३२ बालस्थापनविधिः

(पृ० ९१)

अथ वक्ष्ये विशेषेण बालगेहस्य लक्षणम् ।
बालस्थानं विना विद्वान् मूलस्थानं न कारयेत् ॥ ३४।१ ॥
बाललिङ्गादिहीनं तु मूललिङ्गादिकं नहि ।
अयं विभागो ग्रामस्य प्रारम्भेऽन्यत्र चान्यथा ॥ ३४।२ ॥
बाललिङ्गादिहीनं वा तद्युक्तं वा समाचरेत् ।
मूलस्थानस्य चैशान्यामुत्तरे पूर्वयाम्ययोः ॥ ३४।३ ॥
आग्नेय्यामिष्टदेशे वा कुर्याद्बालगृहं गुरुः ।
नवदण्डं व्यपोह्यैव कुर्याद्धाम महान्तरम् ॥ ३४।४ ॥
त्रियुगेन्द्रियषढ्ढस्तैः सप्तहस्तेन वा गृहम् ।
यद्वा करद्वयेनैव मूलस्थानं प्रकल्पयेत् ॥ ३४।५ ॥
बालस्थानमथार्धेन गर्भगेहात्तथा भवेत् ।
मूलभागविशालेन भित्तिर्द्वित्रिगुणा मता ॥ ३४।६ ॥
शेषं तु गर्भगेहस्य मण्डपं वा सभाकृति ।
तस्य गर्भगृहार्धं तु हीनमध्यार्धकं तु यत् ॥ ३४।७ ॥
उत्कृष्टमध्यमाष्टांशे नन्दमानं प्रकीर्तितम् ।
लिङ्गायामं सुवृत्तं स्यान्नाहायामौ समौ मतौ ॥ ३४।८ ॥
चित्राहिशिरसोपेतं सूत्रहीनं तु कारयेत् ।
नवाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ ३४।९ ॥
त्रयस्त्रिशाङ्गुलं यावद्बाललिङ्गं तु वा भवेत् ।
तल्लिङ्गं त्रिचतुर्भागमानेन तु निवेशयेत् ॥ ३४।१० ॥
मूलोदयसमं श्रेष्ठं मध्यहीनमधोन्तरम् ।
वसुधा भाजिते तत्र नवलिङ्गोच्छ्रया मताः ॥ ३४।११ ॥
सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ।
तरुणप्रतिमानां तु नवधा मानमीरितम् ॥ ३४।१२ ॥
सकले सकलं कुर्यान्निष्कले चैव निष्कलम् ।
मूलबिम्बार्धमानं तु श्रेष्ठं वेदांशमानतः ॥ ३४।१३ ॥
हीनमष्टांशके मध्ये नवमानं तु बेरकम् ।
निष्कलस्य विशालेन चासनं चोत्तमं भवेत् ॥ ३४।१४ ॥
हीनं स्याच्चतुरंशेन मध्यमे नवमानकम् ।
लिङ्गमानवशेनापि पीठं तु परिकल्पयेत् ॥ ३४।१५ ॥
लोहोपलकुजैर्बाललिङ्गबेरं विधीयते ।
क्षीरवृक्षैः पलाशैर्वा वटोदुम्बरपिप्पलैः ॥ ३४।१६ ॥
मधूकपनसप्लक्षैः सालचन्दनखादिरैः ।
सरलामरवृक्षाभ्यां लिङ्गबेरं समाचरेत् ॥ ३४।१७ ॥
हर्म्यारम्भे च जीर्णे च भिन्ने च विकलाङ्गके ।
स्फोटनादिषु दोषेषु बालस्थानं तु कारयेत् ॥ ३४।१८ ॥
प्रागेव द्वादशाब्दात्तु चालने लिङ्गबेरयोः ।
तदूर्ध्वं नेष्टमन्यत्र तत्रैव स्थापयेत्सुधीः ॥ ३४।१९ ॥
बालालयाग्रे कर्तव्यं मण्डपं चतुरश्रकम् ।
तत्समं वा तदर्धं वा त्रिपादं वाग्रमण्डपम् ॥ ३४।२० ॥
पक्वेष्टकाशिलाद्याभिर्दृढं कुर्याद्यथाविधि ।
विस्तारसमतुङ्गाढ्यं दण्डिकाचूलिकान्वितम् ॥ ३४।२१ ॥
मूलहर्म्यं यथाद्वारं तथैव तरुणालये ।
तुर्याश्रमष्टवृत्तं वा त्रिधा पीठाकृतिर्मता ॥ ३४।२२ ॥
लिङ्गनाहं तु विस्तारं पीठं वार्धोन्नतिर्मता ।
इष्टकाभिः सुपक्वाभिः लिङ्गं स्यात्सुधया मृदा ॥ ३४।२३ ॥
रत्नन्यासो न कर्तव्यः पादशैलादिकं नहि ।
प्रागेव कुर्यात्तद्धीमान् विधिना चाङ्कुरार्पणम् ॥ ३४।२४ ॥
बालालयाग्रे कर्तव्यं मण्डपं चतुरश्रकम् ।
दशरन्ध्राष्टहस्तैर्वा मण्डपः सप्तहस्ततः ॥ ३४।२५ ॥
विस्तारस्तम्भसंयुक्तं भानुस्तम्भयुतं तु वा ।
पङ्क्तित्रयसमायुक्तं चतुरश्रं सतोरणम् ॥ ३४।२६ ॥

