(पृ० ७५)
अथ वक्ष्ये विशेषेण वास्तुदेवबलिक्रियाम् ।
रात्रौ कुर्याद्बलिं विद्वानह्नि ग्रामादिवास्तुषु ॥ २१।१ ॥
रात्रौ वाथ दिवावाथ गृहदेवालयादिषु ।
सुस्नातो नववस्त्रस्तु सोष्णीषः सोत्तरीयकः ॥ २१।२ ॥
पञ्चाङ्गभूषणोपेतश्चन्दनाद्यनुलेपकः ।
तादृशेन च तत्कर्त्रा युक्तः कर्मेदमाचरेत् ॥ २१।३ ॥
ब्राह्मणान् भोजयित्वा तु पुण्याहं वाचयेत्ततः ।
तद्देशे मण्डलं कृत्वा गोमयेन च बुद्धिमान् ॥ २१। ४ ॥
तत्र कूर्चं विनिक्षिप्य सम्बुद्ध्यन्तं स्वनाम च ।
उक्त्वा त्वावाहयामीति चावाह्यार्चनमाचरेत् ॥ २१।५ ॥
चतुर्थ्यन्तं स्वनामोक्त्वा नमस्कारान्तसंयुतम् ।
पाद्यादिनिखिलान् दत्वा स्वस्वोक्तं तु बलिं क्षिपेत् ॥ २१।६ ॥
ब्रह्माणं पूजयेत्पूर्वं सघृतं पायसं क्षिपेत् ।
फलान्यर्यमणे दद्यात्तिलमाषोदनं तथा ॥ २१।७ ॥
दद्याद्विवस्वतेऽपूपं दधि मित्राय दापयेत् ।
पृथ्वीधराय सद्गन्धान् दापयेत्सुसमाहितः ॥ २१।८ ॥
नवनीतमथो दद्यात्पर्जन्याय विशेषतः ।
जयन्ताय घृतं दद्यात् महेन्द्रः कुष्ठभाग् भवेत् ॥ २१।९ ॥
मधुपर्कं तथा दद्यादादित्याय विशेषतः ।
सत्यकाय बदर्यास्तु फलं मधुसमन्वितम् ॥ २१।१० ॥
भ्रंशाय चूर्णं माषस्य रजनीभक्तसंयुतम् ।
दापयेदन्तरिक्षाय तपनं दुग्धसर्प्पिषा ॥ २१।११ ॥
अग्नये दुग्धसंयुक्तम् ओदनं शिवसंयुतम् ।
पूप्णे च वितथे दद्यात्पक्वान्नं सुसमाहितः ॥ २१।१२ ॥
गृहक्षताय शिम्बान्नं दद्यान्मधुसन्वितम् ।
यमाय पायसं दद्याद्गन्धर्वे गन्धमुच्यते ॥ २१।१३ ॥
सामुद्रं भृङ्गराजाय मस्त्यं मस्त्योदनं मृगे ।
दद्यान्निरृतये तैलं पिण्याकान्नं च बुद्धिमान् ॥ २१।१४ ॥
दौवारिके दधि प्रोक्तं सुग्रीवे तु यवान्नकम् ।
पिष्टानि पुष्पदन्ताय पुष्पाणि सजलानि च ॥ २१।१५ ॥
जलेश्वराय दातव्यं पायसं घृतमिश्रितम् ।
वाराहं तु बलौ मांसमसुराय प्रदापयेत् ॥ २१।१६ ॥
दद्यात्समाहितः सम्यक् शेषाय तिलतण्डुलौ ।
रोगाय शुष्कमस्त्यान् वै ध्वजं पीतं च वायवे ॥ २१।१७ ॥
नागाय मधुमुख्याय लाजान् सम्यक् प्रदापयेत् ।
भल्लाटाय गुलान्नं वै सम्यग्दद्याद्बलिप्रदः ॥ २१।१८ ॥
सोमाय पायसं धूपं दीपं दद्याद्विशेषतः ।
गजाय शर्करापूपमदित्यै मोदकं विदुः ॥ २१।१९ ॥
तितये तु बलिं दद्याद्बाह्यदेवबलिक्रमे ।
पायसं घृतसम्मिश्रमीशानाय निवेदयेत् ॥ २१।२० ॥
दद्यात्सवित्रे लाजांस्तु सवित्रे गन्धवारि वै ।
इन्द्राय माषमन्नं वै मुद्गान्नं चेन्द्रसूनवे ॥ २१।२१ ॥
रुद्राय मांसमन्नं स्यात्फेनं रुद्रात्मजाय वै ।
आपाय मस्त्यं मासं च चापवत्साय दापयेत् ॥ २१।२२ ॥
घृतं मांसं चरक्यै च शूलस्थायै शिवाश्रिताः ।
बिदारिकायै दातव्यं लवणं धीमता भृशम् ॥ २१।२३ ॥
तिलपिण्डमथो दद्यात्पूतनायै विशेषतः ।
कुल्माषं पापराक्षस्यै मांसान्नं स्याद्ग्रहेषु च ॥ २१।२४ ॥
