३० ग्रामाद्यङ्गस्थाननिर्णयविधिः

(पृ० ८६)

इदानीं सम्प्रवक्ष्यामि स्थानान्यङ्गोपजीविनाम् ।
दैवज्ञो गणको वैद्यस्त्वम्बष्ठो भेषजप्रदः ॥ ३२।१ ॥
विषापहः कर्मकारो दैवो ग्रामाङ्गमष्टधा ।
वणिजश्च कुलालाश्च नापिताः पुष्पजीविनः ॥ ३२।२ ॥
वादित्रजीविनः प्राणिजीविनश्चक्रजीविनः ।
वैदेहकास्तन्तुवायाः कर्मका रजका अपि ॥ ३२।३ ॥
चण्डाला अपि चेत्येते द्वादशाङ्गोपजीविनः ।
वारुण्यां वणिजां स्थानमिन्द्रदिश्यथवा भवेत् ॥ ३२।४ ॥
कुलालस्थानमैशान्यां सौम्ये चेन्द्रस्य वा दिशि ।
नापितानां द्वयेपि स्यादग्नेरिन्द्रस्य वा दिशि ॥ ३२।५ ॥
ऐशान्यामिष्यते पुष्पजीविनां स्थानमत्र तु ।
वादित्रजीविनां स्थानं सोमदेशे च कल्पितम् ॥ ३२।६ ॥
वारुण्यामथ वायव्यां नैरृत्यां प्राणिजीविनाम् ।
याम्यायां दिशि सौम्यायां चक्रिणां स्थानमिष्यते ॥ ३२।७ ॥
वैदेहकानां वायव्यां स्थानं प्रोक्तं शिवागमे ।
प्रोक्तं तु तन्तुवायानां स्थानं याम्यदिशि स्थितम् ॥ ३२।८ ॥
जात्युत्कर्षवशेनैव स्थानं युक्त्या प्रकल्पयेत् ।
उत्कृष्टानां समीपे स्यान्निकृष्टानां तु दूरतः ॥ ३२।९ ॥
आग्नेय्यामथ वायव्यां शतदण्डं व्यपोह्य तु ।
कर्मकाणां निवासः स्याद्रजकानां ततो बहिः ॥ ३२।१० ॥
चण्डालानां तु कर्तव्यं पूर्वस्यां विदिशासु च ।
चण्डालानां कुटीराणि क्रोशबाह्ये प्रकल्पयेत् ॥ ३२।११ ॥
ऐशान्यामथ वायव्यां श्मशानं प्राचि वोत्तरे ।
नद्यादौ विद्यमाने तु श्मशानं तीरदेशके ॥ ३२।१२ ॥
प्राच्यां प्रतीच्यां वायव्याम् ऐशान्यां सोमदिश्यथ ।
तटाकं कारयेत्कूपमन्यदिक्षु विवर्जयेत् ॥ ३२।१३ ॥
गोशाला दक्षिणे देशे पुष्पवाटी तथोत्तरे ।
अथवा सर्वकाष्ठासु वापीकूपतटाककाः ॥ ३२।१४ ॥
वैश्यानां परितो वासः शूद्राणां पितृके भवेत् ।
चण्डालकर्मकाराणां श्मशानोदक्प्रदेशयोः ॥ ३२।१५ ॥
हीनत्वपरिवृत्तिश्च ग्रामाङ्गानां विशेषतः ।
देववेश्मगृहादीनां मार्गस्य च विशेषतः ॥ ३२।१६ ॥
शोध्यानां संशये मार्गे निक्षिपेच्छून्यदेशके ।
श्लेष्मातकं वटञ्चापि कटकञ्चाप्युदुम्बरम् ॥ ३२।१७ ॥
आरग्वधं तथाश्वत्थं निम्बं प्लक्षञ्च वर्धयेत् ।
प्रदक्षिणक्रमादेतानीशानाद्यष्टदिक्ष्वपि ॥ ३२।१८ ॥
वृक्षा स्थाप्या बहिर्वास्तौ चैत्यवृक्षा भवन्त्यमी ।
एते दोषहराः प्रोक्ता गामादीनां विशेषतः ॥ ३२।१९ ॥
सहस्रादधिके विप्रे विप्रशक्त्या न दोषयुक् ।
बहिर्भङ्गलवीथ्यां तु पादपादार्धवर्धनात् ॥ ३२।२० ॥
वर्णान्तरगृहारामान्तरितामरमन्दिरम् ।
चतुरादिचतुष्पञ्चदण्डार्धार्धपदं पुनः ॥ ३२।२१ ॥
नीत्वा गृहवशात्कार्यं सप्रकारं सुरालयम् ।
एवं तु रौद्रदेवानां विमानं परिकल्पयेत् ॥ ३२।२२ ॥

॥ इति कामिकाख्ये महातन्त्रे ग्रामाद्यङ्गस्थाननिर्णयविधिस्त्रिंशः
पटलः ॥