३५ शालालक्षणविधिः

अथातः सम्प्रवक्ष्यामि शालानां लक्षणं परम् ।
देवानां ब्राह्मणानां च क्षत्रियाणां विशेषतः ॥ ३७।१ ॥
वैश्यानां शूद्रजातीनां वासयोग्यास्तु ताः स्मृताः ।
एकद्वित्रिचतुः सप्तदशशालाः प्रकीर्तिताः ॥ ३७।२ ॥
तदूर्ध्वं त्रित्रिवृद्ध्या तु यावदिष्टं प्रगृह्यताम् ।
ता एव मालिकाः प्रोक्ता मालावत्क्रियते यतः ॥ ३७।३ ॥
मानं तावद्द्विधा ख्यातं हस्तभक्तिवशेन तु ।
सार्धहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ॥ ३७।४ ॥
अष्टोत्तरशतं यावद्धस्तानां विस्तरो मतः ।
विस्तारादर्धहस्तं स्यात्त्रिगुणान्तं समायतिः ॥ ३७।५ ॥
एवं हस्तप्रमाणं स्याद्भक्तिमानवशात्ततः ।
एकहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ॥ ३७।६ ॥
नवहस्तान्तविस्तारा भक्तयः परिकीर्तिताः ।
विस्ताराद्द्व्यङ्गुलार्धा स्याद्द्विगुणान्ता समायतिः ।
एकभक्तिविशालात्तु चार्धभक्तिविवर्धनात् ॥ ३७।७ ॥
त्रिगुणान्तप्रमाणेन विस्तारादायतिर्मता ।
विस्तारे चायते चैव विन्यस्ता भक्तयश्च ताः ॥ ३७।८ ॥
प्रमाणेन समस्ताश्चेद्विषमा वा यथेष्टतः ।
विस्तारे चायते चैव युग्मा ओजाश्च भक्तयः ॥ ३७।९ ॥
भक्त्यभ्यन्तरमानं वा भक्तिबाह्यमथापि वा ।
भक्तिमध्यप्रमाणं वा तत्स्थपादात्तथापि वा ॥ ३७।१० ॥
चतुरश्रं तु देवानां द्विजानामपि सत्तमाः ।
क्षत्रियाणां तथा प्रोक्तमन्ययोरायताश्रकम् ॥ ३७।११ ॥
हीनोक्तं श्रेष्ठजातीनां हितं नोक्तं विपर्ययात् ।
विस्तारसम उत्सेधः सपादो वाथ सार्धकः ॥ ३७।१२ ॥
पादोनद्विगुणो वापि द्विगुणो वायतिः समा ।
पादायामैस्तु वा कुर्याद्वक्ष्यमाणैर्यथाक्रमम् ॥ ३७।१३ ॥
आयादिसम्पदर्थं तु विस्तारे चायतौ तथा ।
उत्सेधे चैव हस्तानां सम्यक्सम्पूर्णतां नयेत् ॥ ३७।१४ ॥
विस्तारात्केवलं वाथवायामादुन्नते तथा ।
विस्तारायामसंसर्गादायाद्यं परिगृह्यताम् ॥ ३७।१५ ॥
अष्टत्रित्र्यष्टभिर्हत्वा अष्टमन्वर्कभैर्भजेत् ।
आयो व्ययश्च योनिश्च नक्षत्रं शेषतो भवेत् ॥ ३७।१६ ॥

(पृ० ९८)

