२१ विस्तारायामलक्षणविधिः

(पृ० ७८)

विस्तारायाममानं तु ग्रामादीनामिहोच्यते ।
पञ्चदण्डं समरभ्य दण्डाभ्यां वर्धयेत्क्रमात् ॥ २३।१ ॥
एकोनत्रिसहस्रान्तं तदूर्ध्वं नेष्यते बुधैः ।
अधमे तु तदूर्ध्वं तु तत्समं चोत्तमं भवेत् ॥ २३।२ ॥
एवं विस्तारमाख्यातं ग्रामादीनां समासतः ।
कुटुम्बभूमिमानं तु वाटक्षेत्रविवर्जितम् ॥ २३।३ ॥
प्रमाणं कथितं शास्त्रे तद्बाह्ये वाटभूर्मता ।
चतुरश्रार्धभागं वा चतुर्भागमथापि वा ॥ २३।४ ॥
त्रिपादं वा द्विपादं वा त्रिद्व्यंशा वा विशालतः ।
पञ्चषट्सप्तमूर्त्यंशपङ्क्तिभागमथापि वा ॥ २३।५ ॥
चतुर्दण्डात्समारभ्य दण्डाभ्यां वर्धयेत्क्रमात् ।
त्रिगुणान्तप्रमाणेन चायामं परिकल्पयेत् ॥ २३।६ ॥
ब्राह्मणानां समम् शस्तमन्येषामायताश्रकम् ।
सर्वं देवे च विप्रे च सामान्यमिह कीर्तितम् ॥ २३।७ ॥

॥ इति कामिकाख्ये महातन्त्रे विस्तारायामलक्षणविधिः एकविंशः
पटलः ॥