२२ आयादिलक्षणविधिः

अतः परं प्रवक्ष्यामि आयादीनां तु लक्षणम् ।
विस्तारेणाभ्यसेद्दैर्घ्यं त्रिगुणं चाष्टभिर्हृतम् ॥ २४।१ ॥
शेषं ध्वजादिकं शास्त्रे योन्यष्टकमुदाहृतम् ।
ध्वजो धूमः श्वसिंहौ च वृषः खरगजोत्तमौ ॥ २४।२ ॥
ध्वाङ्क्षेण योनयश्चाष्टौ ध्वजसिंहवृषे गजः ।
शस्ताः स्युर्निन्दिताश्चान्ये धूमाद्या योनयस्त्विह ॥ २४।३ ॥
तमेवाष्टगुणं कृत्वा सप्तविंशतिभिर्भजेत् ।
शिष्टमश्वयुजाद्यं तु नक्षत्रमिह कीर्तितम् ॥ २४।४ ॥
कर्तुर्जन्मर्क्षमारभ्य त्रिदिनं पञ्चसप्तकम् ।
त्रयोदशदिनं त्याज्यं तथा पञ्चदशोडुकम् ॥ २४।५ ॥
दिनं सप्तदशं चाष्टादश द्वाविंशकं दिनम् ।
सप्तविंशतिनक्षत्रं त्याज्यमन्यच्छुभं स्मृतम् ॥ २४।६ ॥
राज्ञां ग्रामस्य कर्तुश्च जन्मर्क्षेणाविरोधि यत् ।
तदेव चात्र सङ्ग्राह्यं विपरीतं परित्यजेत् ॥ २४।७ ॥
जन्मर्क्षेण युतं वापि कारयेद्वास्तुशास्त्रवित् ।
नामजन्मर्क्षयोरानुकूल्यश्चोत्तम उच्यते ॥ २४।८ ॥
एकोनं मध्यमं प्रोक्तं विपरीतं परित्यजेत् ।
नक्षत्रस्य फलं यत्तु वयस्तस्य प्रकीर्तितम् ॥ २४।९ ॥
ध्वजादीनां वशेनाथ वयस्तत्र प्रकल्पयेत् ।
सकलञ्चाष्टभिर्हन्यादायः सोऽप्यन्यथोच्यते ॥ २४।१० ॥
सकलं चाष्टभिर्भक्त्वा भजेद्द्वादशभिर्गुरुः ।
शिष्टस्त्वायः समाख्यातो व्ययस्तत्र प्रकीर्त्यते ॥ २४।११ ॥
संस्थाप्य लब्धनक्षत्रमष्टभिर्विभजेद्बुधः ।
व्ययः शिष्ट इह प्रोक्तस्त्वन्यथापि च कथ्यते ॥ २४।१२ ॥

(पृ० ७९)

सकलं त्रिगुणीकृत्य मानसूत्रैर्भजेद्व्ययम् ।
आयाधिक्यं तु शुभदं समं हीनं च वर्जयेत् ॥ २४।१३ ॥
विस्तारायामराशिं तु वसुभिर्गणयेद्बुधः ।
त्रिंशद्भिर्विभजेच्छिष्टं तिथिनागावटैस्तु वा ॥ २४।१४ ॥
त्रिगुणं सकलं कृत्वा मुनिना वार उच्यते ।
पर्यन्तावटकेनाथ वारं सङ्कल्पयेद्बुधः ॥ २४।१५ ॥
राशयश्चांशका ये तु नक्षत्रवशगा मताः ।
अष्टद्वादशकौ वर्ज्यौ शेषाः श्रेष्ठाश्च राशयः ॥ २४।१६ ॥
शुभग्रहांशकाः शस्तास्त्वितरास्त्विह निन्दिताः ।
विस्तारेणाभ्यसेद्दैर्घ्यं तादृशीमथवा पुनः ॥ २४।१७ ॥
विस्तारायामसंयुक्तं राशिं वाथ निरीक्षयेत् ।
चतुरश्रायताश्राणां सकलेनैव योजयेत् ॥ २४।१८ ॥
अन्यासामाकृतीनां तु नाहायामविशालकैः ।
कुम्भकस्य विशालार्धं नाहार्धेन न्यसेद्बुधः ॥ २४।१९ ॥
सकलं कुम्भकं प्रोक्तं तेन चायादिकं न्यसेत् ।

॥ इति कामिकाख्ये महातन्त्रे आयादिलक्षणविधिः द्वाविंशः पटलः ॥