(पृ० ९२)

दर्भमालासमायुक्तं वितानाद्यैः समन्वितम् ।
मध्यांशे वेदिकां कुर्यात्तच्चतुर्थांशकोन्नतम् ॥ ३४।२७ ॥
वस्वङ्गुलं तु विस्तारमुत्सेधश्चतुरङ्गुलः ।
तस्याश्च परितश्चाष्टदिक्षु कुण्डानि कल्पयेत् ॥ ३४।२८ ॥
दिशासु चतुरश्राणि कोणेष्वब्जानि कल्पयेत् ।
ईशानशक्रयोर्मध्ये प्रधानं वृत्तकुण्डकम् ॥ ३४।२९ ॥
अथवा पञ्चकुण्।डानि चैकं वा पूर्वतः स्थितम् ।
मण्डपस्योत्तरे पार्श्वे स्नानश्वभ्रं प्रकल्पयेत् ॥ ३४।३० ॥
पश्चाच्छिल्पिनमुद्वास्य पुण्याहं वाचयेत्ततः ।
जलमध्ये प्रपां कुर्यात्सर्वलक्षणसंयुताम् ॥ ३४।३१ ॥
प्रक्षाल्य पञ्चगव्येन लिङ्गं चास्त्रेण देशिकः ।
शुद्धतोयेन गन्धाद्यैः संस्नाप्य च हृदार्चयेत् ॥ ३४।३२ ॥
वस्त्रयुग्मेन संवेष्ट्य लम्बकूर्चसमन्वितम् ।
जले तु शाययेल्लिङ्गं सद्येनैव कुशोपरि ॥ ३४।३३ ॥
त्रिरात्रं द्व्येकरात्रं वा वेदयामावसानकम् ।
प्रभूतपञ्चगव्येन स्नपनं वा समाचरेत् ॥ ३४।३४ ॥
परितः कलशानष्टौ लोकपालाधिदैवतान् ।
सवस्त्रान्सहिरण्यांश्च ससूत्रान् सापिधानकान् ॥ ३४।३५ ॥
ब्राह्मणान् भोजयेत्तत्र मण्डपे समलङ्कृते ।
वास्तुहोमं ततः कुर्यात्प्रासादे मण्डपेऽपि वा ॥ ३४।३६ ॥
पर्यग्निकरणं कृत्वा वास्तुहोमस्थवह्निना ।
जलादानीय लिङ्गं तु स्नानश्वभ्रोपरि न्यसेत् ॥ ३४।३७ ॥
वस्त्रं विसृज्य लिङ्गे तु पूर्ववच्छुद्धिमाचरेत् ।
कौतुकं बन्धयेद्धीमान् हृदयेन तु मन्त्रतः ॥ ३४।३८ ॥
वस्त्रेण वेष्टयेल्लिङ्गं वामदेवेन देशिकः ।
शालिभिर्वेदिकामध्ये अष्टद्रोणार्धनिर्मितैः ॥ ३४।३९ ॥
तण्डुलैश्च तिलैर्दर्भैः पुष्पैश्च सुपरिस्तरेत् ।
शयनं कल्पयेन्मध्ये चर्मजाद्यैरनुक्रमात् ॥ ३४।४० ॥