त्रिंशदाप्नोतु पर्यन्तं तिथिर्वारं तु सप्तभिः ।
अथवान्यप्रकारेण चायाद्यं परिगृह्यताम् ॥ ३७।१७ ॥
दैर्घ्यं दैर्घ्यस्य विस्तारं दैर्घ्यनाहञ्च नाहकम् ।
अष्टनन्दाग्निवसुभिर्गणयेन्नन्दनन्दनाः ॥ ३७।१८ ॥
अर्कदिग्वसुभैः सप्तनवभिश्च क्रमाद्भजेत् ।
आयाद्यं पूर्ववत्प्रोक्तमायाधिक्यं शुभप्रदम् ॥ ३७।१९ ॥
यजमानस्य जन्मर्क्षेणानुकूलं यथा भवेत् ।
तथा परीक्ष्य कर्तव्यं नामनक्षत्रकं तु वा ॥ ३७।२० ॥
परीक्ष्य बहुधा कुर्यादुभयं वा परीक्षयेत् ।
सर्वानुकूल्यं सर्वत्र वास्तु यस्मान्न लभ्यते ॥ ३७।२१ ॥
तस्माद्गुणधिकं ग्राह्यमल्पदोषं यथा भवेत् ।
अधिष्ठानं च पादं च प्रस्तरं कण्ठ एव च ॥ ३७।२२ ॥
शिखरं स्थूपिका चैव शालाङ्गमिति कथ्यते ।
यजमानस्य जान्वन्तं नाभ्यन्तं हृदयावधि ॥ ३७।२३ ॥
गलावधि शिरोऽन्तं च पादार्धं वा त्रिभागिकम् ।
त्र्यादिषोडशभागानामधिकं वोक्तमानतः ॥ ३७।२४ ॥
अधिष्ठानस्य मानं स्यात्तत्पादस्याथ कथ्यते ।
सार्धहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ॥ ३७।२५ ॥
नवहस्तप्रमाणान्ताः स्तम्भोत्सेधाः प्रकीर्तिताः ।
अङ्गुलत्रयमारभ्य चार्धाङ्गुलविवर्धनात् ॥ ३७।२६ ॥
त्रिंशन्मात्रावसानास्तु विस्ताराः परिकीर्तिताः ।
चतुरंशं समारभ्य षोडशांशं यथाविधि ॥ ३७।२७ ॥
भागान्कृत्वैकभागेन न्यूनं स्यादग्रविस्तरः ।
एवमूर्ध्वोर्ध्वपादानां तारायामौ प्रकल्पयेत् ॥ ३७।२८ ॥
प्रस्तरं पाददैर्घ्यस्य चार्धमानेन कारयेत् ।
तन्मानं नवधा कृत्वा चैकाद्याचतुरंशकैः ॥ ३७।२९ ॥
न्यूनं वाप्यधिकं वापि प्रस्तरं कारयेद्बुधः ।
प्रस्तरोक्तप्रमाणं तु सर्वं कण्ठे विधीयते ॥ ३७।३० ॥
पादोक्तं सर्वमानं तु शिखरेऽपि विधीयते ।
ध्रुवाविधानरीत्या वा शिखरं परिकल्पयेत् ॥ ३७।३१ ॥
कण्ठोक्तं सर्वमानं तु स्थूप्युत्सेधः प्रकीर्तितः ।
पादविष्कम्भमानेन द्विगुणादिनवान्तकम् ॥ ३७।३२ ॥
भित्तिविष्कम्भ उद्दिष्टो द्व्यङ्गुलेनाथवा नयेत् ।
अष्टाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ ३७।३३ ॥
त्रिहस्तान्तं तु विस्तारो भित्तीनां परिकीर्तितः ।
मूलभित्तेरिदं मानमूर्ध्वे पादार्धहीनकम् ॥ ३७।३४ ॥
अन्योन्यमधिका वापि न्यूना वा भित्तयः समाः ।
शालैका दण्डखण्डाभा द्विशाला तद्द्वयेन तु ॥ ३७।३५ ॥
तत्त्रयेण त्रिशाला स्याच्चतुः शाला चतुष्टयी ।
सप्तभिः सप्तशाला स्यादेवमन्यास्तु कीर्तिताः ॥ ३७।३६ ॥
विस्तारे चैकभक्त्यादिपञ्चाशद्भक्तिकावधि ।
आयामेऽपि तथा वृद्ध्या शतान्तं परिकल्पयेत् ॥ ३७।३७ ॥
आसामग्रे त्वलिन्दाः स्युः प्रधाने वा विशेषतः ।
एकद्वित्रिचतुष्पञ्चषट्सप्तालिन्दसंयुताः ॥ ३७।३८ ॥
पृष्ठे पार्श्वे तथैव स्युरिष्टदेशेऽथवा पुनः ।
पृथुद्वारं च द्वारां?श्च एवमेव प्रकल्पयेत् ॥ ३७।३९ ॥
मध्ये तु प्राङ्कणं कार्यं विशालेनैकपङ्क्तिकम् ।
अर्धपङ्क्तिविवृद्ध्या तु त्रिंशत्पङ्क्यन्तमिष्यते ॥ ३७।४० ॥
आयामे चैकपङ्क्त्यादित्रिगुणान्तं विशालता ।
एवं ब्रह्माङ्कणं कार्यं जलपातयुतं न वा ॥ ३७।४१ ॥
मिश्रं वापि प्रकर्तव्यं भ्रमणस्रववारियुक् ।
बाह्यवारियुतं वापि विवरं वा प्रकल्पयेत् ॥ ३७।४२ ॥
एकपङ्क्तिविशालादिपादपादविवृद्धितः ।
पञ्चभागावसानान्तं शालाविस्तार इष्यते ॥ ३७।४३ ॥
पृथुद्वारविशालं तु चैवमेव प्रकल्पयेत् ।
अलिन्दः पृथुद्वारेण समो वा चार्धमानतः ॥ ३७।४४ ॥

(पृ० ९९)