विशेषबलिरेवं स्यात्सामान्यं तु घृतोदनम् ।
सर्वेषामपि दातव्यो बलिर्दध्ना समन्वितः ॥ २१।२५ ॥
उत्कृष्टबलिरेवं स्याद्ग्रामादौ च विशेषतः ।
गृहदेवालयादौ च मध्यमः कथ्यतेऽधुना ॥ २१।२६ ॥
(पृ० ७६)
दध्याज्यगुलसम्मिश्रं शुद्धान्नं ब्रह्मणे बलिः ।
अर्यमादिचतुर्णां तु पायसं बलिरुच्यते ॥ २१।२७ ॥
विदिक्ष्वापादिदेवानामष्टानां कृसरं बलिः ।
ईशानाद्यष्टदेवानां मुद्गान्नं बलिरुच्यते ॥ २१।२८ ॥
हुताशनादि देवानां गुलान्नं बलिरिष्यते ।
पश्चिमाशास्थितानां तु घृतान्नं बलिरुच्यते ॥ २१।२९ ॥
वायव्याद्युक्तदेवानां दध्यन्नं बलिरुच्यते ।
अष्टानां बाह्यदेवानां मांसान्नं बलिरुच्यते ॥ २१।३० ॥
अलाभे प्रोक्तवस्तूनां दध्याज्यफलसंयुतम् ।
शुद्धमन्नं प्रदातव्यं गन्धपुष्पपुरः सरम् ॥ २१।३१ ॥
हविष्यं देवभवने मांसान्नं राजमन्दिरे ।
मत्स्यं शूद्रगृहे प्रोक्तमन्यत्र मधु कल्पयेत् ॥ २१।३२ ॥
मस्त्यार्थं चैव मांसार्थं पिष्टं वापि प्रकल्पयेत् ।
ग्रामादौ वा बलिः सोपि शुद्धद्रव्यैर्विधीयताम् ॥ २१।३३ ॥
त्वरिते त्वक्षतं वा स्याद्गन्धपुष्पसमन्वितम् ।
महावास्तुनि विप्रेन्द्रा देशिका बहवो मताः ॥ २१।३४ ॥
पञ्चगोचरसम्भूताः शिवविप्राः प्रकीर्तिताः ।
अभावादादिशैवानां तत्र ब्राह्माः शिवद्विजाः ॥ २१।३५ ॥
देवालये च ग्रामादौ शिवविप्रो विशिष्यते ।
स्वगृहे त्वनुशैवास्तु महावान्तरशैवकाः ॥ २१।३६ ॥
वास्तुहोमं चतुर्दिक्षु देशिको मूर्तिपैः सह ।
एकत्र वाथ कर्तव्यो देशिकेन च धीमता ॥ २१।३७ ॥
समिदाज्यचरूपेतं तिलतण्डुलसंयुतम् ।
मण्डपे वा प्रपायां वा वास्तुहोमं समाचरेत् ॥ २१।३८ ॥
पञ्चादिदशहस्तान्तं मण्डपं परिकल्पयेत् ।
हस्तमात्रमिदं कुण्डं रत्निमात्रमथापि वा ॥ २१।३९ ॥
वास्तुसीमनि वा ब्रह्मस्थाने वा मण्डपं नयेत् ।
पलाशोदुम्बराश्वत्थवटाः पूर्वादितः क्रमात् ॥ २१।४० ॥
समिधः कथिताः शास्त्रे चैकत्रेष्टं प्रगृह्यताम् ।
कुम्भे वोदुम्बरे वापि वास्तुदेवान् प्रपूजयेत् ॥ २१।४१ ॥
हेमवस्त्रसमायुक्ते सकूर्चे सापिधानके ।
कृतस्थण्डिलकाधारः सोष्णीषः सोत्तरीयकः ॥ २१।४२ ॥
कृतपञ्चाङ्गभूषस्तु मूर्तिपैश्च तथाविधैः ।
उष्णीषरहितैः सार्धं वेदध्वनिसमन्वितम् ॥ २१।४३ ॥
स्तोत्रध्वनिसमायुक्तं तथा मन्त्रजपान्वितम् ।
सम्प्राप्तदक्षिणः शान्तो मनस्तुष्टिसमन्वितः ॥ २१।४४ ॥
सर्वमङ्गलकार्ये च मण्डलादिविशोधने ।
पर्यग्निकरणोपेतं वास्तुहोमं नियामकम् ॥ २१।४५ ॥
बलिं चैव विशेषेण शिवविप्रः समाचरेत् ।
वास्तुपूजाविहीनं तु वास्तुवास्तु विनश्यति ॥ २१।४६ ॥
प्रतिसंवत्सरं कुर्यात्सर्वदोषापनुत्तये ।
ग्रामादिगृहशालासु देववेश्मनि देशिकः ॥ २१।४७ ॥
॥ इति कामिकाख्ये महातन्त्रे वास्तुदेवबलिविधिर्नाम एकोनविंशतितमः
पटलः ॥