध्यमेऽङ्कणम् ।
समन्तादंशतः पन्था द्व्यंशः शाला द्विशालके ॥ ४०।२२ ॥
परित्ॐऽशेन बाह्ये तु द्वारं स्याद्विश्वभक्तिकम् ।
मसूरिकाङ्घ्रिकोच्चे तु प्रस्तरोर्ध्वगणान्वितम् ॥ ४०।२३ ॥
शिखरस्तूपिकानासावेदिकाजालकान्वितम् ।
तदेब चाङ्कणं कुर्यादन्तर्वारसमन्वितम् ॥ ४०।२४ ॥
भद्रादिकं तु पूर्वोक्तं त्विदं भूपतियोग्यकम् ।
तदेव च बहिद्वर्यंशवारद्वयसमन्वितम् ॥ ४०।२५ ॥
कर्तव्यं वा महावारं कूटकोष्ठाद्यलिन्दयुक् ।
विकल्पमिति निर्दिष्टं निष्क्रान्तादि पुरोक्तवत् ॥ ४०।२६ ॥
(पृ० १०८)
देवद्विजनरेन्द्राणामेतद्भवनमीरितम् ।
यथेष्टदिशि वारः स्याद्यथेष्टदिशि भद्रकम् ॥ ४०।२७ ॥
वारमार्गमलिन्दं च स्वामिवाञ्छावशान्नयेत् ।
विकल्पमिति निर्दिष्टमाभासं सर्वयोगतः ॥ ४०।२८ ॥
मुण्डप्रासादसञ्ज्ञं तु हर्म्यप्रासादसञ्ज्ञिकम् ।
आभासं सर्वतोभद्रं देवद्विजमहीभृताम् ॥ ४०।२९ ॥
नीचं तु सर्वतोभद्रं चतुर्विधमुदाहृतम् ।
मध्यमं सर्वतोभद्रं चतुरंशाङ्कणान्वितम् ॥ ४०।३० ॥
एकांशावृतमार्गः स्याच्छालांशो द्विगुणो भवेत् ।
बहिस्त्वलिन्दमेकांशं प्राग्वदेव प्रकल्पयेत् ॥ ४०।३१ ॥
सर्वतोभद्रजातिः स्यात्तदेवांशेन बाह्यके ।
वारयुक्तं द्विभागेन पृथुवारयुतं तु वा ॥ ४०।३२ ॥
प्राग्वद्भद्रसमोपेतं देवद्विजमहीभृताम् ।
द्विभागमङ्कणञ्चान्तर्वारहीनं तु वा नयेत् ॥ ४०।३३ ॥
तदंशतो बहिर्द्वारं महावारं तु वा नयेत् ।
षोडशांशविशालं तु विकल्पमिति निर्दिशेत् ॥ ४०।३४ ॥
तत्राङ्कणं षडंशः स्यात्परितो मार्ग एकतः ।
द्व्यंशः शालाविभागः स्यादन्तर्वारं तु चैकतः ॥ ४०।३५ ॥
भागैकेन बहिर्वारं प्राग्वच्छेषं प्रकल्पयेत् ।
विकल्पमिति निदिर्ष्टमाभासं तत्र मिश्रितम् ॥ ४०।३६ ॥
मुण्डप्रासादहर्म्याङ्गं मालिकाभासमिष्यते ।
उत्कृष्टं सर्वतोभद्रं चतुरंशाङ्कणान्वितम् ॥ ४०।३७ ॥
भागेन परितो मार्गश्चान्तर्वारमथैकतः ।
शालाव्यासो द्विभागः स्याद्बाह्यालिन्दमथैकतः ॥ ४०।३८ ॥
नासिकाजालसंयुक्तं तोरणाद्यैस्तु संयुतम् ।
अन्तर्वारं परित्यज्य बाह्ये वा तत्र कल्पयेत् ॥ ४०।३९ ॥
अङ्कणं तु द्विभागं वा मुख्यवारस्त्वलिन्दभाक् ।
सभद्रं वा विभद्रं वाप्यङ्कणांशेन वारणम् ॥ ४०।४० ॥
एष जातिक्रमः प्रोक्तो राज्ञामावासयोग्यकः ।
तमेव परितो मार्गयुक्तो वा पृथुवारकः ॥ ४०।४१ ॥
छन्दं हि सर्वतोभद्रमनुक्तं चात्र पूर्ववत् ।
तदेव परित्ॐऽशेन बहिर्वारं तु कल्पयेत् ॥ ४०।४२ ॥
विकल्पं सर्वतोभद्रं भूमीन्द्राणामिहोदितम् ।
जातिच्छन्दविकल्पानां मिश्रमाभासनामभाक् ॥ ४०।४३ ॥
हर्म्याङ्गं मालिकाङ्गं च मुण्डप्रासादसञ्ज्ञिकम् ।
एतदाभासमाख्यातं राज्ञामावासयोग्यकम् ॥ ४०।४४ ॥
स्वामिपञ्चाङ्गविन्यासमनुक्तं चात्र पूर्ववत् ।
उत्कृष्टं सर्वतोभद्रं चतुर्विधमुदाहृतम् ॥ ४०।४५ ॥
एवं विकारभेदं तु सर्वतोभद्रमिष्यते ।
॥ इति कामिकाख्ये महातन्त्रे चतुः शालासर्वतोभद्रलक्षणविधिः
अष्टत्रिंशत्तमः पटलः ॥