३१ गर्भन्यासविधिः

(पृ० ८७)

गर्भन्यासविधिं वक्ष्ये ग्रामादीनां च सद्मनाम् ।
सगर्भं सर्वसम्पत्यै विगर्भं नाशनं भवेत् ॥ ३३।१ ॥
तस्मात्सर्वप्रयत्नेन गर्भं संस्थापयेत्सुधीः ।
देवतास्थापनात्पूर्वं स्थापनं चोत्तमं भवेत् ॥ ३३।२ ॥
देवतास्थापनस्यान्ते स्थापनं मध्यमं भवेत् ।
ग्रामविन्यासमारभ्य चैकाब्दादूर्ध्वकालके ॥ ३३।३ ॥
स्थापनं कन्यसं प्रोक्तं ग्रामादीनामिति स्मृतम् ।
पुर्वोक्ते तु शिवे काले सितपक्षे विशेषतः ॥ ३३।४ ॥
ग्रामादीनां तु रात्रौ स्यात्सद्मनस्तु दिवापि वा ।
नागयोगे दिवा वापि ग्रामगर्भं तु विन्यसेत् ॥ ३३।५ ॥
नक्तं न्यसेन्नराणां तु देवानां तु दिवापि वा ।
गृहिणीं गर्भिणीं कर्तुं यदि गर्भं न निक्षिपेत् ॥ ३३।६ ॥
हेमाकारेण ताम्रेण फेलां वा कारयेद्बुधः ।
चतुरङ्गुलमारभ्य चैकाङ्गुलविवर्धनात् ॥ ३३।७ ॥
चतुर्विंशतिकायामविस्तारः परिकीर्तितः ।
तदर्धं स्यात्समुत्सेधं त्रिपादं वाथ तत्समम् ॥ ३३।८ ॥
फेलोत्सेधस्त्रिपादं स्यात्पिधानस्य समुच्छ्रयः ।
सभागं वा द्विभागं वा वाणभागे द्विभागकम् ॥ ३३।९ ॥
यवमेकं समारभ्य यवार्धेन तु वर्धयेत् ।
घनं पञ्चयवार्धं तु भित्तीनां परिकल्पयेत् ॥ ३३।१० ॥
कोष्ठवृद्धिस्तदर्धं स्यात्त्र्यंशकं सर्वमेव वा ।
पादा अष्टांशका वापि चोच्छ्रायेण घनेन च ॥ ३३।११ ॥
फेला पञ्चाङ्गुला प्रोक्ता गृहाणां नाधिका भवेत् ।
सपञ्चपञ्चकोष्ठं वा नवकोष्ठयुतं तु वा ॥ ३३।१२ ॥
वृत्तं वा चतुरश्रं वा कल्पयेद्देशिकोत्तमः ।
शिलामयं तु वा पात्रं यवार्धेनाङ्गुलानि च ॥ ३३।१३ ॥
घनार्धं कल्पयेद्धीमान् शङ्खे वाथ करण्डके ।
रत्नानि धातुकादीनि स्वल्पविस्तारभाजने ॥ ३३।१४ ॥
तद्देवस्थानभावज्ञस्तानि तानि निवेशयेत् ।
एवं ज्ञात्वा तु मतिमान् गर्भस्थापनमारभेत् ॥ ३३।१५ ॥
घृष्ट्वा बहिर्मलं शोध्य प्रक्षाल्याम्लेन वारिणा ।
पञ्चगव्येन सम्प्रोक्ष्य पुण्याहं वाचयेत्ततः ॥ ३३।१६ ॥
मङ्गलाङ्कुरकार्यं तु विधिना कारयेद्बुधः ।
गर्भस्थाने हृहे वापि ग्रामे गर्भाधिवासनम् ॥ ३३।१७ ॥
विमानस्योत्तरे चैन्द्रे चान्येषामधिवासनम् ।
दशरन्ध्राब्धिहस्तैर्वा विस्तृतं मण्टपं नयेत् ॥ ३३।१८ ॥
तन्मध्ये वेदिकां कुर्यात्तत्रिभागैकभागतः ।
तालमात्रसमुत्सेधं तस्यां दिक्षु चतसृषु ॥ ३३।१९ ॥
चतुरश्राणि कुण्डानि प्रत्येकं हास्तिकानि तु ।
सयोन्यश्राणि कुण्डानि चैकं वा पूर्वतः स्थितम् ॥ ३३।२० ॥
वितानध्वजसंयुक्तं दर्भमालाभिरावृतम् ।
पुष्पमालासमायुक्तं द्वारतोरणसंयुतम् ॥ ३३।२१ ॥
मङ्गलाङ्कुरसंयुक्तं पद्मेन महतावृतम् ।
मण्डपं भूषयित्वैवं पुनः पुण्याहमाचरेत् ॥ ३३।२२ ॥
ब्राह्मणान् भोजयेत्तत्र तद्दिनात्प्राग्दिनत्रयम् ।
शालिभिश्च दशद्रोणैः स्थण्डिलं तण्डुलैस्तिलैः ॥ ३३।२३ ॥
कृत्वालिख्याष्टदिक्पत्रं कर्णिकाकेसरैर्युतम् ।
दर्भैरपि परिस्तीर्य स्थण्डिलं पूजयेद्गुरुः ॥ ३३।२४ ॥
वेद्याः पश्चिमभागे तु गोमयालेपिते शुभे ।
चित्रिते शालिपिष्टैश्च चतुरश्रां समन्ततः ॥ ३३।२५ ॥
सप्तद्वीपसमायुक्तां सप्ताम्भोधिसमन्विताम् ।
भूधरैर्दिग्गजैर्युक्तां धात्रीं नागफणस्थिताम् ॥ ३३।२६ ॥

