ग्रामादौ देवतास्थानं वक्ष्ये सर्वं सनातनम् ।
ब्रह्मस्थानस्य वायव्यां विष्णुस्थानं प्रकीर्तितम् ॥ २८।१ ॥
वारुण्यां वास्तुनो ब्रह्मा सूत्रस्योत्तरदेशके ।
ग्राममध्ये तदीशान्यामष्टदिक्षु शिवो मतः ॥ २८।२ ॥
हरिहरयुतं वास्तु केवलेन हरेण वा ।
अन्यत्सर्वं यथेष्टं स्थात्तेषां स्थानमिहोच्यते ॥ २८।३ ॥
वारुण्यामिन्द्रकाष्ठायामिन्द्रेशानान्तरेऽथवा ।
रविस्थानं भवेत्तत्र स्थानं वापि शचीपतेः ॥ २८।४ ॥
वायव्यामिन्द्रकाष्ठायां याम्यकाग्नेयनैरृते ।
सुग्रीवे वारुणे वापि षण्मुखस्थानमीर्तितम् ॥ २८।५ ॥
वारुण्यां नैरृताविन्द्रे शास्तुः स्थानं प्रकीर्तितम् ।
वारुण्यां वाथ नैरृत्यां वायुसोमान्तरेऽथवा ॥ २८।६ ॥
अन्यत्र च गणेशस्य स्थानमुक्तमिहागमे ।
यमे वा नैरृते भागे वायव्यामिन्द्रमध्यमे ॥ २८।७ ॥
नैरृत्यन्तकयोर्वापि दुर्गास्थानं प्रकीर्तितम् ।
वारुण्यां श्रीसरस्वत्योः स्थानमुक्तं शिवाश्रिताः ॥ २८।८ ॥
ऐशान्यां सोमभागे वा तयोर्मध्ये तु मातरः ।
आग्नेयां मोटिकास्थानं कामदेवस्य तत्र वै ॥ २८।९ ॥
ज्येष्ठा पुष्करणीतीरे स्थाप्यान्यत्र बहिस्तु वा ।
कामभास्करयोर्वास्तु षण्मुखस्थानमुच्यते ॥ २८।१० ॥
षण्मुखस्य तु मातॄणां स्थानमन्यद्यथेप्सितम् ।
सहस्रादधिके विप्रे मध्ये विष्णुगृहं तु वा ॥ २८।११ ॥
शिवपूजायुतं वास्तु नान्यच्छास्त्रस्य निश्चयः ।
श्रीपतेः पूजया नित्यं प्रजावृद्धिर्भविष्यति ॥ २८।१२ ॥
सूर्यस्य पूजया नित्यं गृहपीडा विनश्यति ।
इन्द्रपूजा मनुष्याणां प्रभावं सम्प्रयच्छति ॥ २८।१३ ॥
सुब्रह्मण्यार्चनं नित्यं बलानां हितकृद्भवेत् ।
शास्तृपूजा स्वकृत्येषु नियुङ्क्ते वास्तुवासिनः ॥ २८।१४ ॥
कामस्य पूजा कुरुते सौन्दर्यं वास्तुवासिनाम् ।
उमा पूजा विशेषण विजयं सम्प्रयच्छति ॥ २८।१५ ॥
पूजिता चेन्महामोटी बालरोगविनाशिनी ।
सर्वसिद्धिरविघ्नेन विघ्नेशस्य सपर्यया ॥ २८।१६ ॥
ज्येष्ठापूजा विशेषेण रोगघ्नी वास्तुवासिनाम् ।
लक्ष्मीपूजा श्रियं दद्यादलक्ष्मीं च व्यपोहति ॥ २८।१७ ॥
वाग्विभूतिं सरस्वत्याः पूजा नित्यं प्रयच्छति ।
मातृपूजा सदा सर्वसम्पदं कुरुते द्विजाः ॥ २८।१८ ॥
सर्वेषां पूजया यन्त्तत्फलं दद्यान्महेश्वरः ।
तस्मान्महेश्वरो नित्यं पूजनीयः फलार्थिभिः ॥ २८।१९ ॥
ऐशान्यां स्थापितं लिङ्गमुत्तमं त्विति कीर्तितम् ।
अन्यत्र मध्यमं प्रोक्तं लिङ्ग संस्थापितं द्विजाः ॥ २८।२० ॥
(पृ० ८३)
ग्राममध्ये हरेः स्थानमुत्तमं परिकीर्तितम् ।
पश्चिमे मध्यमं विद्यादधमं चान्यदेशके ॥ २८।२१ ॥
