३६ विशेषशालालक्षणविधिः

विशेषलक्षणं वक्ष्ये शालानां शृणुत द्विजाः ।
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ ३८।१ ॥
चतुर्विंशत्यरत्न्यन्ता रुद्रसङ्ख्या समीरिता ।
एकशाला द्विशाला स्यात्कथ्यते द्वित्रिशालके ॥ ३८।२ ॥
सप्ताष्टारत्निमारभ्य द्विद्विहस्तेन वर्धयेत् ।
एकोनविंशद्रत्न्यन्ताः सप्तधा द्वित्रिशालके ॥ ३८।३ ॥
एवं विस्तार आख्यात आयामस्त्विह कथ्यते ।
पादाधिकमथाध्यर्धं पादोनद्विगुणं तथा ॥ ३८।४ ॥
द्विगुणं वा तदर्धं च त्रिपादद्विगुणोपरि ।
त्रिगुणान्तप्रमाणेन आयामस्वष्टधा मतः ॥ ३८।५ ॥
सर्वदैर्घ्यं सुराणां स्याद्द्विगुणान्तं नृणां मतम् ।
द्विगुणाद्यायताः सर्वे विहाराश्रमवासिनाम् ॥ ३८।६ ॥
सर्वस्मिन् सङ्गमोपेते द्विगुणास्यायतिर्मता ।
विस्तारसम उत्सेधः साङ्घ्रिः सार्धस्त्रिपादयुक् ॥ ३८।७ ॥
द्विगुणः पञ्चधोत्सेधः शालानां परिकीर्तितः ।
शान्तिदः पुष्टिदः पश्चाज्जयदो धनदो भवेत् ॥ ३८।८ ॥
अद्भुतप्रदमित्येवमुत्सेधफलमीरितम् ।
दक्षिणे पश्चिमे चैव शाला वैशेषिकी नृणाम् ॥ ३८।९ ॥
याम्यपश्चिमहीने तु लाङ्गले मरणं भवेत् ।
तद्युक्ते लाङ्गले गेहे श्रीः पुष्टिश्च प्रकीर्तिता ॥ ३८।१० ॥
याम्यपश्चिमहीनायां शालायां सर्वदोषदा ।
एका वा सद्विशाला वा त्रिशाला वा द्विसन्धिका ॥ ३८।११ ॥
पाषण्डकानां मर्त्यानां विप्राणां धरणीभृताम् ।
वैश्यानामपि शूद्राणामन्यद्द्व्यन्तरजन्मनाम् ॥ ३८।१२ ॥
शालैका दण्डखण्डाभा द्विनेत्रा मुखधारिणी ।
तथैव द्वित्रिशाले च सर्वग्रामादिके मते ॥ ३८।१३ ॥
त्रिचतुर्दशहस्तात्तु द्विद्विहस्तेन वर्धयेत् ।
षट्सप्तषष्टिहस्ताश्च चतुः शालाविशालता ॥ ३८।१४ ॥

(पृ० १०५)