(पृ० ८८)

आलिख्य सितफेनैश्च भुवनाध्वक्रमान्विताम् ।
फेलां प्रक्षाल्य गव्यैश्च स्थाप्य चित्रे तु मण्डले ॥ ३३।२७ ॥
देशिकः समलङ्कृत्य वस्त्रैः पञ्चाङ्गभूषणैः ।
सकलीकृतदेहस्तु गन्धैः पुष्पैर्विभूषितः ॥ ३३।२८ ॥
प्राङ्मुखः प्रयतो भूत्वा विन्यसेदक्षराणि तु ।
मध्यकोष्ठे न्यसेत्कूटं बिन्दुनादसमन्वितम् ॥ ३३।२९ ॥
पूर्वाद्यष्टसु कोणेषु यादिहान्ताश्च विन्यसेत् ।
अकारादि विसर्गान्तान् बाह्यकोणेषु विन्यसेत् ॥ ३३।३० ॥
त्रिलोचनं चतुर्बाहुं वरदाभयपाणिनम् ।
शूलटङ्कधरं सौम्यं जटाचन्द्रविभूषितम् ॥ ३३।३१ ॥
एवं तु भाजनं ध्यात्वा पश्चाद् द्रव्याणि विन्यसेत् ।
प्राङ्मुखोदङ्मुखो भूत्वा मृदादीनि तु विन्यसेत् ॥ ३३।३२ ॥
अन्तरावरणे प्राच्यां सामुद्रीं विन्यसेन्मृदम् ।
नादेयीमथ ताटाकीं दर्भमूलगतामपि ॥ ३३।३३ ॥
कुलीरावृतकां चापि वल्मीकवृषशृङ्गजाम् ।
गजदन्तगतां चापि क्रमादेता मृदो न्यसेत् ॥ ३३।३४ ॥
पूर्वादिक्रमयोगेन चाष्टौ चाष्टदिशासु च ।
संयोज्य ता मृदश्चाष्टौ सर्वा ब्राह्मपदे न्यसेत् ॥ ३३।३५ ॥
अथ पञ्चमृदो वापि विन्यसेदनुपूर्वशः ।
वृषशृङ्गे हस्तिदन्ते दर्भमूले जलान्तरे ॥ ३३।३६ ॥
नद्यास्तीरे च पञ्चैता मध्ये दिक्षु मृदो न्यसेत् ।
पङ्कजोत्पलकल्हारकन्दाश्च कुमुदस्य वै ॥ ३३।३७ ॥
रक्तोत्पलस्य श्वेतस्य पद्मस्य च कशेरुणः ।
तथा कुवलयस्यापि तत्रैवावरणे पुनः ॥ ३३।३८ ॥
सर्वांश्च मध्यमे कन्दान् सर्वलोकेशमण्डले ।
विन्यसेदानुपूर्व्येण तद्वाह्ये चाष्टमङ्गलम् ॥ ३३।३९ ॥
श्रीवत्सं पूर्णकुम्भं च भेरीं दर्पणमेव च ।
मत्स्ययुग्माङ्कुशौ चैव शङ्खकेसरिणौ तथा ॥ ३३।४० ॥
