(पृ० ८४)
द्विजादीनां च सङ्ख्येह वक्ष्यते शृणुत द्विजाः ।
ज्येष्ठमध्यकनिष्ठाश्च क्षुद्राश्चेति चतुर्विधाः ॥ २९।१ ॥
प्रत्येकं नवधा प्रोक्ता वक्ष्यमाणप्रमाणतः ।
चतुर्दशसहस्रात्तु षट्सहस्रद्विजान्तकम् ॥ २९।२ ॥
सहस्रहीनं नवकं चतुष्केषूत्तमं द्विजाः ।
ततः पञ्चसहस्रात्तु सहस्रान्तं यथाक्रमम् ॥ २९।३ ॥
हीनं पञ्चशतेनैव मध्यमं नवकं बुधाः ।
शतहीनसहस्रात्तु यावत्पञ्चदतान्तकम् ॥ २९।४ ॥
शतार्द्धेन क्रमेणैव कनीयक्षुद्रयोर्मतम् ।
अथवान्यप्रकारेण वक्ष्यते शृणुत द्विजाः ॥ २९।५ ॥
अष्टोत्तरशतं चान्यद्वर्धयेद्दशसङ्ख्यया ।
लक्षान्तं सङ्गृहीतव्यं तेषु शक्त्यैकमाचरेत् ॥ २९।६ ॥
अशक्तश्चेद्दशाद्यष्टशतान्तं पञ्चसङ्ख्यया ।
वर्धयेदतिहीनं चेदेकस्मादेव वर्धनात् ॥ २९।७ ॥
दशान्तं वाथ कर्तव्यं तेषु चेष्टं समाचरेत् ।
द्वात्रिंशद्वा चतुर्विंशत् षोडश द्वादशैव वा ॥ २९।८ ॥
चतुरुत्तरपञ्चाशत्सङ्ख्याका वा प्रकीर्तिताः ।
॥ इति कामिकाख्ये महातन्त्रे द्विजसङ्ख्याविधिः सप्तविंशः पटलः ॥