१७ पदविन्यासविधिः

(पृ० ६९)

अथ वक्ष्ये विशेषेण पदविन्यासलक्षणम् ।
सकलं पदमेकं स्यात् पेचकं तु द्वितीयकम् ॥ १९।१ ॥
पदं पीठं तृतीयं स्यान्महापीठमतः परम् ।
उपपीठं ततः पश्चादुग्रपीठमतः परम् ॥ १९।२ ॥
स्थण्डिलं सप्तमं विद्यान्मण्डूकाख्यं तथाष्टमम् ।
परमेशपदं चापि नवमं परिकीर्तितम् ॥ १९।३ ॥
दशमं चासनं चैकादशं स्थानीयमुच्यते ।
देशीयं द्वादशं प्रोक्तं पदं तूभयचण्डिकम् ॥ १९।४ ॥
चतुर्दशपदं भद्रं महासनमिति स्मृतम् ।
पद्मगर्भपदं पञ्चदशमं तु प्रकीर्तितम् ॥ १९।५ ॥
षोडशं त्रियुतं सप्तदशमं वृत्तभोगकम् ।
अष्टादशपदं चात्र कर्णाष्टकमिति स्मृतम् ॥ १९।६ ॥
एकोनविंशतिपदं ज्ञेयं गणितपादकम् ।
स्याद्विंशतिपदं सूर्यविशालं नामतः पदम् ॥ १९।७ ॥
स्यादेकविंशतिपदं सुसंहितसमाह्वयम् ।
द्वाविंशतिपदं चात्र पदं सुप्रतिकान्तकम् ॥ १९।८ ॥
स्यात्त्रयोविंशति प्रोक्तं विशालं नामतः पदम् ।
स्याच्चतुर्विंशतिपदं विप्रगर्भमिति स्मृतम् ॥ १९।९ ॥
पञ्चविंशमिह प्रोक्तं विश्वेशाख्यं पदं बुधैः ।
यत्तु षड्विंशतितमं तत्स्याद्विपुलभोगकम् ॥ १९।१० ॥
स्यात्सप्तविंशतितमं पदं विप्रतिकान्तकम् ।
यत्त्वष्टाविंशतिपदं विशालाक्षपदं स्मृतम् ॥ १९।११ ॥
विप्रभुक्तिकसञ्ज्ञेयमेकोनत्रिंशकं पदम् ।
पदं त्रिंशत्तमं प्रोक्तं विश्वसारं पुरातनम् ॥ १९।१२ ॥
एकत्रिंशत्पदं यत्तु भवेदीश्वरकान्तकम् ।
इन्द्रकान्तपदं यत्तु द्वात्रिंशत्कथितं त्विह ॥ १९।१३ ॥
सकले मध्यमे ब्रह्मा पूज्यः प्रागादिसूत्रके ।
इन्द्रं यमं च वरुणं सोमं गन्धादिनार्चयेत् ॥ १९।१४ ॥
अस्मिन् देवादयः पूज्याश्चाग्निकार्यं च भोजनम् ।
कुर्यात्तु पेचकपदे कर्णसूत्रद्वयान्विते ॥ १९।१५ ॥
अष्टसूत्रगता लोकपाला मध्ये प्रजापतिः ।
तन्मध्ये निष्कलं बेरं स्थापयेद्देशिकोत्तमः ॥ १९।१६ ॥
सर्वमङ्गलकार्यं च क्षुद्रग्रामगृहादिकम् ।
कर्णसूत्रद्वयेनैव संयुक्तं पीठमिष्यते ॥ १९।१७ ॥
पूर्वोक्तास्तु सुरा ये तु पदस्थास्ते प्रकीर्तिताः ।
एतत्पदं मठादीनां तच्च ग्रामादियोग्यकम् ॥ १९।१८ ॥
क्षुद्रग्रामादिके चेष्टं पेचकं तु तथैव हि ।
कर्णसूत्रद्वयोपेतं महापीठं तु कारयेत् ॥ १९।१९ ॥
मध्ये चतुष्पदं ब्रह्मा भुङ्क्तेऽत्र मुनिसत्तमाः ।
ईशो जयन्त आदित्यो भृशोऽग्निर्वितथो यमः ॥ १९।२० ॥
भृगुश्च पितृसुग्रीवौ वरुणः शेषमारुतौ ।
मुख्यः सोमोऽदितिश्चेति सूत्रस्था बाह्यदेवताः ॥ १९।२१ ॥
महापीठपदं प्रोक्तं क्षुद्रग्रामादियोम्यकम् ।
उपपीठपदे चैकं भुङ्क्ते मध्ये पितामहः ॥ १९।२२ ॥
अर्यमा च विवस्वांश्च मित्रश्च पृथिवीधरः ।
चतुर्दिक्षु गता देवा एकैकपदभोगिनः ॥ १९।२३ ॥
सावित्रश्चेन्द्रजश्चैव रुद्रजस्त्वापजस्तथा ।
आग्नेयादिचतुर्दिक्षु भुञ्जते देवताः पदम् ॥ १९।२४ ॥