ईशविष्ण्वोस्तु मूर्तिः स्याद्द्विविधा परिकीर्तिता ।
उग्रा शान्ता च तत्राद्या उग्रकर्मरता मता ॥ २८।२२ ॥
शान्तकर्मरताशान्ता मूर्ती रौद्री तु बाह्यगा ।
शान्ता तु मध्यगा प्रोक्ता ग्रामादौ सर्ववास्तुनि ॥ २८।२३ ॥
करिकामपुरारिस्तु कालारिस्त्वैवमादयः ।
उग्रास्तु मूर्तयः प्रोक्तः शेषाः शान्ता उदाहृताः ॥ २८।२४ ॥
विश्वरूपं नृसिंहं च वटशायिनमेव च ।
जामदग्न्यं च जानीयादुग्रं वैष्णवविग्रहम् ॥ २८।२५ ॥
ग्रामादेर्बाह्यदेशे तु काननादौ प्रकीर्तिताः ।
रौद्राणामिह देवानां स्थापने फलमुच्यते ॥ २८।२६ ॥
पूर्वे चेद्ग्रामनाशं स्याद्वह्नौ दुःशीलगाः स्त्रियः ।
नाशस्तु याम्यदेशे तु प्रेतदैत्यादिभिर्भृशम् ॥ २८।२७ ॥
रोगैस्तु नैरृते नाशं शोकः स्याद्वरुणांशके ।
दुःस्थितिं पावने विद्याद्राष्ट्रसंस्थां तु सौम्यके ॥ २८।२८ ॥
सर्वसम्पत्तिरैशान्यां पुत्रपौत्रविवर्धनम् ।
ग्रामे त्वेवं समाख्यातं सर्वत्रान्येषु वा मता ॥ २८।२९ ॥
ग्रामे कुड्यान्तरस्थानेष्वष्टदिक्ष्वपि शस्यते ।
न मध्ये स्थापयेद्रुद्रमूर्तिं ग्रामे विशेषतः ॥ २८।३० ॥
रुद्रमूर्तिः स्थिता चेत्तु ग्रामादौ तु तदग्रके ।
शान्तमूर्तिप्रतिष्ठां तु कारयेद्देशिकोत्तमः ॥ २८।३१ ॥
तटाकं कारयेद्वापि तेन शान्तिर्विधीयते ।
अग्रहाराद्विनान्येषु स्थानीयादिषु वास्तुषु ॥ २८।३२ ॥
प्रागादिषु चतुर्दिक्षु वायावीशे शिवालयः ।
तथैव शेषदेशे च पर्जन्यांशे जयन्तके ॥ २८।३३ ॥
वामनेत्रेक्षणं तत्र सर्वसम्पत्समृद्धिदम् ।
ईक्षणं सकलानां तु ऐहिकामुष्मिकावहम् ॥ २८।३४ ॥
पादपादं तदर्धं वा त्रिपादं पादमेव वा ।
एकदण्डं समारभ्य पञ्चदण्डावसानकम् ॥ २८।३५ ॥
नीत्वा तु स्थापयेद्बाह्ये रुद्रमूर्तिनिकेतने ।
एवं तु कथितं रुद्रमूर्तीनां स्थापने फलम् ॥ २८।३६ ॥
शान्तमूर्तिप्रतिष्ठायां फलमद्य निगद्यते ।
ब्रह्मस्थाने स्थितं लिङ्गं विप्रक्षत्रियशोभनम् ॥ २८।३७ ॥
ऐन्द्रं सर्वप्रदं लिङ्गं याम्ये वृद्धिस्तथायुषः ।
आरोग्यं वारुणं लिङ्गं सौम्यं वित्तप्रदं भवेत् ॥ २८।३८ ॥
वह्निदेशे सुखं दद्याद्विजयं निरृतौ शिवः ।
वायव्ये सम्पदो दद्यात्सर्वमीशानगोचरे ॥ २८।३९ ॥
अन्तरालेषु सर्वेषु फलमेवं विनिर्दिशेत् ।
सोमे चैशानके वापि सोमेशानान्तरालके ॥ २८।४० ॥
इन्द्रेशानान्तराले च शिवलिङ्गं स्थितं यदि ।
ग्रामादेरभिवृद्धिः स्याद्राज्ञो राष्ट्रस्य चैव हि ॥ २८।४१ ॥
सौभाग्यमायुरारोग्यं भवत्येव न संशयः ।
॥ इति कामिकाख्ये महातन्त्रे ग्रामादिदेवतास्थानविधिः षड्विंशः
पटलः ॥