३७ द्वित्रिशालालक्षणविधिः

द्विशाले चतुरश्रे तु दशभागविभाजिते ।
बहिर्भागेन वारः स्याद्द्व्यंशशालाविशालतः ॥ ३९।१ ॥
प्राङ्मुखे वारमेकांशं मण्डपो नवभागभाक् ।
तदावृत्यैककालिन्दं शेषं च क्रमणं भवेत् ॥ ३९।२ ॥
मुख्यगेहं बहिर्द्वारं लाङ्गलाभं यथातथा ।
चतुर्मुखसमायुक्तं द्विशालमिह कीर्तितम् ॥ ३९।३ ॥
पौरमण्डलहीनं वा मण्डपेन विनापि वा ।
अलिन्देनान्वितं वापि द्विशालं परिकल्पयेत् ॥ ३९।४ ॥
तदेव पञ्चभागान्तमेकशालामुखायतम् ।
द्वारं पूर्ववदुद्दिष्टं सर्वालङ्कारशोभितम् ॥ ३९।५ ॥
मण्डपाद्बाह्यतोऽलिन्दं सायतं प्रविधीयते ।
नेत्रत्रयसमायुक्तं स्वस्तिकं त्वभिधीयते ॥ ३९।६ ॥
तदेव द्विमुखोपेतं दण्डवक्त्रमिति स्मृतम् ।
सावकाशान्तरोपेतं मण्।डपेन विनापि वा ॥ ३९।७ ॥
अलिन्देनान्वितं वापि द्विशालं परिकल्पयेत् ।
सवारं वा विवारं वा एकानेकतलान्वितम् ॥ ३९।८ ॥
द्विभागे त्वेकभागं वा त्रिभागे तु द्वयं तु वा ।
चतुरंशे त्रिभागं वा द्व्यंशं पञ्चत्रिभागकम् ॥ ३९।९ ॥
द्विभागं वैकभागं वा षड्भागे पञ्चभागकम् ।
सप्तांशे पञ्चभागादिद्विभागान्तमथापि वा ॥ ३९।१० ॥
नवांशे सप्तभागादिद्विभागान्तमथापि वा ।
रुद्रभागाद्द्विभागान्तं भागान् कृत्वा त्रिभागतः ॥ ३९।११ ॥
नवभागावसानान्तं शालाव्यासं प्रकल्पयेत् ।
एकद्वित्रिचतुः शालासामान्यमिदमीरितम् ॥ ३९।१२ ॥
यथा समीक्ष्य तत्रैव युक्तं कुर्यात्तु देशिकः ।
मौलिकस्य तु विस्तारं वसुभागैर्विभाजयेत् ॥ ३९।१३ ॥
अङ्कणं तु द्विभागः स्यात्त्रिपार्श्वेऽलिन्दमेकतः ।
शालाव्यासो द्विभागेन प्रासादवदलङ्कृतम् ॥ ३९।१४ ॥
षडाननसमोपेतं प्रच्छन्नमपि चाङ्कणम् ।
एकानेकतलोपेतमधिष्ठानादिशोभितम् ॥ ३९।१५ ॥
अङ्कणेन विहीनं वा वारहीनं तु वा नयेत् ।
मेरुकान्तमिदं प्रोक्तं सर्वेषामपि योग्यकम् ॥ ३९।१६ ॥
व्यासे पङ्क्त्यर्कभागे तु पार्श्वयोः पश्चिमे मतम् ।
वारमेकांशतः कुर्याद्द्व्यंशस्तु गृहविस्तरः ॥ ३९।१७ ॥
प्राङ्मुखो वारमेकांशं परितो मार्ग एकतः ।
द्व्यङ्कणं वारमेकांशमर्कांशे परिकल्पयेत् ॥ ३९।१८ ॥
पार्श्वयोर्वा परे मुख्यव्यासः स्याद्द्विललाटकम् ।
मौलिभद्रमिदं नाम्ना शेषं पूर्ववदीरितम् ॥ ३९।१९ ॥
सावकाशान्तरोपेतमङ्कणं स्यात् त्रिशालके ।
सालिन्दमनलिन्दं वा त्रिशालं परिकल्पयेत् ॥ ३९।२० ॥
शालाविरहितस्थाने कुड्यद्वारं प्रयोजयेत् ।

॥ इति कामिकाख्ये महातन्त्रे द्वित्रिशालालक्षणविधिः सप्तत्त्रिंशत्तमः
पटलः ॥