द्वारमानं तथैवं स्याद्दण्डिकाद्वारमर्धतः ।
गर्भाधानक्रमणकं कभित्तिर्मुख्यधामनि ॥ ३७।४५ ॥
दक्षिणे नेत्रभित्तौ वा गर्भाधानं प्रकीर्तितम् ।
अथवा ब्रह्मभित्तौ वा गर्भाधानं विधीयते ॥ ३७।४६ ॥
कभित्तेर्दक्षिणे भागे स्वाम्यावासः प्रशस्यते ।
उत्तरे रङ्मित्युक्तं तद्गृहिण्या गृहं भवेत् ॥ ३७।४७ ॥
कभित्त्यग्रभृते द्वारद्वयं कुर्याद्विशिष्यते ।
नवभागे गृहे तत्र दक्षिणे पञ्चभागकम् ॥ ३७।४८ ॥
वामभागे त्रयं त्यक्त्वा मध्ये द्वारं विधीयते ।
अलिन्दे द्वारमेवं स्यादन्यत्राप्येवमेव तु ॥ ३७।४९ ॥
कम्पद्वारं तु वा कुर्यान्मध्यपार्श्वद्वयोस्तथा ।
भित्तिव्यासेऽर्कभागं तु बाह्ये बाह्यशरांशकम् ॥ ३७।५० ॥
योगस्य मध्यमः पादमध्यमश्च विधीयते ।
भित्तिमध्यं तयोर्मध्यं पादमध्यं तु वा समम् ॥ ३७।५१ ॥
कोणं च मध्यमं स्थानं त्यक्त्वा वारिवहो भवेत् ।
कोणात्तृतीयभागे तु जलनिर्गम इष्यते ॥ ३७।५२ ॥
गृहक्षते महेन्द्रे च पुष्पदन्ते विधीयते ।
भल्लाटे चैव मध्ये च द्वारमासु विधीयते ॥ ३७।५३ ॥
हस्तस्तम्भतुलादीनि नराणां युग्मसङ्ख्यया ।
देवानामुभयं ग्राह्यं मध्यद्वारं तु वै तले ॥ ३७।५४ ॥
अन्नागारादिमध्यं तु वास्तुमध्यात्प्रदक्षिणे ।
आदित्यान् नन्दपादान्ते पञ्चाङ्गुलगतिक्रमात् ॥ ३७।५५ ॥
वास्तुमध्यादुदक्पूर्वं दक्षिणापरतः क्रमात् ।
धर्मनन्दाष्टधात्वंशाः पूर्वभागादिपादकाः ॥ ३७।५६ ॥
एकैकांशगतास्तत्र स्तम्भस्थापनकर्मणि ।
गृहाङ्घ्रिमध्ययोर्मध्यं भित्तिमध्यमिति स्मृतम् ॥ ३७।५७ ॥
एवं चतुर्गृहं प्रोक्तं शालायां कल्पयेन्नव ।
एतत्सर्वं तु शालानां सामान्यमिति कीर्त्यते ॥ ३७।५८ ॥
तैतिलानां द्विजातीनां पाषण्डाश्रमिणामपि ।
हस्त्यश्वरथयोधानां यागहोमादिकर्मसु ॥ ३७।५९ ॥
देवानां भूपतीनां च नृत्तगीतादिकर्मसु ।
एकशाला प्रशस्ता स्यात्स्त्रीणा रङ्गोपजीविनाम् ॥ ३७।६० ॥
लाङ्गलं गणिकादीनां शूर्पमुग्रोपजीविनाम् ।
शालाविरहितस्थाने कुड्ये द्वारं प्रयोजयेत् ॥ ३७।६१ ॥
ऊर्ध्वभूमिं समारभ्य रचना कथ्यतेऽधुना ।
प्रधानशाला यत्रैव रङ्गस्थानं विधीयते ॥ ३७।६२ ॥
स्वाम्यावासस्य विन्यासं मण्डपाकारसंयुतम् ।
चूलीहर्म्ययुतं चोर्ध्वे चाग्रद्वारसमन्वितम् ॥ ३७।६३ ॥
वास्तुद्वारयुतं चैव कभित्तेश्च विशेषतः ।
सर्वतः कुण्डसंयुक्तं गृहद्वारसन्वितम् ॥ ३७।६४ ॥
रङ्गभित्तिसमायुक्तं धामसोपानसंयुतम् ।
सोर्ध्ववास्तव्यसंयुक्तं चूलीहर्म्ययुतं तु वा ॥ ३७।६५ ॥
अग्रकर्मसमायुक्तं कर्णकूटद्वयान्वितम् ।
कर्णकूटविहीनं वा चान्यत्सर्वं तु वास्तुषु ॥ ३७।६६ ॥
मध्यमं चाङ्कणस्थानं मण्डपेन युतं तु वा ।
सभाकारयुतं वापि केवलं वा जलस्थलम् ॥ ३७।६७ ॥
ऊर्ध्वभूमिरिति ख्याता सान्यथा च निगद्यते ।
प्रधानमण्डपागारं चूलीहर्म्यविवर्जितम् ॥ ३७।६८ ॥
स्वामिवासं विधायैवं रङ्गं कुर्यात्तु तत्समम् ।
लूपारोहक्रियायुक्तमन्यत्पूर्वोक्तवर्त्मना ॥ ३७।६९ ॥
अथवा सर्वशालायां लूपारोहणमेव वा ।
ऊर्ध्वभूमिरिति ख्याता द्वितीयां शृणुत द्विजाः ॥ ३७।७० ॥
चतुः शालाप्रदेशे तु तदधोभूमिरुच्यते ।
सा भूमिर्मण्डपागारचूलीहर्म्यविभूषिता ॥ ३७।७१ ॥
तदधस्तात्समन्तात्तु पृथुद्वारयुता तथा ।
भागद्वयेन तस्यैव विन्यासः परिपठ्यते ॥ ३७।७२ ॥

(पृ० १००)