इन्द्रादिषु क्रमेणैव न्यसेदिन्द्रादिमन्त्रकैः ।
वज्रप्रवालनीलेन्द्रनीलमौक्तिकपुष्यकान् ॥ ३३।४१ ॥
प्रोक्ताब्जरागवैडूर्यं दीप्तशक्तिं स्म?रन्न्यसेत् ।
अथवा पञ्चरत्नानि विन्यसेदानुपूर्वशः ॥ ३३।४२ ॥
माणिक्यं चेन्द्रनीलं च वैडूर्यं च प्रवालकम् ।
मुक्तां मध्ये चतुर्दिक्षु पञ्चब्रह्माण्यनुस्मरन् ॥ ३३।४३ ॥
हरितालशिलाकाङ्क्षितालसूतानि गैरिकान् ।
धातून् सुगन्धशृङ्गाख्यान् धृतिवीर्यात्मकान्न्यसेत् ॥ ३३।४४ ॥
हेमारुणानमेयाङ्काह्लादतारध्वनि पन्नगान् ।
प्रोक्तें मध्येऽखिलान्येव देहशक्तिं स्मरन् न्यसेत् ॥ ३३।४५ ॥
बाह्ये त्वावरणे दिक्षु चान्तराले तु षोडश ।
बीजानि व्रीहिगोधूमतिलमाषान् प्रदक्षिणम् ॥ ३३।४६ ॥
मुद्गं च यवनीवारश्यामाकानन्तरेऽखिलान् ।
न्यसेत्तृप्त्यात्मकानेतान् मन्त्रैर्लोकेशवाचकैः ॥ ३३।४७ ॥
सौवर्णशालिकं रौप्यव्रीहिं चापि सकोद्रवम् ।
त्रपुणा कङ्कुसीसेन मांसपुष्पायसांस्तिलान् ॥ ३३।४८ ॥
मुद्गं चायोमयं ताम्रं निमित्तं च कुलुत्थक्रम् ।
विष्णुक्रान्तित्रिशूलीश्रीः सहापूर्वां च भृङ्गकम् ॥ ३३।४९ ॥
अपामार्गैकपत्राब्जमोषधीः प्राक्क्रमान्न्यसेत् ।
चन्दनागरुकर्पूरलवङ्गैलालताफलम् ॥ ३३।५० ॥
तक्वोलेनाष्टगन्धांस्तु न्यसेत्पूर्वादिषु क्रमात् ।
सर्वेषामापि सामान्यं तत्तच्चिह्नैस्तु वक्ष्यते ॥ ३३।५१ ॥
कपालशूलखट्वाङ्गान् परशुं वृषभं तथा ।
पिनाकं हरिणं पाशं हैमं शैवे तु विन्यसेत् ॥ ३३।५२ ॥
यस्य देवस्य यच्चास्त्रं तदस्त्रं मध्यमे न्यसेत् ।
भूसुराणां हितार्थाय यज्ञसूत्रं कमण्डलुम् ॥ ३३।५३ ॥
स्रुवं च प्रणवाकारं सौवर्णं मध्यमे न्यसेत् ।
रथं गजं हयं चैव शार्दूलं चापमेव च ॥ ३३।५४ ॥

