वीथीद्वारादिमानं तु प्रवक्ष्याम्यनुपूर्वशः ।
ब्रह्मभागावृतावीथिर्नाभिवीथीति कथ्यते ॥ २७।१ ॥
राजवीथीति विख्याता ग्रामादेर्बहिरावृता ।
सैव मङ्गलवीथीति रथवीथीति चोच्यते ॥ २७।२ ॥
प्राङ्मुखा वीथयः सर्वा नाराचाख्या इति स्मृताः ।
ता एव जनवीथ्यः स्युः क्षुद्रास्तिर्यग्गता मता ॥ २७।३ ॥
पाददण्डं समारभ्य पादपादविवर्धितम् ।
स्यादेकादशदण्डान्तं वीथिमानमिहागमे ॥ २७।४ ॥
मार्गमानं च तावत्स्यान्न द्वारं वीथिकाग्रके ।
हित्वा मङ्गलवीथ्यग्रं नाभिं न प्रोतयेत्क्वचित् ॥ २७।५ ॥
भल्लाटे पुष्पदन्ते च महेन्द्रे च गृहक्षते ।
चतुर्द्वारं प्रकर्तव्यं सर्वेषामपि वास्तुनाम् ॥ २७।६ ॥
महेन्द्रे सत्यके चैव पदे प्राग्द्वारमुत्तमम् ।
गृहक्षतपदे चैव गन्धर्वे दक्षिणे शुभम् ॥ २७।७ ॥
असुरे पुष्पदन्ते च पश्चिमद्वार उच्यते ।
मुख्यभल्लाटयोः स्थाने चोत्तरद्वार उच्यते ॥ २७।८ ॥
पर्जन्ये च भृशे पूष्णि भृङ्गराजे जलेशके ।
शेषे नागेऽदितौ स्थानमुदग्द्वारेषु कीर्तितम् ॥ २७।९ ॥
दण्डत्रयं समारभ्य चैकदण्डविवर्धनात् ।
तिथिदण्डावसानं तु गृहक्षेत्रविशालता ॥ २७।१० ॥
(पृ० ८२)
तत्रैव हस्तमानेन गेहं कुर्याद्विचक्षणः ।
अथवा हस्तमानेन गृहविस्तार उच्यते ॥ २७।११ ॥
पञ्चहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ।
एकषष्टिविशालं तु गृहक्षेत्रविशालता ॥ २७।१२ ॥
आयामं ग्रामदण्डेन हस्तच्छेदविवर्जितम् ।
चतुः शालागृहं श्रेष्ठं त्रिशालं मध्यमं भवेत् ॥ २७।१३ ॥
द्विशालमधमं प्रोक्तं हीनं स्यादेकशालकम् ।
॥ इति कामिकाख्ये महातन्त्रे वीथिद्वारादिमानविधिः पञ्चविंशः
पटलः ॥