चतुष्कोणे चतुष्कूटं तद्विस्तारेण निर्मितम् ।
चतुर्भागद्विभागेन पृष्ठावाससभां नयेत् ॥ ३७।७३ ॥
अग्रकूटद्वयोर्मध्ये शालाः पृष्ठसभा यथा ।
पार्श्वयोरुभयोश्चैव चतुर्भागान्तविस्तरम् ॥ ३७।७४ ॥
पञ्जरद्वितयं कार्यं कर्णकूटसमोदयम् ।
प्रधानावासनेत्रस्थनेत्रकूटद्वयं नयेत् ॥ ३७।७५ ॥
तयोरूर्ध्वं च पर्याप्तिरूर्ध्वतो द्वितलान्तिका ।
पृष्ठावाससभा तद्वदन्यत्सर्वमधः स्थले ॥ ३७।७६ ॥
अवसानसमायुक्तं त्रितलञ्चैतदीरितम् ।
अलिन्दस्य समन्तात्तु भागेनैकेन वारकम् ॥ ३७।७७ ॥
पार्श्वयोरुभयोश्चैव चाग्रशालानुसारतः ।
तथा प्रधानशालायास्त्वनुसारेण पार्श्वयोः ॥ ३७।७८ ॥
अलिन्दस्यानुसारेण पूर्वभागे विशेषतः ।
भागद्वयविनिष्क्रामो भागद्वयविशालतः ॥ ३७।७९ ॥
सद्वारनेत्रशालानां षट्कं चालिन्दतो बहिः ।
चतुः शालावसानान्तामूर्ध्वाधः परिकल्पयेत् ॥ ३७।८० ॥
तदधो भूप्रवेशे तु तद्द्वारस्यावसानकम् ।
षण्णां वै नेत्रशालानाम् अन्तराले च वास्स्थलम् ॥ ३७।८१ ॥
चतुर्भागायतं भागद्वयविस्तारसंयुतम् ।
दक्षिणे चोत्तरे चैव पूर्वे चैव विशेषतः ॥ ३७।८२ ॥
अग्रकोणे द्वयोश्चैव पञ्चस्थाने प्रकल्पयेत् ।
अथवा नैरृते वायौ देवभागसमन्वितम् ॥ ३७।८३ ॥
वाःस्थलं वा विधातव्यमूर्ध्वतः षट्तलोपरि ।
तदधो भूद्वयं यत्तु रज्जुसूत्रकपोतयुक् ॥ ३७।८४ ॥
एतत्सप्ततलं प्रोक्तं राज्ञामावासयोग्यकम् ।
तदधस्तात्समन्तात्तु भागेनैकेन वारकम् ॥ ३७।८५ ॥
एतद्दशतलं प्रोक्तं रज्जुसूत्रमधस्तलम् ।
तदधस्तात्तलं चैकादशद्वादशभूमिकम् ॥ ३७।८६ ॥
एवमेव प्रकारेण कुर्यादाषोडशक्ष्मकम् ।
आद्यं तु सर्वतोभद्रं द्वितीयं वर्धमानकम् ॥ ३७।८७ ॥
तृतीयं स्वस्तिकं प्रोक्तं नन्द्यावर्तं चतुर्थकम् ।
चरुकं पञ्चमं विद्याच्छालानामपिधानकम् ॥ ३७।८८ ॥
सर्वतोभद्रमष्टास्यं वेदास्यं वर्धमानकम् ।
दक्षिणे चोत्तरे चैव षण्णेत्रं स्वस्तिकं मतम् ॥ ३७।८९ ॥
पार्श्वयोः पुरतश्चैव चतुर्नेत्रसमायुतम् ।
नन्द्यावर्तं स्मृतं पूर्वे दक्षिणे पश्चिमे तथा ॥ ३७।९० ॥
उत्तरे सौम्यशालादिशालानामास्यमीर्तितम् ।
निष्पटं चरुकं विद्यात्सर्वत्रैव विशेषतः ॥ ३७।९१ ॥
आद्यं चतुष्टयं यत्तु सर्वेषामपि शंसितम् ।
विशेषाद्भूभृतां शस्तं चरुकं देवयोग्यकम् ॥ ३७।९२ ॥
द्विजानां विहितं चैव पाषण्डाश्रमिणामपि ।
शालाभागे त्वलिन्दे वा पृथुवारांशके अपि ॥ ३७।९३ ॥
विन्यासस्त्विष्ट आख्यातो मण्डपे उक्तभूमिके ।
एतासां मालिकानां तु कुर्यादग्रे तु मण्डपम् ॥ ३७।९४ ॥
एकभागं समारभ्य वासव्याससमावधि ।
आयामस्त्वंशवृद्ध्या तु विस्तारो वासतः समः ॥ ३७।९५ ॥
एकैकभक्तिहान्या तु त्रिभक्तयन्तस्तु विस्तरः ।
एकद्वित्रितलोपेतं चतुष्पञ्चतलं तु वा ॥ ३७।९६ ॥
मण्डपं तु विधातव्यं शालानामग्रदेशके ।
एवम्भूतस्य वासस्य समन्तान्मण्डपं नयेत् ॥ ३७।९७ ॥
एकभागं समारभ्य पादभागविवृद्धितः ।
पञ्चभागावसानान्तं कुर्यादावृतमण्डपम् ॥ ३७।९८ ॥
हस्तमानेन वा कुर्यात्त्रिहस्तादर्धवृद्धितः ।
पञ्चदशकरान्तं तु कुर्यादावृतमण्डपम् ॥ ३७।९९ ॥
मण्डपेन विना वापि तेन मानेन पीठिका ।
विभद्रा वा सभद्रा वा कर्तव्या मालिका बुधैः ॥ ३७।१०० ॥