सर्वातोद्यसमायुक्तं स्तोत्रमङ्गलवाचकैः ।
सर्वलक्षणसंयुक्तस्त्वादिशैवः सशिष्यकः ॥ ३४।४१ ॥
दिव्यगन्धानुलिप्ताङ्गः पुष्पमालाविभूषितः ।
शुक्लवस्त्रश्च सोष्णीषः शुक्लवस्त्रोत्तरीयकः ॥ ३४।४२ ॥
पञ्चाङ्गभूषणोपेतः सकलीकृतविग्रहः ।
ईदृशैर्लक्षणैर्युक्तस्त्वाचार्यश्चोत्तराननः ॥ ३४।४३ ॥
वेद्यूर्ध्वे शाययेल्लिङ्गं प्राक्शिरस्कमधोमुखम् ।
अभ्यर्च्य हृदयेनैव गन्धाद्यैरुपचारकैः ॥ ३४।४४ ॥
द्रोणाम्बुपूरितं सूत्रवेष्टितं कूर्चसंयुतम् ।
पञ्चरत्नसमायुक्तं सापिधानं सवस्त्रकम् ॥ ३४।४५ ॥
शिवकुम्भं न्यसेत्तस्य मूर्ध्नि देशे तु वर्मणा ।
वर्धनीं वामतः स्थाप्य सूत्रकादिभिरन्विताम् ॥ ३४।४६ ॥
शिवमन्त्रं न्यसेद्ध्यात्वा देवदेवं सदाशिवम् ।
अष्टत्रिंशत्कलोपेतं पूजयेन्मूलमन्त्रतः ॥ ३४।४७ ॥
पूजयेत्तु स्वमन्त्रेण वर्धनीं तु मनोन्मनीम् ।
मुकुलीं पद्ममुद्रां च लिङ्गमुद्रां प्रदर्शयेत् ॥ ३४।४८ ॥
अभितस्तु घटानष्टौ द्रौणार्धोदकपूरितान् ।
सूत्रादिभिः समोपेतान् हेमटङ्कसमायुतान् ॥ ३४।४९ ॥
इन्द्रादिषु क्रमेणैव स्थापयेद्देशिकोत्तमः ।
अनन्तादिशिखण्ड्यन्तान् स्वस्वमन्त्रैर्घटेषु च ॥ ३४।५० ॥
विन्यस्य गन्धपुष्पाद्यैर्नैवेद्यान्तं हृदार्चयेत् ।
परिवारघटानष्टौ चोपवेद्युपरि न्यसेत् ॥ ३४।५१ ॥
ऋगाद्यध्ययनं कुर्युः संस्कृता वेदवित्तमाः ।
एको वा सर्ववेदांश्च पठेत्स्वस्वदिशि स्थितः ॥ ३४।५२ ॥
तदभावे त्वजाताद्या जप्तव्या मूर्तिपैः सह ।
सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः ॥ ३४।५३ ॥
अघोरः सामवेदस्तु अथर्वः पुरुषः स्मृतः ।
अष्टोत्तरसहस्रं वा तदर्धं वा तदर्धकम् ॥ ३४।५४ ॥

(पृ० ९३)