हीनं निकृष्टं मध्यञ्चोत्कृष्टं सा च पृथक्पृथक् ।
अष्टाविंशतिमानानि चतुः शालाविशालके ॥ ३८।१५ ॥
तस्मात्रिंशत्करैर्वृद्धिच्छत्रशालाविशालके ।
तस्मात्तस्माद्द्विहस्ताभ्यां षट्सप्तकरपूर्वका ॥ ३८।१६ ॥
नवत्यरत्त्रिंरुद्दिष्टा त्रिपञ्चाष्टसमाहृता ।
तत आरभ्य हस्ताभ्यां बन्धयेच्छतरत्निकम् ॥ ३८।१७ ॥
षट्सप्तरत्निसंयुक्तं दशशालं तु मानतः ।
सर्वत्र चित्रमित्युक्तं सङ्ख्यया त्वष्टषड् भवेत् ॥ ३८।१८ ॥
हीनं जातिरिति प्रोक्ता निकृष्टं छन्द उच्यते ।
मध्यमं स्याद्विकल्पं तु श्रेष्ठमाभासनामभाक् ॥ ३८।१९ ॥
एतन्नाम्ना चतुः सप्तदशशालं क्रमेण तु ।
तुरङ्गावधिमेधाख्या लभते दीर्घहीनकम् ॥ ३८।२० ॥
अत्राप्युत्सेधदीर्घे च पूर्ववत्परिकल्पयेत् ।
समं तु चतुरश्रं तु दैवमानुषमीरितम् ॥ ३८।२१ ॥
पाषण्डदेवविप्रादियागयोग्यमिति स्मृतम् ।
दण्डकं मौलिकं स्वस्तिभद्रं चैव चतुर्मुखम् ॥ ३८।२२ ॥
देवादीनां तु सामान्यं चतुर्विधमुदाहृतम् ।
विन्यासं दण्डकादीनां प्रवक्ष्यामि यथाक्रमम् ॥ ३८।२३ ॥
भागत्रयं तु विस्तारे त्वायामे चतुरंशकम् ।
द्विभागो गेहविस्तार अग्रे वारस्त्वथैकतः ॥ ३८।२४ ॥
द्विनेत्रं खण्डदण्डाभं सर्वेषां वासयोग्यकम् ।
एतद्दण्डकमुद्दिष्टं शालानां स्युः षडंशकाः ॥ ३८।२५ ॥
विस्तारे चतुरंशाः स्युरायामे स्यात् षडंशकम् ।
गेहतारो द्विभागः स्याद्द्व्यंशं च क्रमणं भवेत् ॥ ३८।२६ ॥
शेषं पूर्ववदुद्दिष्टं द्वितीयं दण्डकं मतम् ।
त्रिभागो गेहविस्तारो द्विगुणं दैर्घ्यमिष्यते ॥ ३८।२७ ॥
भागं च क्रमणं कुर्याद्ब्रह्मभित्तिसमन्वितम् ।
कुल्याभद्वारसंयुक्तं शेषं सर्वं तु पूर्ववत् ॥ ३८।२८ ॥
वंशमूले तु वासः स्याद्वंशाग्रे रङ्गमिष्यते ।
सर्वत्र परितः कुड्यं रङ्गं पादसमन्वितम् ॥ ३८।२९ ॥
पुरतः पृष्ठतो वापि पार्श्वतो वाप्यलिन्दकम् ।
प्रासादवदलङ्कुर्यात्तृतीयं दण्डकं मतम् ॥ ३८।३० ॥
तदेव मध्यमं रङ्गं वासो वंशाग्रमूलयोः ।
शेषं पूर्ववदुद्दिष्टं चतुर्थं दण्डकं मतम् ॥ ३८।३१ ॥
षडंशो गेहविस्तारस्त्वायामो द्वादशांशकः ।
भागेन परितोऽलिन्दशालाव्यासो द्विभागतः ॥ ३८।३२ ॥
तत्समं पुरतोऽलिन्दयुक्तान्तः स्तम्भसंयुतम् ।
पार्श्वयोर्द्वित्रिभागेन तारायामौ विवासकौ ॥ ३८।३३ ॥
द्विचतुर्भागविस्तारं धाममध्ये तु रङ्गकम् ।
पञ्चमं दण्डकं प्रोक्तं पूर्ववच्छेषमाचरेत् ॥ ३८।३४ ॥
व्यासे निभृतपातालनन्दांशैकद्विकत्रिकैः ।
चतुर्भिः पुरतोऽलिन्दं स्यादेकद्वित्रिशालके ॥ ३८।३५ ॥
एतदेव सभाकारं शिखरं मौलिकं मतम् ।
तदेव पुरतो भद्रं चतुर्द्व्यंशे तु सम्मतम् ॥ ३८।३६ ॥
आयामेन विशालेन पुरतः पर्श्वयोर्द्वयोः ।
अशङ्केऽलिन्दकं कुर्याद्व्यासे नेत्रत्रयान्वितम् ॥ ३८।३७ ॥
एतत्स्वस्तिकमित्युक्तं चतुर्मुखमथोच्यते ।
तदेव पृष्ठतो भद्रयुक्तं यद्वत्पुरो भवेत् ॥ ३८।३८ ॥
कर्करीवंशशालाग्रे चतुर्नेत्रसमन्वितम् ।
अधिष्ठानादिवार्गाढ्यं प्रासादवदलङ्कृतम् ॥ ३८।३९ ॥
नासिकातोरणाद्यङ्गैर्युक्तं वातायनादिभिः ।
चतुर्मुखमिदं नाम्ना क्रमाज्जात्यादिनामभाक् ॥ ३८।४० ॥
एकादिपञ्चभूम्यन्तं दण्डकादिचतुष्टयम् ।
स्वामिचित्तवशान्न्यस्तं स्थानविन्याससंयुतम् ॥ ३८।४१ ॥
हस्त्यश्ववृषभादीनां प्रत्येकं वा सपत्तिकम् ।
सद्विचूलीत्रिचूल्यङ्गं सुग्रीवं सवितल्पकम् ॥ ३८।४२ ॥

(पृ० १०६)

सपादः सार्ध उत्सेधस्तत्समो वापि नीयते ।
दण्डकं मौलिकं वापि यथेष्टदिशि वारणम् ॥ ३८।४३ ॥
एकशालमिदं प्रोक्तमधिष्ठानादिशोभितम् ।

॥ इति कामिकाख्ये महातन्त्रे एकशालाविशेषलक्षणविधिः
षट्त्रिंशत्तमः पटलः ॥