(पृ० १०१)

शालानां तु चतुर्दिक्षु चैकभागादितः क्रमात् ।
पादभागविवृद्ध्या तु चाष्टभागावसानकम् ॥ ३७।१०१ ॥
विनिर्गमस्य चायामो तद्वृद्ध्या तस्य विस्तरः ।
द्विगुणान्तो विधेयः स्यादेवं स्यान्मध्यवारणम् ॥ ३७।१०२ ॥
मध्यवारणयुक्तं वा तद्विहीनं तु वा द्विजाः ।
एवम्भूतस्य वासस्य समन्तात्स्यात्खलूरिका ॥ ३७।१०३ ॥
वासव्यासं चतुर्भागं कृत्वा चैकादिभागतः ।
वृध्यां वासस्य बाह्ये तु षोडशावधिभागकान् ॥ ३७।१०४ ॥
व्यपोह्य परितः कुर्यात्प्रथमावरणादितः ।
खलूरिकास्तु चैकादिसप्तभागावसानकाः ॥ ३७।१०५ ॥
मुखे च पार्श्वयोः पृष्ठे भक्तयः स्युर्यथेष्टतः ।
ओजोयुग्मप्रमाणेन न्यूना वाप्यधिका तु वा ॥ ३७।१०६ ॥
सभद्रा वा विभद्रा वा खलूरी स्याद्यथेष्टतः ।
एतासामन्तरालं तु समं वा विषमं तु वा ॥ ३७।१०७ ॥
खलूरीधाममध्यं तु तद्वदेव विधीयते ।
अन्तराले बहिर्वापि अधिकं न्यूनमेव वा ॥ ३७।१०८ ॥
एकपार्श्वेऽधिकं वापि पृष्ठे वाप्यधिकं यथा ।
मुखायाममुखे वापि पार्श्वयोः पृष्ठतस्तथा ॥ ३७।१०९ ॥
शालायामुक्तमानेन भक्तिर्हस्तं वशेन वा ।
तत्सर्वमत्र सङ्ग्राह्यं शालामात्रं तु वा भवेत् ॥ ३७।११० ॥
एकभक्त्यादिभक्त्यर्धवृद्ध्या दिग्भक्तिकान्तिकम् ।
खलूरिकाविधौ प्रोक्तं सालं तत्रोभयत्र तु ॥ ३७।१११ ॥
खलूरिकाविशालांस्तु त्रिचतुष्पञ्चभागकान् ।
षट्सप्तभागं वा कृत्वा बहिरेकं व्यपोह्य च ॥ ३७।११२ ॥
अन्तरे शेषभागांस्तु हित्वा मध्ये तु सालकम् ।
एकानेकतलोपेतमूलायामेन भूमिकाम् ॥ ३७।११३ ॥
सभाकारशिरोयुक्तां शालाकारामथापि वा ।
अथवा मण्टपोर्ध्वे तु चूलीहर्म्यविभूषिताम् ॥ ३७।११४ ॥
तलाधिष्ठानपादेभ्यः किञ्चिदूनप्रमाणकाम् ।
तद्वर्धितोपपीठां वा तद्वर्धितमसूरकाम् ॥ ३७।११५ ॥
पादायामसमोत्तुङ्गमसूरकयुतां तु वा ।
मूलधामतलोत्?तुङ्गाधिस्ठानतलसंयुताम् ॥ ३७।११६ ॥
तद्विहीनतलां वापि समस्थलयुतां तु वा ।
एतां खलूरिकां कुर्यात्प्रासादादिषु बुद्धिमान् ॥ ३७।११७ ॥
देवानां मनुजानां च विशेषाद्राजधामनि ।
पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ॥ ३७।११८ ॥
उपमध्येऽथवा द्वारमुपद्वारं तु वा नयेत् ।
खलूरिकायुतं चैव गोपुरं विधिनाचरेत् ॥ ३७।११९ ॥
एवं शालां यथाशालाप्रमाणेन समाचरेत् ।
गर्भागारयुतं वापि मध्ये भक्तियुतं तु वा ॥ ३७।१२० ॥
खलूरिकाविधानोक्तं बाह्यान्तर्मार्गसंयुतम् ।
चतुरंशादिभान्वन्तभागान् कृत्वैकभागकम् ॥ ३७।१२१ ॥
हित्वा मूलतलाद्यं तु कुर्याच्छेषेण बुद्धिमान् ।
अधिष्ठानादिषड्वर्गं तन्मानमुपपीठके ॥ ३७।१२२ ॥
द्वारोत्सेधाय दातव्यं समं वाप्यधिकं तु वा ।
खलूरिकातलं यद्वत्तद्वदत्र विधीयते ॥ ३७।१२३ ॥
मूलधामतलात्किञ्चिदूनं वापि समाचरेत् ।
सालगोपुरयोस्तुङ्गस्त्वधिकश्चापि मूलतः ॥ ३७।१२४ ॥
गोपुरस्याप्यलङ्कारं शालालङ्कारवन्नयेत् ।
सभाकारशिरोयुक्तं शालाकारशिरःक्रियम् ॥ ३७।१२५ ॥
मण्डपाकारसंयुक्तं चूलीहर्म्यविभूषितम् ।
अग्रतोऽलिन्दकोपेतमट्टालं सालकान्तरे ॥ ३७।१२६ ॥
गोपुरस्य तु विस्तारत्रिभागादेकभागिकम् ।
चतुर्भागैकभागस्तु पञ्चभागैकभागिकः ॥ ३७।१२७ ॥
निर्गमो गोपुराणां तु प्राकाराद्बाह्यतो भवेत् ।
गोपुरं च खलूरी च मूलवास्तुनिरीक्षितम् ॥ ३७।१२८ ॥

