२३ नक्षत्रचक्रविधिः

नक्षत्रचक्रं वक्ष्यामि नामनक्षत्रसिद्धये ।
आदौ शतपदं कृत्वा पर्यन्तेशानकोष्ठकात् ॥ २५।१ ॥
आरभ्य दक्षमार्गेण न्यसेद्वर्णाननुक्रात् ।
पञ्चतत्त्वं तथाग्नेयकोणात्पश्चिममार्गतः ॥ २५।२ ॥
पितुरुत्तरमार्गेण वायोः पूर्वमुखेन च ।
वर्णान् विंशतिसङ्ख्याकान् क्रमेणैवं तु विन्यसेत् ॥ २५।३ ॥
अपहकट इत्येवमवटपर एव च ।
नयभजखवर्णश्च गजदचल एव च ॥ २५।४ ॥
ईशानमण्डले कुर्यात्पञ्चविंशतिकोष्ठके ।
पश्चिमाभिमुखं पूर्वं लिखितानां तृतीयकम् ॥ २५।५ ॥
पञ्चमं नाम नक्षत्रं स्वेन युक्तान् स्वरान्न्यसेत् ।
एकादश न्यसेत्पश्चात्प्रान्ते न्यसेत्त्रयोदश ॥ २५।६ ॥
अकारश्च इकारश्च उश्च एकार एव च ।
कृत्तिका कथिता तावदो वा वो वू चतुष्टयम् ॥ २५।७ ॥
रोहिणी कथिता शास्त्रे वे वो का की तथैव च ।
चन्द्रभं कुश्च आर्द्रा स्यात्पञ्चविंशतिमध्यमे ॥ २५।८ ॥
के च को च तथा हा च हीकारश्च पुनर्वसुः ।
हुश्च हेश्च तथा होश्च डश्च पुष्यः प्रकीर्तितः ॥ २५।९ ॥
अवशिष्टैरथाश्लेषान्नामधेयं प्रकल्पयेत् ।
अनेन क्रमयोगेन सर्वमत्र समाचरेत् ॥ २५।१० ॥
आर्द्रायुक्ते कुकोष्ठे च घङच्छाननुयोजयेत् ।
हस्तयुक्ते च कोष्ठे च पूषणाठान् परिकल्पयेत् ॥ २५।११ ॥
पूर्वाषाढां बुकोष्ठे च ध फा ढान् विन्यसेद्गुरुः ।
भेचोत्तराभाद्रपदे दूथाझाञान् तथा नयेत् ॥ २५।१२ ॥
नकारग्रहणेनैव ज्ञकारः स्वीकृतस्त्विह ।
अकारग्रहणेनैव आकारः स्वीकृतस्त्विह ॥ २५।१३ ॥
इकारग्रहणेनैव ईकारः स्वीकृतस्त्विह ।
उकारग्रहणेनैव ऊकारः स्वीकृतस्त्विह ॥ २५।१४ ॥

(पृ० ८०)

एकारग्रहणेनैकाराद्याः पञ्च समाहृताः ।
एवमन्यत्र चोन्नेयं नामनक्षत्रकल्पनात् ॥ २५।१५ ॥
ग्रामेक्षत्रियसेवायां युद्धे च व्यवहारके ।
नामर्क्षं योजयेद्विद्वान्नामान्तरपरिग्रहात् ॥ २५।१६ ॥
अन्यस्मिन् जन्मऋक्षं वा वास्तुकर्मण्युभावापि ।
एवं नक्षत्रचक्रञ्च युष्माकं कथितं मया ॥ २५।१७ ॥
अनेनैवानुकूल्यं च विज्ञेयं स्याद्विचक्षणैः ।
विपदि प्रत्यरे चैव वधे चैव यथाक्रमात् ॥ २५।१८ ॥
प्रथमांशतृतीयांशादृते शेषास्तु शोभनाः ।
तृतीये चापि पर्याये चोत्तमं परिपठ्यते ॥ २५।१९ ॥
द्वितीये मध्यमे चैव प्रथमं कन्यसं स्मृतम् ।
गणञ्चासुरमानुष्यं वर्जयेच्छुभमन्यथा ॥ २५।२० ॥
एवं जन्मर्क्षके नामनक्षत्रे च प्रकल्पयेत् ।

॥ इति कामिकाख्ये महातन्त्रे नामनक्षत्रविधिः त्रयोविंशः पटलः ॥