विन्यासस्य विशेषोऽयं ग्रामादीनामिहोच्यते ।
ग्रामः शरीरमङ्गं स्याद्देवमर्त्यपरिग्रहः ॥ ३०।१ ॥
उपाङ्गमिति बोद्धव्यं विमानभवनादिकम् ।
पदप्रस्तरसूत्रे वा मध्यसूत्रद्वयेऽपि च ॥ ३०।२ ॥
कर्णसूत्रद्वये चापि उपाङ्गं नैव कारयेत् ।
वीथ्यन्तरे गृहश्रेण्यां सीम्नि वा सूत्रवर्धनम् ॥ ३०।३ ॥
यथाभवेत्तथा कार्यं न कार्यं सूत्रपीडनम् ।
दण्डच्छेदो न कर्तव्यो ग्रामे वापि गृहायतौ ॥ ३०।४ ॥
उपाङ्गायामविस्तारे दण्डच्छेदोऽपि योज्यते ।
अन्यत्र दण्डं न छिद्याच्छरीरे तु विशेषतः ॥ ३०।५ ॥
बाह्यश्रेणीषु वृद्धिश्च दण्डच्छेदश्च वीथिषु ।
पदशेषयुतं वेश्म छिन्नदण्डं गृहादिकम् ॥ ३०।६ ॥
इष्टमानं च वीथीनां वास्तुकर्मणि शस्यते ।
श्रेण्यन्तरेषु तत्रैव पदशेषं समापयेत् ॥ ३०।७ ॥
चण्डालानां प्रवेशाय निर्गमाय मलस्य च ।
जलस्य निर्गमार्थं तु क्षुद्रमार्गाः प्रशंसिताः ॥ ३०।८ ॥
ग्रामेषु यः कृतो दोषो राज्ञो ग्रामस्य सर्वतः ।
अङ्गेषु यः कृतो दोषो ग्रामस्य हि जनस्य तु ॥ ३०।९ ॥
प्रत्यङ्गे यः कृतो दोषस्तत्रस्थानां विशेषतः ।
वास्तुनः सर्वमर्मादि त्यक्त्वान्यत्र वसेन्नरः ॥ ३०।१० ॥
त्रिशूले गर्भनाशं स्याच्चतुष्के प्रेष्यनाशनम् ।
मरणं मर्मणि ज्ञेयं सन्धौ मित्रार्थनांशनम् ॥ ३०।११ ॥
चतुष्के नित्यरोगः स्याल्लाङ्गले मित्रनाशनम् ।
मरणं ब्रह्मसूत्रे तु कर्णसूत्रेऽर्थनाशनम् ॥ ३०।१२ ॥
(पृ० ८५)
पदप्रस्तरसूत्रे च पुरनाशो भवेद्ध्रुवम् ।
युग्मायुग्मविभागेन विन्यासो विविधो मतः ॥ ३०।१३ ॥
युग्ममार्गास्तु सूत्रस्था अयुग्माः पदमध्यगाः ।
अन्योन्यसङ्करो यस्मादशुभं स्याज्जनेषु च ॥ ३०।१४ ॥
अयं विभागः कथितो वास्तौ दण्डकसञ्ज्ञके ।
ब्रह्मस्थाने सभादीनि कल्पयेद्विधिना बुधः ॥ ३०।१५ ॥
सोमेशानान्तरे सूत्रं याम्यनैरृतमध्यमे ।
तन्मुक्त्वा पार्श्वयोः कार्यं सभास्थानसमृद्धये ॥ ३०।१६ ॥
व्यपोह्य मध्यमं भागं वापीकूपञ्च मण्टपम् ।
वायव्ये नैरृते चैशे कुर्याद्वै देवतालयम् ॥ ३०।१७ ॥
ऐशं चेदीशभागे तु चान्यस्मिन् वैष्णवं भवेत् ।
ब्राह्मं वा मध्यमे भागे पीठं वा परिकल्पयेत् ॥ ३०।१८ ॥
ग्रामादेर्ब्रह्मसूत्रस्य पश्चिमायां विशेषतः ।
उत्तरे मानुषे भागे विष्णुं संस्थापयेद्बुधः ॥ ३०।१९ ॥
यमस्य पूर्वसूत्रे स्यान्मानुषे स्कन्द एव च ।
इन्द्रसूत्रादुदीच्यां तु सूर्यं संस्थापयेत्सुधीः ॥ ३०।२० ॥
सोमसूत्रं ततः पूर्वे मानुषे च विनायकम् ।
दुर्गा वा तत्र कर्तव्या स्कन्दपार्श्वेऽथवा भवेत् ॥ ३०।२१ ॥
बहिर्मङ्गलवीथ्यास्तु पैशाचे वा पकल्पयेत् ।
॥ इति कामिकाख्ये महातन्त्रे ग्रामादिविन्यासविधिः अष्टाविंशतितमः
पटलः ॥