२९ ब्रह्मदेवपदादिविधिः

अतः परं प्रवक्ष्यामि ब्रह्मदेवपदादिकम् ।
ग्रामाद्दशनवांशं वा अष्टसप्तांशमेव वा ॥ ३१।१ ॥
कृत्वा बहिश्च पैशाचमन्तर्मानुषमुच्यते ।
तदन्तर्दैविकं प्रोक्तं शिष्टं ब्राह्ममिति स्मृतम् ॥ ३१।२ ॥
ग्रामभूतं तुरीयांशं वस्वग्निमुनिभागिकम् ।
कृत्वा तेष्वेकभागं तु परितो वर्धयेद्गुरुः ॥ ३१।३ ॥
बहिर्मार्गमिति ज्ञेयं बाह्यं पैशाचमेव हि ।
दैवमानुषभागे तु वर्णानां वास इष्यते ॥ ३१।४ ॥
ब्रह्मपैशाचभागे तु देवतागारमिष्यते ।
पैशाचे न च कर्तव्यो वासः कर्मोपजीविनाम् ॥ ३१।५ ॥
अथवान्यप्रकारेण कथ्यते पण्डितोत्तमाः ।
वर्णानां वास इत्युक्ते ब्रह्मपैशाचिकांशके ॥ ३१।६ ॥
पदे पैशाचिके कुर्याद्दैवज्ञभिषजां गृहम् ।
अन्येषां कर्मिणां गेहं वास्तुपैशाचिके मतम् ॥ ३१।७ ॥
चिकित्सकानां वेश्म स्याद्ग्राममध्ये बहिस्तु वा ।
देवालयस्य पार्श्वे तु पूजकानां गृहं भवेत् ॥ ३१।८ ॥
बाह्ये पैशाचिके शास्ता रुद्रो मोटी च मातरः ।
अन्येषां वास्तुदेवानां पदपैशाचिके पदम् ॥ ३१।९ ॥
बाह्ये वाऽभ्यन्तरे वापि गणेशस्कन्दयोर्गृहम् ।

॥ इति कामिकाख्ये महातन्त्रे ब्रह्मदेवपदादिविधिः एकोनत्रिंशः
पटलः ॥