२४ दण्डिकादिविधिः

दण्डिकादिविधिं वक्ष्ये शृणुत ज्ञानकाङ्क्षिणः ।
दण्डिकं स्वस्तिकञ्चान्यत्प्रस्तरं च प्रकीर्णकम् ॥ २६।१ ॥
सम्पत्करं पराकं च पद्मकं श्रीप्रतिष्ठितम् ।
श्रीवत्सं वैदिकं चैव नन्द्यावर्तं च कुम्भकम् ॥ २६।२ ॥
एवं द्वादशधा प्रोक्ता ग्रामादेराकृतिस्त्विह ।
कुम्भकं वैदिकं चैव दण्डिकं च विशेषतः ॥ २६।३ ॥
जानीयात्पत्तनादौ तु शुभमेतन्न संशयः ।
पूर्वाग्रमुत्तराग्रं वा वीथिं कृत्वोभयोर्बुधः ॥ २६।४ ॥
गृहाणि पार्श्वयोः कुर्यादेकस्मिन् पार्श्वकेऽपि वा ।
एकवीथिसमायुक्तं वीथिद्वयसमायुतम् ॥ २६।५ ॥
वीथित्रयसमायुक्तं पूर्वाग्रञ्चोत्तराग्रकम् ।
कर्तरीकृतदण्डाभं वाथ कुर्यात्तु दण्डिकम् ॥ २६।६ ॥
पूर्वाग्रमुत्तराग्रं च कृत्वा वीथिद्वयं द्वयम् ।
उदगग्रैर्नवान्यैश्च मार्गैर्युक्तं तु तद्भवेत् ॥ २६।७ ॥
दक्षिणाभिमुखो भूत्वा पूर्ववीथ्यास्तु निर्गमः ।
पश्चिमाभिमुखश्चैव दक्षिणस्यां तु निर्गमः ॥ २६।८ ॥
उत्तराभिमुखो भूत्वा पश्चिमायां विनिर्गमः ।
प्राङ्मुखस्तु ततो भूत्वा सौम्यवीथ्यास्तु निर्गमः ॥ २६।९ ॥
एवं हि यत्कृतं वास्तु स्वस्तिकं त्वभिधीयते ।
एवमेव तु सर्वेषां ग्रामादीनां विनिर्गमः ॥ २६।१० ॥
त्र्यादिपञ्चदशान्ताभिरुदीचीनाभिरन्वितम् ।
तिसृभिः प्राङ्मुखाभिस्तु प्रस्तरं त्विह कथ्यते ॥ २६।११ ॥
चतुर्वीथि समारभ्य सप्तदशसमावधि ।
उदीचीभिः समायुक्तं प्राङ्मुखाभिश्चतसृभिः ॥ २६।१२ ॥
एतत्प्रकीर्णकं प्रोक्तमुदीचीनैस्तु पञ्चभिः ।
एकविंशतिसङ्ख्यातैः प्राङ्मुखाभिश्च पञ्चभिः ॥ २६।१३ ॥
सम्पत्करमिहोद्दिष्टं पराकञ्च वदाम्यहम् ।
षड्वीथिकां समारभ्य त्रयोविंशतिकावधि ॥ २६।१४ ॥
एकैकवीथिवृद्ध्या तु उदीचीनाभिरन्वितम् ।
षड्भिश्च प्राङ्मुखाभिश्च पराकं त्विह कीर्त्यते ॥ २६।१५ ॥
सप्तवीथि समारभ्य चैकोनत्र्यंशकावधि ।
उदङ्मुखाभिर्वीथीभिर्युक्तं प्राङ्मुखमार्गकैः ॥ २६।१६ ॥

(पृ० ८१)

सप्तभिः पद्मकं प्रोक्तम् एष्विष्टं परिगृह्यताम् ।
अष्टभिः प्राङ्मुखैर्मार्गैरुदीचीनैस्तदादितः ॥ २६।१७ ॥
षट्त्रिंशदंशसङ्ख्यातैः प्राङ्मुखैरष्टभिर्युतम् ।
श्रीप्रतिष्ठितमित्युक्तं तस्मिन्निष्टं प्रगृह्यताम् ॥ २६।१८ ॥
प्रागग्रैरुदगग्रैश्च मार्गैरिष्टैः समन्वितम् ।
श्रीवत्समिति निर्दिष्टं सर्ववास्तुषु योग्यकम् ॥ २६।१९ ॥
चतुरश्रायताश्रं वा कृत्वा कोणेषु मध्यमे ।
पुष्पदन्तादिके वापि यथेष्टं द्वारसम्मितम् ॥ २६।२० ॥
उभयोः पार्श्वयोर्वापि एकपार्श्वेऽथवा पुनः ।
गृहवीथिसमायुक्तं चैतद्वैदिकमुच्यते ॥ २६।२१ ॥
तदेव विप्रभूपालवैश्यशूद्रगृहावृतम् ।
प्रधानं वाप्रधानं वा सर्वत्र विहितं त्विह ॥ २६।२२ ॥
क्षेत्रावृतं तु वा कार्यमारामाद्यावृतं तु वा ।
एतच्च वैदिकं प्रोक्तमन्तर्बाह्यविभागतः ॥ २६।२३ ॥
अनेकावलिसंयुक्तं चापि वैदिकमुच्यते ।
परितोऽपि समं कृत्वा मार्गैः पूर्वोत्तराननैः ॥ २६।२४ ॥
एकानेकैर्यथेष्टैस्तु प्रागुक्तैस्तच्च वैदिकम् ।
विधाय वीथिं नाभ्याख्यां निर्गमैश्च समन्विताम् ॥ २६।२५ ॥
स्वस्त्याकारैर्बहिस्तस्या महावीथिसमन्विताम् ।
नाभौ विनिर्मितास्तिस्रः पञ्च सप्त नवाथवा ॥ २६।२६ ॥
युग्माभिरेव कर्तव्यं नन्द्यावर्तमिति स्मृतम् ।
वृत्ताकारैस्तु मार्गैश्च एकानेकैः समन्वितम् ॥ २६।२७ ॥
प्रागुत्तरमुखैर्मार्गैरनेकैर्मध्यमैर्युतम् ।
कुम्भकञ्चेति निर्दिष्टमनेकैः कोणकैर्युतम् ॥ २६।२८ ॥
अष्टाग्रैर्वा बहिर्मार्गैर्युक्तं कुम्भकमुच्यते ।
नगरीपत्तनादौ तु विहितं त्विह कामिके ॥ २६।२९ ॥

॥ इति कामिकाख्ये महातन्त्रे दण्डिकादिविधिः चतुर्विंशः पटलः ॥