१८ सूत्रनिर्माणविधिः

(पृ० ७४)

अतः परं प्रवक्ष्यामि सूत्रनिर्माणकं द्विजाः ।
प्रथमं ब्रह्मणः स्थानात्प्राक्सूत्रं सबलिं न्यसेत् ॥ २०।१ ॥
द्वितीयं स्यादुदक्सूत्रं तस्मिन्नपि बलिं क्षिपेत् ।
चतुरश्रायताश्रस्थपर्यन्तं स्यात्तृतीयकम् ॥ २०।२ ॥
कर्णसूत्रं चतुर्थं स्यात्पञ्चमं चार्धपञ्चकम् ।
षष्ठं स्यात्तदनन्तर्यं सप्तमं मध्यकर्णिकम् ॥ २०।३ ॥
अष्टमं चार्धकर्णं स्यान्नवमं कर्णिकान्तरम् ।
एवमन्यत्तु विज्ञेयं यावद्द्वात्रिंशकं पदम् ॥ २०।४ ॥
पर्यन्तसूत्रमाद्यं स्यात्ततो विन्याससूत्रकम् ।
प्रमाणसूत्रमन्यत्स्यादेवं सूत्रद्वयं भवेत् ॥ २०।५ ॥
यदुपानादिमानं तत्कूटकोष्ठावसानकम् ।
पर्यन्तसूत्रमानं तत्सूत्रं प्रामाणिकं परम् ॥ २०।६ ॥
गर्भभित्यादिमानार्थं सूत्रं देवपदोचितम् ।
तद्धि विन्याससूत्रं स्याज्ज्ञातव्या सूत्रकल्पना ॥ २०।७ ॥
अथ क्षेत्रं तु विभजेत् षष्ट्युत्तरशतत्रयम् ।
तेष्वेकभागं सूत्रस्य मानं तत्प्राण उच्यते ॥ २०।८ ॥
सूत्राणि प्राञ्चि कार्याणि अनुकार्याण्युदञ्चि हि ।
प्राणवायुप्रमाणेन शास्त्रेऽस्मिन् कीर्तितानि हि ॥ २०।९ ॥
तानि पुंस्त्रीस्वरूपाणि कीर्तितानि क्रमेण तु ।
प्राणवायुप्रमाणेन द्विगुणाश्चानुवंशकाः ॥ २०।१० ॥
वास्तुमध्ये महावंशपार्श्वगास्तु प्रकीर्तिताः ।
त्रिगुणश्च महावंशो वास्तुमध्ये प्रकीर्तितः ॥ २०।११ ॥
प्राणे त्रिगुणकाश्चानुसिराः कर्णगता मताः ।
महासिराश्च तत्रस्था मध्ये कर्णगता मताः ॥ २०।१२ ॥
प्राणवायुप्रमाणेन त्रिगुणास्ताः प्रकीर्तिताः ।
महासिराश्चानुसिराः सञ्ज्ञेयास्तु नपुंसकाः ॥ २०।१३ ॥
वास्तुमध्ये तु केतुः स्यान्महामर्म तदुच्यते ।
महासिरामहामर्मपर्यन्ते सन्धिरिष्यते ॥ २०।१४ ॥
वंशसूत्रसिरासङ्गाच्छूलमित्यभिधीयते ।
महाशूलं चतुष्प्राणं त्रिगुणं चानुशूलकम् ॥ २०।१५ ॥
शुद्धं पदं तु मर्म स्याल्लाङ्गलं कोणसङ्गतम् ।
चतुष्कं तु चतुः सूत्रैः षट्कं षट्सूत्रयोगतः ॥ २०।१६ ॥
अष्टकं चाष्टसूत्राणां योगेन परिकीर्तितम् ।
पदस्य चाष्टमांशेन मर्ममानं प्रकीर्तितम् ॥ २०।१७ ॥
पदाष्टनवदिग्भागे भगवान्सूत्रवित्स्मृतिः ।
त्रिहस्तनिर्मिते क्षेत्रे यवमानं तु सूत्रकम् ॥ २०।१८ ॥
अन्येषां रोममात्रेण प्रतिहस्तं प्रबन्धयेत् ।
हृदये वंशके शूले सूत्रसन्धौ च मर्मके ॥ २०।१९ ॥
सिरायामष्टके षट्के चतुष्के लाङ्गलेऽपि च ।
देवालयादिकं नोक्तं कृतञ्चेत्कुलनाशनम् ॥ २०।२० ॥
एषां स्वरूपकाष्टांशं नवांशं परिहृत्य च ।
भित्तिस्तम्भगृहादीनि कारयेद्देशिकोत्तमः ॥ २०।२१ ॥
गृहपीडा न कर्तव्या पदसूत्रेण धीमता ।
यदङ्गं वास्तु मर्त्यस्य बाध्यते सर्वकर्मणि ॥ २०।२२ ॥
तदङ्गे तु तदीयस्य बाधाः परिहरेत्ततः ।

॥ इति कामिकाख्ये महातन्त्रे सूत्रनिर्माणविधिः अष्टादशः पटलः ॥