(पृ० ७०)

ईशश्च सत्यकश्चैव महेन्द्रादित्यवह्नयः ।
गन्धर्वश्च तथा देवो गृहक्षतयमौ तथा ॥ १९।२५ ॥
पितरश्चासुराश्चैव पुष्पदन्तजलेश्वरौ ।
वायुश्चापि गजश्चैव भल्लाटः सोम एव च ॥ १९।२६ ॥
भुञ्जते पदमेकैकं कर्णसूत्रद्वयान्वितम् ।
उपपीठपदं नाम्ना ग्रामादीनां शुभावहम् ॥ १९।२७ ॥
उग्रपीठमिदं मध्ये कर्णसूत्रद्वयान्वितम् ।
मध्ये चतुष्पदं ब्राह्ममन्तरावरणे ततः ॥ १९।२८ ॥
अर्यमा च विवस्वांश्च मित्रश्च पृथिवीधरः ।
प्रागादि भुञ्जते देवा द्विपदं कोणवर्जितम् ॥ १९।२९ ॥
सविता च तथेन्द्रश्च रुद्रश्चापस्तथैव च ।
आग्नेयकोणमारभ्य भुञ्जते देवताः पदम् ॥ १९।३० ॥
बहिरावरणं वक्ष्ये पावकादिचतुर्ष्वपि ।
कोणेषु भुञ्जते देवाः पदानामर्धकं क्रमात् ॥ १९।३१ ॥
आग्नेयस्य तु पूर्वार्धे भृशो वह्निस्तु पश्चिमे ।
नैरृतस्य तु पूर्वार्धे गृहः स्यात्पश्चिमे स्वयम् ॥ १९।३२ ॥
पश्चिमार्धे तु वायव्यां शेषो वायुस्तु पूर्वगः ।
ईशानपश्चिमार्धे तु दितिरीशस्तु पूर्वगः ॥ १९।३३ ॥
प्राच्यामुत्तरमारभ्य प्रादक्षिण्यक्रमेण तु ।
जयन्तेशो महेन्द्रश्च आदित्यः सत्यकस्तथा ॥ १९।३४ ॥
दक्षिणे वितथश्चैव गृहक्षतयमौ तथा ।
गन्धर्वश्च तथा देवाश्चत्वारः पदभोगिनः ॥ १९।३५ ॥
पश्चिमे चैव सुग्रीवः पुष्पदन्तो जलेश्वरः ।
असुरश्च तथा देवाश्चत्वारश्चोत्तरे मताः ॥ १९।३६ ॥
मुख्यो भल्लाटकः सोमो भृगुरित्यधिदेवताः ।
उग्रपीठमिदं नाम ग्रामादीनां सुपूजितम् ॥ १९।३७ ॥
स्थण्डिलं सप्तसप्तांशं कर्णसूत्रद्वयान्वितम् ।
मध्ये नवपदं ब्राह्ममन्तरावरणे ततः ॥ १९।३८ ॥
अर्यमा च विवस्वांश्च मित्रश्च पृथिवीधरः ।
पूर्वादिक्रमयोगेन त्रिपदं भुञ्जते सुराः ॥ १९।३९ ॥
आग्नेयादिषु कोणेषु सावित्राद्याश्च देवताः ।
सावित्रश्चेन्द्रजश्चैव रुद्रजस्त्वापजस्तथा ॥ १९।४० ॥
ईशानपदमारभ्य बहिरावरणे सुराः ।
ईशानश्च जयन्तश्च महेन्द्रादित्यसत्यकाः ॥ १९।४१ ॥
भृशो वह्निरिति प्रोक्ताः पूर्वस्यां दिशि देवताः ।
वितथो गृहक्षतश्चैव यमो गन्धर्व एव च ॥ १९।४२ ॥
भृङ्गराजोऽथ निरृतिर्दक्षिणस्यां तु देवताः ।
सुग्रीवपुष्पदन्तौ च वरुणासुरशेषकाः ॥ १९।४३ ॥
वायुरित्युच्यते तस्मिन् पश्चिमे देवता मताः ।
मुख्यो भल्लाटकः सोमो ऋभुर्ह्यदितिरेव च ॥ १९।४४ ॥
उत्तरस्यां दिशि प्रोक्ता देवता बलियोग्यकाः ।
स्थण्डिलाख्यपदं चैतद्गृहारामादिपूजितम् ॥ १९।४५ ॥
मण्डूकाख्यं चतुः षष्टिपदं कर्णद्वयान्वितम् ।
मध्ये चतुष्पदं ब्रह्मा तन्मुखस्थाश्चतुः सुराः ॥ १९।४६ ॥
त्रिपदाश्चापवत्साद्याः षोडशार्धांशभोगिनः ।
चतुर्दिशि स्थिता बाह्ये षोडश द्विपदेश्वराः ॥ १९।४७ ॥
तत्पार्श्वयोर्द्वयोश्चाष्टावेकैकपदभोगिनः ।
अग्रहारादियोग्यं तन्मण्डूकाख्यपदं त्विह ॥ १९।४८ ॥
परमेशपदं त्वेतदेकाशीतिपदान्वितम् ।
कर्णसूत्रद्वयोपेतं कल्पनीयं विचक्षणैः ॥ १९।४९ ॥
मध्ये नवपदं ब्रह्मा भुङ्क्ते तस्य चतुर्मुखः ।
चतस्रो देवताः षट् षट् पदभोगपराः स्मृताः ॥ १९।५० ॥
द्विपदाः कोणगाश्चाष्टौ बाह्ये त्वेकपरायणाः ।
मण्डूकेऽत्र समा देवाः कथ्यन्ते च यथाक्रमात् ॥ १९।५१ ॥
ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ।
आदित्यः सत्यकभ्रंशावन्तरिक्षश्च पूर्वगाः ॥ १९।५२ ॥