अष्टोत्तरशतं वापि जपेद्वैदिकसिद्धये ।
मूर्तिधाराद्यलाभे तु देशिकः सर्वमाचरेत् ॥ ३४।५५ ॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ।
खादिराश्वत्थबिल्वाश्च उदुम्बरवटौ तथा ॥ ३४।५६ ॥
मधूकार्कपलाशाश्च समिधः सम्प्रकीर्तिताः ।
पलाशस्तु प्रधानं च सर्वेषामिध्ममुच्यते ॥ ३४।५७ ॥
समिदाज्यान्नलाजैश्च तिलैर्होमं समाचरेत् ।
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥ ३४।५८ ॥
पूर्णाहुतिं ततः कुर्याद्वौषडन्तेन मूलतः ।
शिवाद्दशांशतोऽन्येषां दिक्षु ब्रह्माणि कल्पयेत् ॥ ३४।५९ ॥
विदिक्षु हृदयादीनि मूलार्धं सममेव वा ।
पूर्णाहुतिं ततः कुर्याद्वौषडन्तेन मूलतः ॥ ३४।६० ॥
आत्मतत्त्वादिकान् न्यस्य मूर्तिम्मूर्तीश्वरानपि ।
सर्वान् लिङ्गे तु विन्यस्य वह्नावावाह्य होमयेत् ॥ ३४।६१ ॥
पूर्णाहुतिं ततो दद्यान्नयेद्रात्रिं च मङ्गलैः ।
अपरे दिवसे धीमान् सुस्नातो मूर्तिपैः सह ॥ ३४।६२ ॥
सकलीकृतदेहस्तु द्वारद्वाराधिपान् यजेत् ।
सम्पूज्य देवकुम्भाग्नीन् कुण्डमस्त्रेण चार्चयेत् ॥ ३४।६३ ॥
संस्कृत्य स्रुक्स्रुवाभ्यां तु ब्रह्मादीन् परिधौ यजेत् ।
पूर्णाहुतिं ततो दत्वा मन्त्रानावाह्य तर्पयेत् ॥ ३४।६४ ॥
प्रायश्चित्तास्त्रमन्त्रैस्तु होमं सम्यक् समाचरेत् ।
अघोरेण शतं हुत्वा जयाद्यैर्दुरितक्षये ॥ ३४।६५ ॥
पूर्णाहुतिं ततः कुर्याद्देशिको मूर्तिपैः सह ।
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ३४।६६ ॥
अथवा पञ्चनिष्कं वा द्विगुणा मध्यमा भवेत् ।
त्रिगुणा चोत्तमा प्रोक्ता त्वधमत्रयकल्पने ॥ ३४।६७ ॥
द्विगुणा मध्यमे कल्पे त्रिगुणा चोत्तमे भवेत् ।
दशभागैकभागं तु मूर्तिधारकदक्षिणा ॥ ३४।६८ ॥
तदर्धं मन्त्रजप्तॄणां वैदिकानां तु तत्समम् ।
दैवज्ञे तत्समं विद्याद्द्विगुणं वास्तुहोमिनः ॥ ३४।६९ ॥
आचार्यस्य चतुर्थांशाच्छिल्पिने दक्षिणा मता ।
मुहूर्तनाडिकापूर्वं लिङ्गस्थापनमारमेत् ॥ ३४।७० ॥
उत्थाप्य शयनाल्लिङ्गं बालस्थानं प्रवेशयेत् ।
स्थापयेत्पीठमध्ये तु शिवमन्त्रमुदीरयन् ॥ ३४।७१ ॥
मन्त्रयित्वा त्रिबन्धेन हृदयं मन्त्रमुच्चरन् ।
मुहूर्ते समनुप्राप्ते गुरवे सन्निवेदयेत् ॥ ३४।७२ ॥
शङ्खदुन्दुभिनिर्घोषैर्गीतनृत्तसमायुतम् ।
ब्रह्मघोषसमायुक्तं नानाभक्तजनैर्युतम् ॥ ३४।७३ ॥
छत्रध्वजवितानैश्च धूपदीपैः समाकुलम् ।
वर्धन्याः स्रावसहितं मङ्गलाङ्कुरशोभितम् ॥ ३४।७४ ॥
कुम्भानुद्धृत्य शिरसा धृत्वा धामप्रदक्षिणम् ।
कृत्वा गर्भगृहे चैव स्थापयेत्स्थण्डिलोपरि ॥ ३४।७५ ॥
आसनं कल्पयेत्तत्र पूर्वोक्तविधिना सह ।
मूर्ध्नि न्यस्य पवित्राणि नेत्रमन्त्रं च विन्यसेत् ॥ ३४।७६॥
अष्टत्रिंशत्कलान्यासं लिङ्गे तु परिकल्पयेत् ।
ध्यात्वा सदाशिवं तत्र विद्यादेहेन पूजयेत् ॥ ३४।७७ ॥
कुम्भाद्बीजं समादाय लिङ्गमूर्ध्नि शिवं स्मरन् ।
पिण्डिकायां नसेद्बीजं शक्तेर्लिङ्गस्य सौम्यके ॥ ३४।७८ ॥
संस्नाप्य कुम्भवर्धन्यास्तोयैर्लिङ्गं च पीठिकाम् ।
अष्टविद्येश्वरांस्तर पीठे पूर्वादिषु न्यसेत् ॥ ३४।७९ ॥
अर्चनोक्तं समभ्यर्च्य शेषं युक्त्या समाचरेत् ।
परिवारस्य बीजानि स्वस्वस्थानेषु विन्यसेत् ॥ ३४।८० ॥
स्नपनं कारयेत्तोयैः प्रभूतं तु हविर्ददेत् ।
नित्योत्सवादिकान् सर्वान् बालस्थानेऽपि कारयेत् ॥ ३४।८१ ॥
अन्येषामपि देवानां बालस्थानस्य निर्णयम् ।
बेरमानं च हर्म्याद्यं कुर्याद्द्वारेण वर्त्मना ॥ ३४।८२ ॥

(पृ० ९४)

नयनोन्मीलनं गव्याभिषेकं शयनं तथा ।
कुम्भसंस्थापनं पूजा होमं च स्थापनादिकम् ॥ ३४।८३ ॥
ध्यानमात्रं च नित्यार्चा निर्मलैः कुसुमादिभिः ।
तत्तद्देवप्रतिष्ठोक्तमार्गेणैव समाचरेत् ॥ ३४।८४ ॥
एतत्सामान्यमुद्दिष्टं विशेषः किञ्चिदस्ति हि ।
द्वितीये स्थापनार्हस्तु पूर्वरात्रौ मुनीश्वराः ॥ ३४।८५ ॥
मूलगेहाग्रके तत्र पूर्ववत्स्थण्डिलोपरि ।
कुम्भं तु स्थाप्य पूर्वोक्तविधिना देशिकाधिपः ॥ ३४।८६ ॥
मूललिङ्गं तु सम्पूज्य गन्धाद्यैर्हविषा सह ।
प्रणम्य देवदेवेशं कर्ता कर्मविचक्षणः ॥ ३४।८७ ॥
एकवत्सरमारभ्य यावत्स्याद्द्वादशाब्दकम् ।
तेष्वन्तरे नवीकृत्य पुनः संस्थापयाम्यहम् ॥ ३४।८८ ॥
इति विज्ञाप्य तत्कर्ता देशिकेन सहैव तु ।
लिङ्गादेवं समावाह्य कुम्भमध्ये न्यसेद्गुरुः ॥ ३४।८९ ॥
पीठाद्देवीं समावाह्य वर्धन्या मध्यमे न्यसेत् ।
तदग्रे स्थण्डिलं कृत्वा प्राग्वदग्निमुखं नयेत् ॥ ३४।९० ॥
समिदाज्यान्नलाजैश्च तिलैरष्टोत्तरं शतम् ।
मूलेन होमयेद्विद्वानङ्गानां च दशांशतः ॥ ३४।९१ ॥
त्रिर्मधुप्लुतदूर्वाभिर्मृत्युजिन्मन्त्रमुच्चरन् ।
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥ ३४।९२ ॥
एवं हुत्वा तदन्ते तु क्षणहोमं समाचरेत् ।
वारैश्च रविपूर्वैश्च नक्षत्रैस्तुरगादिभिः ॥ ३४।९३ ॥
मेषादिमासकैश्चैव तिथिभिः प्रथमादिभिः ।
जुहुयादेकयाहुत्या प्रतिवत्सरमाचरेत् ॥ ३४।९४ ॥
वत्सरे वत्सरे कार्यमथवान्ते समाचरेत् ।
पूर्णाहुतिं ततो दत्वा देवे सर्वं समर्पयेत् ॥ ३४।९५ ॥
कुम्भानुद्धृत्य वेद्यां तु स्थापयेत्सर्वमङ्गलैः ।
सकलानां तु सर्वेषां कर्तव्यं बालबिम्बकम् ॥ ३४।९६ ॥
प्रतिमायां तु कुम्भे वा पीठे वा चेष्टकामये ।
परिवारेऽपि चैवं स्याद्बालबिम्बं प्रकल्पयेत् ॥ ३४।९७ ॥
अन्यत्सर्वं समानं स्यात्पूर्वेणैव समाहितः ।

॥ इति कामिकाख्ये महातन्त्रे बालस्थापनविधिः द्वात्रिंशत्तमः पटलः