(पृ० ८९)

क्षुरिकां च सुवर्णेन विन्यसेन्नृपदेशके ।
तुलां च मानपात्रं च महिषं गोवृषद्वयम् ॥ ३३।५५ ॥
सौवर्णं मध्यमे कोष्ठे विन्यसेद्वैश्यभागके ।
वृषं हलयुगं चैव युग्ममत्स्यं तु शालिकम् ॥ ३३।५६ ॥
सौवर्णं मध्यमे देशे शूद्रस्थाने प्रकल्पयेत् ।
स्थालीं तदुपधानं च दर्वीकं तण्डुलं घटम् ॥ ३३।५७ ॥
गलाख्यं दण्डकाष्ठं च कृष्णलोहे महानसे ।
दक्षिणे भवने कुम्भं सुशाल्युदकपूरितम् ॥ ३३।५८ ॥
धनसद्मनि गर्भस्तु सार्गला कुञ्चिका भवेत् ।
पर्यङ्कदीपशयने गर्भं विद्यात्सुखालये ॥ ३३।५९ ॥
माषमानं समारभ्य पलान्तं द्रव्यमानकम् ।
चतुष्पदाश्च देवाश्च संस्थाप्याभ्यन्तराननाः ॥ ३३।६० ॥
पादाङ्गुलं समारभ्य पादाङ्गुलविवर्धनात् ।
अष्टाङ्गुलप्रमाणेन बिम्बोत्सेधाः प्रकीर्तिताः ॥ ३३।६१ ॥
तदर्धा वाहनोत्सेधास्त्वासीना वा स्थितास्तु वा ।
एवं द्रव्याणि विन्यस्य पिधायैशानमन्त्रतः ॥ ३३।६२ ॥
वस्त्रयुग्मेन संवेष्ट्य कुशैश्चावेष्ट्य पूजयेत् ।
गन्धपुष्पाक्षतैर्धूपैर्दीपनैवेद्यकादिभिः ॥ ३३।६३ ॥
फेलामुद्धृत्य हस्ताभ्यां विन्यसेत्स्थण्डिलोपरि ।
आचार्यो मूर्तिपैः सार्धं होमकर्म समाचरेत् ॥ ३३।६४ ॥
वस्त्रहेमाङ्गुलीयादिभूषितैः सोत्तरीयकैः ।
विधिनाग्निमुखं कृत्वा ततो द्रव्याणि होमयेत् ॥ ३३।६५ ॥
पलाशोदुम्बराश्वत्थन्यग्रोधाः प्राग्दिगादिभिः ।
समिदाज्यचरून् लाजान् सर्षपांश्च यवांस्तिलान् ॥ ३३।६६ ॥
प्रत्येकं शिवमन्त्रेण शतमर्धं तदर्धकम् ।
शिवाद्दशांशतोऽङ्गानि तर्पयित्वा यथाविधि ॥ ३३।६७ ॥
पूर्णाहुतिं ततो हुत्वा वौषडन्तं शिवाणुना ।
सेश्वराणि त्रितत्वानि मूर्तिमूर्तीश्वरान्न्यसेत् ॥ ३३।६८ ॥
फेलायां पुष्पगन्धाद्यैः पूजयेत्तर्पयेत्ततः ।
सम्पदा संस्कृतं कृत्वा दशधा मूलमन्त्रतः ॥ ३३।६९ ॥
द्रव्यन्यासं समारभ्य गर्भसंस्थापनान्तकम् ।
ऋगाद्यध्ययनं कार्यं कोणेष्वस्त्रजपो भवेत् ॥ ३३।७० ॥
ग्रामादिसर्ववास्तूनां गर्भस्थानान्यमूनि हि ।
ब्रह्मण्यर्यमभागे तु विवस्वति यमे तथा ॥ ३३।७१ ॥
इन्द्रे च वरुणे चैव सोमे च पृथिवीधरे ।
पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ॥ ३३।७२ ॥
सौम्यदेवग्रहे चापि ग्रामादौ स्थापयेत्सुधीः ।
कृत्वावटं तु तत्रैव नयेदञ्जलिमात्रतः ॥ ३३।७३ ॥
शिरोन्तं वाथं कर्णान्तं हदयान्तं प्रकल्पयेत् ।
षडङ्गुलप्रमाणं तु चतुर्विंशाङ्गुलान्तकम् ॥ ३३।७४ ॥
भाजनस्य समन्तात्तु सावकाशसमन्वितम् ।
तथाश्मना चेष्टकया फेलाकारं तु गर्तकम् ॥ ३३।७५ ॥
गोमयालेपनं कृत्वा पुण्याहं वाचयेत्ततः ।
पञ्चगव्येन सम्प्रोक्ष्य तन्मध्येऽष्टमृदो न्यसेत् ॥ ३३।७६ ॥
शेषनागोर्ध्वभूमीषु सप्तद्वीपार्णवां भुवम् ।
दिग्गजैर्भूधरैर्युक्तां गन्धपुष्पादिभिर्यजेत् ॥ ३३।७७ ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ।
अधमा पञ्चनिष्कं तु द्विगुणा मध्यमा भवेत् ॥ ३३।७८ ॥
त्रिगुणा चोत्तमा प्रोक्ता देशिकस्य तु दक्षिणा ।
गोभूमिदासधान्यादिगृहोपकरणानि च ॥ ३३।७९ ॥
दापयित्वा विशेषेण देशिकं तोषयेत्ततः ।
अध्येतृमूर्तिपांश्चैव दैवज्ञं पूजयेत्ततः ॥ ३३।८० ॥
सम्पूज्य स्थपतिं तत्र वस्त्राभरणकैरपि ।
ध्यात्वा सदाशिवं रूपं मूलमन्त्रं समुच्चरेत् ॥ ३३।८१ ॥
फेलायाः प्राङ्मुखो भूत्वा स्थापयेदादिशैवकः ।
पांसुना पूरयेद्गर्तं सुस्निग्धं सुदृढं नयेत् ॥ ३३।८२ ॥

(पृ० ९०)

सभां वा कल्पयेदूर्ध्वं बिम्बं वोपरि कल्पयेत् ।
शिवादीनां च देवानां देवीनां द्वारदक्षिणे ॥ ३३।८३ ॥
स्तम्भमूले तथा योगे गर्ते गर्भं निधापयेत् ।
होमस्तम्भवति स्तम्भे पादकूर्चावृतेरधः ॥ ३३।८४ ॥
तस्मादत्युन्नतो निम्नो गर्भः सम्पद्विनाशकृत् ।
अथवा ब्रह्मगर्भं तु ब्रह्मस्थाने निधापयेत् ॥ ३३।८५ ॥
सभाप्रपामण्डपानां कर्णपादे प्रदक्षिणे ।
द्वितीयस्तम्भके द्वारदक्षिणाङ्घ्रौ तु विन्यसेत् ॥ ३३।८६ ॥
गर्भं नाट्यसभायां चेत् प्रक्षिपेत्कुटिकामुखे ।
मण्डितस्तम्भमूले तु गर्भं संस्थापयेत्सुधीः ॥ ३३।८७ ॥
गेहगर्भे सभाभागे द्वारस्तम्भे विधीयते ।
चूलिकाकारपादे वा तस्या गर्भो विधीयते ॥ ३३।८८ ॥
तुलाभाराभिषेकार्थं मण्डपेऽपि तथा भवेत् ।
सर्वेषां मण्डपानां च गर्भस्थानं प्रकथ्यते ॥ ३३।८९ ॥
द्वारदक्षिणपादे वा वामस्तम्भेऽथवाङ्कणे ।
पूर्वोक्तकर्णपादे वा द्वारदक्षिणयोगके ॥ ३३।९० ॥
मण्डपस्तम्भमूले तु प्रथमावरणे न्यसेत् ।
पादबन्धविमाने तु गेहगर्भोपरि न्यसेत् ॥ ३३।९१ ॥
प्रतिबन्धविमाने तु वृतेरुपरि विन्यसेत् ।
वृतेरुपरि विप्राणां कुमुदोपरि भूभृताम् ॥ ३३।९२ ॥
जगत्युपरि वैश्यानां शूद्राणां पादुकोपरि ।
सर्वेषां भूगतं कार्यं सर्वसिद्धिकराय च ॥ ३३।९३ ॥
पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ।
दक्षिणे नेत्रभितौ तु सौम्यादौ तु चतुर्गृहे ॥ ३३।९४ ॥
द्वारप्रदक्षिणस्तम्भयोगे वापि विधीयते ।
परिवारालयानां तु मूलवत्कर्म चाचरेत् ॥ ३३।९५ ॥
शालानां तु चतुष्कोणेष्विष्टदेशे प्रगृह्यताम् ।
मालिकायुक्तशालं चेत्कोणस्तम्भे द्वितीयके ॥ ३३।९६ ॥
प्रथमावरणे वापि द्वितीयावरणे न्यसेत् ।
स्थित्वा बहिर्बहिः प्रेक्ष्य वामावामे विकल्प्य च ॥ ३३।९७ ॥
अन्तर्बहिर्मुखं गर्भं वास्तुमध्ये प्रयोजयेत् ।
आलये मण्डपे चैव निर्गमस्य प्रदक्षिणे ॥ ३३।९८ ॥
गोपुराणां च सर्वेषां प्रवेशस्य प्रदक्षिणे ।
स्वाम्याख्यरङ्गहीनानां शालानां नेत्रभित्तिके ॥ ३३।९९ ॥
तद्युक्तानां च सर्वेषां पादमूले निवेशयेत् ।
अथवा मध्यभित्तौ स्याद्द्वारसव्येऽथ मध्यमे ॥ ३३।१०० ॥
वासस्य पञ्चस्थानानि शालासु च गृहेषु च ।
वापीकूपतटाकादौ दीर्घिकासेतुबन्धने ॥ ३३।१०१ ॥
गर्भं चेत्तदुदग्भागे पूर्वस्यां वाथ विन्यसेत् ।
वास्तुपूजा च होमञ्च गर्भन्यासे विधीयते ॥ ३३।१०२ ॥
गोपुरं परिवारं च मूलवास्तुनिरीक्षणम् ।
मण्डपानां मुखं शास्त्रे सर्वस्मिन् परिकीर्तितम् ॥ ३३।१०३ ॥
भित्तिव्यासेन चाष्टांशे बहिरंशचतुष्टयम् ।
अन्तस्त्रीनन्तरे नीत्वा गर्भं सम्यग्विनिक्षेपेत् ॥ ३३।१०४ ॥

॥ इति कामिकाख्ये महातन्त्रे गर्भन्यासविधिः एकत्रिंशत्तमः पटलः ॥