(पृ० ७१)

वह्निः पूषा च वितथो गृहक्षतयमौ तथा ।
गन्धर्वो भृङ्गराजश्च मृगश्चैव तु दक्षिणे ॥ १९।५३ ॥
निरृतिर्दौवारिकश्चैव सुग्रीवः पुष्पदन्तकः ।
वरुणश्चासुरश्चैव शेषो रोगस्तु पश्चिमे ॥ १९।५४ ॥
वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च ।
गजश्चाप्यदितिश्चैव दितिश्चैव तथोत्तरे ॥ १९।५५ ॥
बाह्यदेवा इमे प्रोक्तास्त्वन्तरावरणे पुनः ।
अर्यमा च विवस्वांश्च मित्रश्च पृथिवीधरः ॥ १९।५६ ॥
चतुर्दिक्षु गता देवा ईशानादौ च कोणके ।
आपश्चैवापवत्सश्च सवितापि सावित्रकः ॥ १९।५७ ॥
इन्द्रश्चेन्द्रजयश्चैव रुद्रो रुद्रजयस्तथा ।
मध्ये ब्रह्मा स्थितः प्रोक्तो मण्डूके चापि तत्परे ॥ १९।५८ ॥
चरकी च विदारी च पूतना पापराक्षसी ।
ईशानादिषु कोणेषु शूलस्थाः पदवर्जिताः ॥ १९।५९ ॥
स्कन्दोऽर्यमा च जम्भश्च पिलिपिञ्छो द्विजोत्तमाः ।
पूर्वादितः समारभ्य चतुर्दिक्षु व्यवस्थिताः ॥ १९।६० ॥
ग्रामाग्रहारवेश्मादियोग्यं परमशायिकम् ।
आसनं कर्णसूत्राभ्यां युक्तं तु परिकल्पयेत् ॥ १९।६१ ॥
ब्रह्मा षोडशभागस्थो तन्मुखस्थाष्टभागिनः ।
आदित्यश्च यमश्चैव करुणः सोम एव च ॥ १९।६२ ॥
द्विपदाश्चापवत्साद्या द्विपदा एव कीर्तिताः ।
क्षेत्रं शतपदं दुर्गपुराट्टालकभूमिषु ॥ १९।६३ ॥
नगरी खेटकग्रामवेश्मादिषु च कथ्यते ।
स्थानीयं कर्णसूत्राभ्यां युक्तं तु परिकल्पयेत् ॥ १९।६४ ॥
मध्ये बह्या पदानां तु भजते पञ्चविंशतिम् ।
कोणेशादिपदे ब्रह्मा त्वीशाग्निपितृवायवः ॥ १९।६५ ॥
अन्ये त्वेकपदे ज्ञेयाः पर्जन्याद्या यथाक्रमात् ।
चत्वारस्त्वर्यमाद्यास्तु पूर्वादिदशभागिनः ॥ १९।६६ ॥
आपवत्सादयः कोणेष्वष्टौ द्विपदभागिनः ।
यथास्थानाश्चरक्याद्याश्चाष्टौ बाह्ये प्रकीर्तिताः ॥ १९।६७ ॥
ग्रामादियोग्यं विज्ञेयं स्थानीयाख्यमिदं पदम् ।
देशीयाख्यं पदं कर्णसूत्राभ्यां परिकल्पयेत् ॥ १९।६८ ॥
षट्त्रिंशद्भागभुक् ब्रह्मा मुखस्था द्वादशांशिनः ।
आदित्यश्च यमश्चैव वरुणः सोम एव च ॥ १९।६९ ॥
द्विपदा बाह्यविथिस्थाश्चरक्याद्यास्तु पूर्ववत् ।
