३३ ग्रामगृहविन्यासविधिः

ग्रामादीनां तु विन्यासः निवेशाद्यं च कथ्यते ।
आदौ कालपरीक्षा स्याद्द्वितीयं देशनिर्णयम् ॥ ३५।१ ॥
तृतीयं भूपरीक्षा स्यात्प्रवेशार्थबलिस्ततः ।
स्वीकारः पञ्चमो भूमेः षष्ठः कर्षणमुच्यते ॥ ३५।२ ॥
शङ्कुसंस्थापनं पश्चादष्टमः पदनिर्णयः ।
नवमः सूत्रविन्यासो दशमो देवताबलिः ॥ ३५।३ ॥
गृहवीथ्यादिभेदः स्यादेकादश उदाहृतः ।
द्वादशो गर्भविन्यासः ततो देवनिवेशनम् ॥ ३५।४ ॥
द्वादशान्ते द्विजातीनां प्रवेशस्तदनन्तरम् ।
तदन्ते भूसुराणां तु निरीक्षणमुदाहृतम् ॥ ३५।५ ॥
ततो भूमिविभागः स्यादेवं बुध्वा समाचरेत् ।
गृहारम्भात्पुरैवं स्यादमरावासनिर्णयः ॥ ३५।६ ॥
पूर्वं देवान् प्रतिष्ठाप्य पश्चाद्विप्रान्निवेशयेत् ।
मूलबालालयोक्तेन विधिनालयनिर्णयः ॥ ३५।७ ॥
देवानां स्यान्मनुष्याणां कुर्याच्छालाविधानतः ।
उत्कृष्टे मध्यमे हीने देववेश्म तथा मतम् ॥ ३५।८ ॥

(पृ० ९५)

उत्कृष्टे देववेश्म स्याद्धीनं यदि तदा नरः ।
हीनभावं तु यत्नेन समं वोत्कृष्टमाचरेत् ॥ ३५।९ ॥
एतत्सर्वं तु पूर्वोक्तक्रमेणैव समाचरेत् ।
ग्रामादीनां गृहादीनां मालिकानां विशेषतः ॥ ३५।१० ॥
मण्टपादेः प्रवक्ष्यामि प्रवेशं तु महानसे ।
अन्येषामपि वस्तूनां यजमानप्रेवशनम् ॥ ३५।११ ॥
सदा सुमनसो दान्तान् दयायुक्तान् दृढव्रतान् ।
पत्नीपुत्रसमायुक्तान् सर्वोपस्करसंयुतान् ॥ ३५।१२ ॥
ग्रामानुकूलनक्षत्रान् देवाग्निगुरुपूजकान् ।
वेदवेदाङ्गतत्त्वज्ञान् श्रोत्रियान् प्रियदर्शनान् ॥ ३५।१३ ॥
अधीतशिवशास्त्रांश्चदरिद्रान् दोषवर्जितान् ।
उत्कृष्टकर्मनिरताननुष्ठानपरायणान् ॥ ३५।१४ ॥
विप्रानाहूय निश्चित्य दशाङ्गं लेखयेत्तदा ।
राष्ट्रग्रामौ गोत्रसूत्रे सव्यदक्षिणलाञ्च्छने ॥ ३५।१५ ॥
विद्या कुलं पितुर्नाम स्वच्छाङ्गं दश वा मता ।
मुलकोशे लिखित्वैवं ताम्रपात्रे विनिर्मिते ॥ ३५।१६ ॥
शिलादौ वा तदा वस्तु श्रद्धयोदकपूर्वकम् ।
प्रदद्याद्भूमिपूर्वाणि गृहोपकरणानि तु ॥ ३५।१७ ॥
स्त्रीणामाभरणं धान्यं वस्त्रं गां च पयस्विनीम् ।
दासीदासं च विप्रेभ्यो दद्याच्छ्रद्धान्वितो नृपः ॥ ३५।१८ ॥
ब्राह्मणेभ्यो महीं दद्यात्पुण्यकाले तु सोदकम् ।
अन्येषामिष्टकाले तु दद्यात्केवलया गिरा ॥ ३५।१९ ॥
शेषं सर्वं तु सामान्यं सर्ववास्तुनिवेशने ।
नास्तिकान् पिशुनान् क्रूरान् देवाग्निगुरुनिन्दकान् ॥ ३५।२० ॥
बलापहृतब्रह्मस्वान्नृपद्रोहादिसंयुतान् ।
वर्जयेदीदृशान् विप्रान् नृपस्तद्दानकर्मणि ॥ ३५।२१ ॥
पूर्णकुम्भं प्रदीपांश्च पुरस्कृत्य शुभे दिने ।
स्वस्तिवाचनसंयुक्तं वेशयेद्ब्राह्मणान् वरान् ॥ ३५।२२ ॥
चतुर्विंशतिकान् मध्यान् षट्त्रिंशत्सङ्ख्यकान् वरान् ।
अल्पे चैकं द्वयं वापि त्रयं वा सन्निवेशयेत् ॥ ३५।२३ ॥
स्थापयेच्च यथापूर्वं विप्रान् पूर्वोद्धृतानपि ।
पत्नीपुत्रसमायुक्तान् देवाग्निसहितांस्तथा ॥ ३५।२४ ॥
एतेषां च प्रवेशेऽपि वास्तुं सम्पूज्य होमयेत् ।
अकटवाटमनाच्छाद्यमदत्तबलिभोजनम् ॥ ३५।२५ ॥
गृहं विशन्व्रजत्येव विपदां पदमादरात् ।
स्वशक्तितोऽपि विप्रांस्तु स्वे स्वे गेहे निवेशयेत् ॥ ३५।२६ ॥
दैविके मानुषे भागे गेहे पूर्वं निवेशयेत् ।
यजमानानुकूलर्क्षे राशौ वा तन्निवेशयेत् ॥ ३५।२७ ॥
गृहमण्टपकूटादौ शालासु च महानसे ।
अनेनैव प्रकारेण तत्कर्तारं निवेशयेत् ॥ ३५।२८ ॥
देवालयादौ देवेशं देवीं स्कन्दसमन्विताम् ।
अथवा केवलां देवीं देवेशं चाथ मण्डपम् ॥ ३५।२९ ॥
देवाङ्गभूतकूटादौ वेशयेत्पूर्वमार्गतः ।
राजानं मालिकादौ तु प्रधानमहिषीयुतम् ॥ ३५।३० ॥
प्रधानमन्त्रिसंयुक्तममात्यादिभिरावृतम् ।
अङ्कुरार्पणपूर्वं वा रहितं वा निवेशयेत् ॥ ३५।३१ ॥
गृहमण्डपकूटादौ शालासु च महानसे ।
ब्राह्मणादिचतुर्वर्णान् मार्गेणानेन वेशयेत् ॥ ३५।३२ ॥

॥ इति कामिकाख्ये महातन्त्रे ग्रामगृहविन्यासविधिस्त्रयस्त्रिंशत्तमः
पटलः ॥