२० ग्रामादिलक्षणविधिः

(पृ० ७७)

वक्ष्यामि लक्षणं ग्रामनगर्यादेः समाहितः ।
यथावद्विहितं वास्तु न त्यजन्ति हि देवताः ॥ २२।१ ॥
पिशाचप्रेतरक्षांसि पीडां कर्तुं न शक्नुयुः ।
तत्र कालपरीक्षादि प्रागुक्तविधिनाचरेत् ॥ २२।२ ॥
विप्रैर्विद्वद्भिराभोग्यं मङ्गलं चेति कीर्तितम् ।
अग्रहारस्तदेवोक्तं विप्रेन्द्राः कामिकाह्वये ॥ २२।३ ॥
विप्रैरथान्यैर्वर्णैर्वा भोग्यो ग्राम उदाहृतः ।
एको ग्रामणिको यत्र सभृत्यपरिचारकः ॥ २२।४ ॥
कुटिकं तद्विजानीयादेकभोगः स एव तु ।
जनैः परिवृतं द्रव्यक्रयविक्रयकादिभिः ॥ २२।५ ॥
अनेकजातिसंयुक्तं कर्मकारैः समन्वितम् ।
सर्वदैवतसंयुक्तं नगरं चाभिधीयते ॥ २२।६ ॥
वणिजामपि भोग्यं तु तद्वदेव समीरितम् ।
यत्स्थानं ब्राह्मणानां तु खर्वटं पुरवासिनाम् ॥ २२।७ ॥
तेषामेव वनस्थानं तद्वदेव समीरितम् ।
क्रयविक्रयसंयुक्तमब्धितीरसमाश्रितम् ॥ २२।८ ॥
देशान्तरागतजनैर्नानाजातिभिरन्वितम् ।
पट्टणं तत्समाख्यातं वैश्यैरध्युषितं तु यत् ॥ २२।९ ॥
नगर्यावर्तनं यत्तत्खर्वटं तदुदाहृतम् ।
वने जनपदे चैव केवले शूद्रसेवितः ॥ २२।१० ॥
कर्णकः खेटको ग्रामः क्रमात्त्रिविध ईरितः ।
सामन्तानां समृद्धानां यत्स्थानं शिबिरं स्मृतम् ॥ २२।११ ॥
गजवाजिसमायुक्तं सेनास्थानं तदेवहि ।
राजवेश्मसमायुक्तं सर्वजातिसमन्वितम् ॥ २२।१२ ॥
गुह्यप्रदेशसंयुक्तं सेनामुखमिहोच्यते ।
आगन्तुकानां सर्वेषां नैष्ठिकानां निवासभूः ॥ २२।१३ ॥
अन्नपानीयसंयुक्तः केवलो वा मठो मतः ।
विद्यास्थानं तु तद्वत्स्याद्बहुसेनासमन्वितम् ॥ २२।१४ ॥
राजवेश्मसमायुक्ता राजधानीति कथ्यते ।
ग्रामादीनां समीपं यत्स्थानं कुब्जमिति स्मृतम् ॥ २२।१५ ॥
तदेव चेरिका प्रोक्ता नगरीतन्तुवायभूः ।
सर्वेषामपि चैतेषां ग्रामादीनां समीरितम् ।
विस्तारायाममानं तु सर्वेषां तु सनातनम् ॥ २२।१६ ॥
शास्त्रेऽस्मिन् प्रोच्यते तच्च क्रमेण परिपठ्यते ।

इति कामिकाख्ये महातन्त्रे गामादिलक्षणविधिः विंशतितमः पटलः ॥