देशीयाख्यपदं चैदमग्रहारादिपूजितम् ॥ १९।७० ॥
चण्डितं तूभयाख्यं तु कर्णसूत्रद्वयान्वितम् ।
पदान्येकोनपञ्चाशन्मध्ये ब्रह्याधितिष्ठति ॥ १९।७१ ॥
बहिरावणे प्राच्यामादित्याद्यास्त्रिभागिनः ।
कोणस्थास्त्रिपदा ज्ञेया ईशाग्निपितृवायवः ॥ १९।७२ ॥
चत्वारस्त्वर्यमाद्यास्तु चतुर्दशपदे स्थिताः ।
पूर्ववच्चापवत्साद्या बाह्यस्थाः परिकीर्तिताः ॥ १९।७३ ॥
अग्रहारादियोग्यं तत्पदं तूभयचण्डितम् ।
प्राक् च पञ्चदशोदक् च सूत्राणि परिकल्पयेत् ॥ १९।७४ ॥
कर्णसूत्रद्वयोपेतं प्राग्वद्भुक्तिं प्रकल्पयेत् ।
अग्रहारादियोग्यं स्याद्भद्रासनमिदं पदम् ॥ १९।७५ ॥
पद्मगर्भमिदं चान्यत् कर्णसूत्रद्वयान्वितम् ।
एकाशीतिपदं मध्ये भुङ्क्ते लोकपितामहः ॥ १९।७६ ॥
आदित्याद्यास्त्रिभागाः स्युः कोणेशाः पञ्चनायकाः ।
अष्टादशांशभागस्थाश्चार्यमाद्याः प्रकीर्तिताः ॥ १९।७७ ॥
शेषं पूर्ववदुद्दिष्टमग्रहारादिपूजितम् ।
प्राञ्चि सप्तदशोदञ्चि सूत्राणि परिकल्पयेत् ॥ १९।७८ ॥
कर्णसूत्रद्वयोपेतं पदभुक्तिं च पूर्ववत् ।
अग्रहारादियोग्यं स्यात्त्रियुतं परिकीर्तितम् ॥ १९।७९ ॥
वृत्तभोगपदञ्चान्यत्कर्णसूत्रद्वयान्वितम् ।
एकविंशच्छतपदं ब्रह्मा भुङ्क्ते तु मध्यमे ॥ १९।८० ॥

(पृ० ७२)

इन्द्रादिलोकपालाश्च त्वष्टौ पञ्चपदेश्वराः ।
द्वाविंशद्भोगिनो देवा मुखस्थाः परिकीर्तिताः ॥ १९।८१ ॥
आपवत्सादयोऽष्टौ हि द्विपदास्तु प्रकीर्तिताः ।
वृत्ताभोगमिदं प्रोक्तं ग्रामादौ सम्प्रयोजयेत् ॥ १९।८२ ॥
एकोनविंशति प्राञ्चि तावन्ति स्युरुदञ्च्यपि ।
कर्णाष्टकमिदं विद्यादग्रहारादिपूजितम् ॥ १९।८३ ॥
गणिताख्यपदं कर्णसूत्राभ्यां संयुतं भवेत् ।
एकोनसप्ततिपदं तन्मध्ये ब्राह्मकं भवेत् ॥ १९।८४ ॥
षट्त्रिंशतिपदे देवा मुखस्थाः परिकीर्तिताः ।
त्रिपदा लोकपालाः स्युरन्तरस्था द्विभागिनः ॥ १९।८५ ॥
आपवत्सादयश्चाष्टौ पार्श्वदेवाः प्रकीर्तिताः ।
प्रोक्तं गणितपादं तु ग्रामादौ परिकल्पयेत् ॥ १९।८६ ॥
ततः सूर्यविशालं स्यात्पूर्ववत्परिकल्पयेत् ।
सुसंहितपदं कर्णसूत्रयुक्तं प्रकल्पयेत् ