३४ वास्तुशान्तिविधिः

(पृ० ९६)

वास्तुशान्तिविधिं वक्ष्ये ग्रामादीनां शुभावहम् ।
वास्तूपशमनं नाम सर्वदोषविनाशनम् ॥ ३६।१ ॥
जीर्णोद्धारे नवीकारे छेदे भेदे तथैव च ।
वाय्वग्निजलसम्बाधे नृपचोरादिबाधके ॥ ३६।२ ॥
दक्षिणापरवृद्धौ च प्रागुदक्च्छेदनेऽपि च ।
न्यूनातिरेके मानस्य द्वारनिर्गमभेदने ॥ ३६।३ ॥
प्राकारपरिघाभेदे देवतालयकल्पने ।
यजमानान्तरे चैव हीनलक्षणवास्तुके ॥ ३६।४ ॥
त्यक्ते शून्ये तथा नष्टे प्रातिलोम्ये तथैव च ।
आभिचारकृते दोषे व्याधिमारीभयेऽपि च ॥ ३६।५ ॥
उत्पाते दुर्निमित्ते च सर्वदोषापनुत्तये ।
वास्तूपशमनं कुर्यात्सद्य एव विचक्षणः ॥ ३६।६ ॥
वक्ररथ्यान्विते वापि विन्यासाद्यविवर्जिते ।
अन्येष्वशुभयुक्तेषु गृहदेवालयेषु च ॥ ३६।७ ॥
महाद्भुते च सम्प्राप्ते त्रिविधे चोत्तमादिके ।
प्रायश्चित्तं विशेषेण वक्ष्यमाणमिदं नयेत् ॥ ३६।८ ॥
ततो गुरुः कृतस्नानः शिवविप्रः प्रसन्नधीः ।
अहताभ्यां सुवासोभ्यां संयुक्तः सोत्तरीयकः ॥ ३६।९ ॥
वास्त्वङ्गदेवताः सर्वास्तत्तच्छास्त्रोक्तमार्गतः ।
पूजयित्वा विधानेन देवानन्यात् तथैव च ॥ ३६।१० ॥
वास्तुमध्ये प्रपां कुर्याच्चान्यस्मिन् वा मनोरमे ।
दर्भमालादिभिर्युक्तां सर्वालङ्कारसंयुताम् ॥ ३६।११ ॥
वारुण्यमिन्द्रकाष्ठायां दक्षिणे चोत्तरेऽपि वा ।
तन्मध्ये दण्डमात्रेण वेदीं पञ्चाङ्गुलोच्छ्रिताम् ॥ ३६।१२ ॥
तस्यां पिष्टाक्तसूत्रेण पदानि परिकल्पयेत् ।
चतुर्णवविकारांश्च पञ्चविंशत्पदं तु वा ॥ ३६।१३ ॥
षट्त्रिंशदंशकैश्चापि चत्वारिंशन्नवाधिकम् ।
अष्टाष्टकपदं वापि सूत्रवर्गपदं तु वा ॥ ३६।१४ ॥
एतेष्वन्यतमं योग्यं विन्यसेद्वास्तु वित्तमः ।
शालिभिः स्थण्डिलं कृत्वा तण्डुलैस्तिलमिश्रकैः ॥ ३६।१५ ॥
लाजदर्भसमायुक्तं पुष्पैश्चैव समन्वितम् ।
चरुं च तत्र संस्थाप्य घृतेनैवाभिधार्य च ॥ ३६।१६ ॥
सम्प्रोक्ष्य हृदयेनैव वस्त्रेणाच्छाद्य सत्कुशैः ।
वेद्यास्तु पश्चिमे देशे कुण्डं कृत्वा त्रिमेखलम् ॥ ३६।१७ ॥
चतुरश्रं हस्तमानं नवाङ्गुलसमुच्छ्रयम् ।
तत्र वह्निं समाधाय वह्निकार्योक्तमार्गतः ॥ ३६।१८ ॥
समिदाज्यहविर्भिश्च यवकृष्णतिलैरपि ।
मध्वाज्यक्षीरसंयुक्तदूर्वया होममाचरेत् ॥ ३६।१९ ॥
पञ्चब्रह्मशिवाङ्गैश्च विद्याङ्गैः शिवपूर्वकैः ।
अघोरेण शतं वार्धं द्रव्यैः पूर्वैस्तु पञ्चभिः ॥ ३६।२० ॥
अष्टोत्तरशतं दूर्वाहोमो मृत्युजितो भवेत् ।
पूर्णाहुतिं ततो हुत्वा वास्तुदेवान् समर्चयेत् ॥ ३६।२१ ॥
पदेषु कूर्चं निक्षिप्य कुर्यादावाहनादिकम् ।
ब्रह्माणं प्रथमं चेष्ट्वा ततः सर्वांश्च पूजयेत् ॥ ३६।२२ ॥
द्वादशाब्दसुसम्पूर्णां विप्रजातिसमुद्भवाम् ।
सर्वलक्षणसम्पूर्णां नानाभरणभूषिताम् ॥ ३६।२३ ॥
शुक्लाम्बरधरां कन्यां शुक्लपुष्पैरलङ्कृताम् ।
शुक्लवस्त्रोत्तरीयां तां सम्पूज्यान्नादिभिः सुखम् ॥ ३६।२४ ॥
तस्याश्च दत्वा ताम्बूलं बलिद्रव्यसमन्वितम् ।
दद्यात्तस्याश्च हस्ते तु बलिपात्रं गुरुस्तदा ॥ ३६।२५ ॥
पञ्चाङ्गभूषणोपेतः सोष्णीषः सोत्तरीयकः ।
नववस्त्रधरः शैवविप्रो दद्याद्बलिं पुरे ॥ ३६।२६ ॥

(पृ० ९७)

मध्वाज्यदधिसंयुक्तं शुद्धमन्नं तु वा ददेत् ।
सर्वद्रव्यसमायुक्तमथवैनं समाचरेत् ॥ ३६।२७ ॥
रात्रौ ग्रामबलिं दद्यात्प्रासादादौ यथेष्टतः ।
चतुष्कुण्डे तु वा वास्तुदेवानां तर्पणं भवेत् ॥ ३६।२८ ॥
दक्षिणां दापयेत्पश्चादाचार्यादिष्वनुक्रमात् ।
अधमा पञ्चनिष्कं स्याद्द्विगुणा मध्यमा भवेत् ॥ ३६।२९ ॥
त्रिगुणा चोत्तमा प्रोक्ता देशिकस्य तु दक्षिणा ।
अग्रहारादिके देवागारे राज्ञां द्विजन्मनाम् ॥ ३६।३० ॥
वैश्यानां शूद्रजातीनामावासे मण्डपादिषु ।
चण्डालाद्युषिते चैव तज्जन्ममरणेऽपि च ॥ ३६।३१ ॥
दूषितेष्वसुराद्यैश्च विधिमेनं समाचरेत् ।
कूपे वा पुष्करिण्यादौ जलं सर्वं बहिः क्षिपेत् ॥ ३६।३२ ॥
सहस्रकुम्भतोयं वा शतकुम्भोदकं तु वा ।
पञ्चगव्यं तु निक्षिप्य शान्तिहोमं तु कारयेत् ॥ ३६।३३ ॥

॥ इति कामिकाख्ये महातन्त्रे वास्तुशान्तिविधिः चतुस्त्रिंशत्तमः पटलः ॥