(पृ० १०२)

अन्तरे राजदेवीनां गृहाण्यन्तर्मुखानि च ।
प्रधानमहिषीगेहं वामभागे समाचरेत् ॥ ३७।१२९ ॥
अन्यासामपि तद्बाह्ये गृहस्यावृत्य कारयेत् ।
अन्येषामपि तद्बाह्ये कर्तुरिच्छावशेन तु ॥ ३७।१३० ॥
प्रागङ्कणं प्रधानं स्यात्प्रागवागङ्कणे ज्वरः ।
दक्षिणे जयदं राज्ञां नैरृते रिपुवर्धनम् ॥ ३७।१३१ ॥
प्रतीच्यां पुत्रमित्रर्द्धिः पश्चिमोत्तरतो मृतिः ।
उदीच्यां कोशवृद्धिः स्यादीशाने मरणं ध्रुवम् ॥ ३७।१३२ ॥
समन्तात्परिघां कुर्याद्राजधाम्नीदमीरितम् ।
देवानामन्यजातीनामपि योग्यं सनातनम् ॥ ३७।१३३ ॥
आरम्भकाले त्वेतेषां पृथक्पृथगिहोच्यते ।
कुम्भस्थे मकरस्थेऽर्के पूर्वगेहमथारभेत् ॥ ३७।१३४ ॥
मेषस्थे वृषगे दाक्ष्यमाप्यं सिंहकुलीरके ।
तुलायां वृश्चिके सौम्यं नेष्टमन्यच्चतुष्टयम् ॥ ३७।१३५ ॥
भास्करस्य दिशि वेश्म नेष्टञ्चान्तर्मुखं सदा ।
यदि कुर्याद्गृहं तत्तु वत्सरे तु विनश्यति ॥ ३७।१३६ ॥
सूर्यस्थाने कृतं वेश्म तद्गृहं पीड्यते ध्रुवम् ।
भौमस्थे तु गृहक्षेत्रं स्थापितं नाशितं भवेत् ॥ ३७।१३७ ॥
शनैश्चरे तु सम्प्राप्ते क्षुद्भयं तत्र वासिनाम् ।
जीवस्थाने गृहक्षेत्रं सर्वसम्पत्करं भवेत् ॥ ३७।१३८ ॥
शुक्रक्षेत्रे कृतं वेश्म नित्यं कल्याणमादिशेत् ।
बुधस्य परमं सौख्यं चन्द्रः पुरुषदैन्यकृत् ॥ ३७।१३९ ॥
कुर्यात्स्त्रीभ्यः सुखं वापि चैवं राशौ फलं भवेत् ।
अंशकादिषु विज्ञेयमेवं ज्ञात्वा समाचरेत् ॥ ३७।१४० ॥
एवमेव प्रकारेण स्थापयेत्प्रथमेष्टकाम् ।
छायायां विहितं वेश्म गिरेर्देवालयस्य वा ॥ ३७।१४१ ॥
बाधितं च नदीस्रोतसा च शोकापहं भवेत् ।
छिन्ने भिन्ने तथा नष्टे नमितेऽभिमते गृहे ॥ ३७।१४२ ॥
अगः स्यः करवीरश्च नन्द्यावर्तञ्च किंशुकः ।
अर्कः कार्पासकश्चैव षडेते गृहनाशनाः ॥ ३७।१४३ ॥
पलाशः खादिरश्चैव प्लक्षश्चिन्तावटस्तथा ।
गृहे न वर्धनीयाः स्युर्ग्रामादौ शुभदा मताः ॥ ३७।१४४ ॥
सभायाममितं वास्तु पददैर्घ्यसमं यदि ।
युक्तव्ययाधिकं तस्मात्तदा गृहमशोभनम् ॥ ३७।१४५ ॥
प्रत्यङ्मुखं तु शयनं दोषदं दक्षिणामुखम् ।
द्वारे पादं तु नेष्टं स्यात् नोदक् प्रत्यक्छिरो भवेत् ॥ ३७।१४६ ॥
भोजनं नानुवंशं स्याच्छयनं च तथैव च ।
अनुवंशगृहद्वारं नैव कार्यं शुभार्थिभिः ॥ ३७।१४७ ॥
एकशालागृहं कुर्वन् याम्ये कुर्यात्प्रयत्नतः ।
द्वे द्वे वारुणयाम्ये ते शाले कार्ये त्वतन्द्रितः ॥ ३७।१४८ ॥
कोणशालां तु कृत्वा तु वसन्नाशु विनश्यति ।
द्विजगेहस्य वंशं तु पूर्वाग्रं परिकल्पयेत् ॥ ३७।१४९ ॥
याम्याग्रं क्षत्रियाणां तु पश्चिमाग्रं विशां भवेत् ।
शूद्राणामुत्तरस्यां स्यादेष वंशाग्रको विधिः ॥ ३७।१५० ॥
द्विजक्षत्रियवैश्यानां युग्मपादाः प्रकीर्तिताः ।
शूद्राणामन्यजातीनामयुग्मस्तम्भ इष्यते ॥ ३७।१५१ ॥
खदिरं खादिरं चैव शमी स्याद्द्विजराजयोः ।
सिलिन्ध्रः पिशितं चैव मधूको वैश्यपादपः ॥ ३७।१५२ ॥
राजादनं च निम्बश्च सिलिन्ध्रः पिशितं तु वा ।
शूद्राणां स्तम्भयोग्यं स्यात् त्वक्साराः सर्वयोग्यकाः ॥ ३७।१५३ ॥
गेहाकारं चतुर्भागं पञ्चभागान्तरं तु वा ।
पादव्यास इति प्रोक्तो गेहव्यासकरात्तु वा ॥ ३७।१५४ ॥
यावन्तो विपुला हस्तास्तावदङ्गुलिसङ्ख्यया ।
सर्वेषामपि गेहानां स्तम्भविस्तार इष्यते ॥ ३७।१५५ ॥
उत्तरे विप्रगेहं स्यात्पूर्वे नृपगृहं मतम् ।
दक्षिणे वैश्यगेहं स्यात्पश्चिमे शूद्रजातये ॥ ३७।१५६ ॥

(पृ० १०३)

गृहमध्यमभित्तिश्च पदमध्यविवर्जिता ।
तामाश्रित्य तु कुल्याभं द्वारद्वयमिहेष्यते ॥ ३७।१५७ ॥
सर्वथा भिन्नशालासु सन्धिकर्म न कारयेत् ।
देवतास्थापनं पिण्डं शालासु न विधीयते ॥ ३७।१५८ ॥
एकैकान्तरिताः पादा नीरन्ध्रा वा निवेशिताः ।
अन्यागारादिषु द्वौ द्वौ पञ्च वा स्युर्यथेच्छया ॥ ३७।१५९ ॥
धनक्षयो मन्दवेधे तीव्रः स्याद्-ऋणबन्धनम् ।
त्रिचूली वैश्यशूद्राणां पञ्च सप्त महीभृताम् ॥ ३७।१६० ॥
ब्राह्मणानां तथैव स्युरेकादश तु वेदिकाः ।
पाषण्डाश्रमिणां युग्मसङ्ख्या चूली विधीयते ॥ ३७।१६१ ॥
शिलास्तम्भं शिलाकुड्यं नरावासे न कारयेत् ।
तृणाद्यैर्मृण्मयाच्छाद्यं लोष्टाच्छाद्यं च मृण्मयम् ॥ ३७।१६२ ॥
कुर्यादाननहृन्नाभीरुत्सेधः क्रमणेन तु ।
अधिष्ठानं च याम्यादिचतुर्गृहविधौ भवेत् ॥ ३७।१६३ ॥
द्वारस्यान्तस्तु निम्नश्चेद्वृद्धिर्वेश्माधिपस्य तु ।
उन्नतिश्च बहिर्ज्ञेया द्वारस्य रिपुवर्धनी ॥ ३७।१६४ ॥
भल्लाटे द्वारमिष्टं स्याद्ब्राह्मणानां विशेषतः ।
माहेन्द्रं भूभुजां विद्याद्वणिजामपि राक्षसम् ॥ ३७।१६५ ॥
पुष्पदन्तपदद्वारं शूद्राणामेव भाषितम् ।
तद्दिगीशान् समाश्रित्य द्वारं विधिवदाचरेत् ॥ ३७।१६६ ॥
मध्यसूत्रस्य वामे वा द्वारं विधिवदाचरेत् ।
जलद्वारं पुनस्तेषां प्रवक्ष्यामि निवेशनम् ॥ ३७।१६७ ॥
जयन्ते तु महेन्द्रे च राक्षसे वितथे भृशे ।
पुष्पदन्ते च सुग्रीवे भल्लाटे गृहमुख्यके ॥ ३७।१६८ ॥
ब्रह्मणोऽभिमुखं ब्रह्म परावृद्धिर्निषिध्यते ।
एकत्रिपञ्चसप्तांशे ध्वजसिंहवृषद्विपाः ॥ ३७।१६९ ॥
पूर्वाद्यासु शुभा ह्येते आयाद्यास्त्वनुलोमतः ।
द्विचतुः षड्वसुस्थानां धूमश्वखरवायसाः ॥ ३७।१७० ॥
आग्नेयादिविदिक्ष्वेते वर्जनीया बुभुक्षुभिः ।
ध्वजः सिंहो वृषो हस्ती यस्य तद्वेश्मनो मुखम् ॥ ३७।१७१ ॥
तस्य प्रत्यगुदक्प्राचीं दक्षिणं स्वामिनो गृहम् ।
ध्वजो याति हरिस्थानं गजस्थानं च केसरी ॥ ३७।१७२ ॥
सर्वेप्युक्षपदं यान्ति न चोक्षा यान्ति कुत्रचित् ।
उक्षे द्वारं न कर्तव्यमुपमध्येऽथवा भवेत् ॥ ३७।१७३ ॥
ब्राह्मणानामुदग्द्वारं प्राग्द्वारं क्षत्रियस्य तु ।
वैश्यस्य दक्षिणद्वारं श्रेष्ठं शूद्रस्य पश्चिमम् ॥ ३७।१७४ ॥
शालाद्वारमिदं प्रोक्तं चतुर्गृहविधावपि ।
याम्यालयबहिर्द्वारं भल्लाटे परिकल्पयेत् ॥ ३७।१७५ ॥
माहेन्द्रं पश्चिमे भागे गान्धर्वं सौम्यगेहके ।
पुष्पदन्तपदद्वारं पूर्वगेहे विधीयते ॥ ३७।१७६ ॥
ऐशान्यां पचनस्थानं ब्राह्मणानां विधीयते ।
आग्नेय्यां पचनस्थानं क्षत्रियाणां प्रशस्यते ॥ ३७।१७७ ॥
नैरृत्यां पचनस्थानं वैश्यानां तु प्रशस्यते ।
वायव्यां पचनस्थानं शूद्राणां सम्प्रशस्यते ॥ ३७।१७८ ॥
पूर्वस्यां भोजनस्थानमाग्नेय्यां तु महानसम् ।
याम्यायां शयनस्थानं नैरृत्यामायुधालयः ॥ ३७।१७९ ॥
मैत्रस्थानं तु वा तत्र वारुण्यामुदकालयः ।
गोष्ठागारं च वायव्यामुत्तरस्यां धनालयः ॥ ३७।१८० ॥
नित्यनैमित्तिकार्थं स्यादैशान्यां यागमण्डपम् ।
काञ्जीलवणयोः पात्रं प्रागुदग्दिशि विन्यसेत् ॥ ३७।१८१ ॥
अन्तरिक्षेऽपि वा चुल्ली लूखली सवितर्यपि ।
अन्नप्राशनमार्यांशे चेन्द्राण्यां च सवित्रके ॥ ३७।१८२ ॥
विवस्वदंशे श्रपणं विवाहो मैत्रदेशके ।
क्षौद्रमिन्द्रजये विद्याद्वायौ सोमे च वा भवेत् ॥ ३७।१८३ ॥
वितथोपनयश्चैव पितृदौवारिके पदे ।
सुग्रीवे पुष्पदन्ते च प्रसूतिगृहमिष्यते ॥ ३७।१८४ ॥

(पृ० १०४)

आपवत्से तु कोशः स्यात्कुण्डमापे विधीयते ।
अङ्कणं तु महेन्द्रांशे पेषणी च महीधरे ॥ ३७।१८५ ॥
भृङ्गराजनि सुग्रीवे पितृदौवारिके पदे ।
अरिष्टागारमिष्टं स्यात्तत्रोपस्कारभूमिकम् ॥ ३७।१८६ ॥
वाहनं द्वारयाम्ये स्यात्स्नानशाला च वारुणे ।
असुरे धान्ये?वासः स्यादायुधादीन्द्रराजके ॥ ३७।१८७ ॥
मित्रवासस्तथा मित्रे रोगे वोलूखलं मतम् ।
भूधरे कोशगेहं स्यान्नागांशे घृतमौषधम् ॥ ३७।१८८ ॥
जयन्ते चापवत्से च पर्जन्ये च शिवे क्रमात् ।
विषप्रत्यौषधं चैव कूपे देवगृहं भवेत् ॥ ३७।१८९ ॥
सवित्राद्यन्तरिक्षान्तं सव्यञ्जनमहानसम् ।
वितथे पूष्णि सावित्रे भोजनागार एव वा ॥ ३७।१९० ॥
ऋक्षभल्लाटसोमेषु भवेदास्थानमण्डपम् ।
मुखे वोलूखलं कुर्याद्गणिकाश्च प्रशंसिताः ॥ ३७।१९१ ॥
वाहनात्पुरतो वामे कीर्तिदा वा विशेषतः ।
मध्यमण्डपसंयुक्तं चतुर्गृहमुदाहृतम् ॥ ३७।१९२ ॥
पर्यन्तभित्तिशिरसि जलपातः कुलक्षयः ।
तीव्रसङ्क्रमणं तस्मिन् गृहस्यास्य न शोभनम् ॥ ३७।१९३ ॥
एतत्सर्वं तु सामन्यं शालासु च गृहेषु च ।

॥ इति कामिकाख्ये महातन्त्रे शालालाक्षणविधिः पञ्चत्रिंशत्तमः
पटलः ॥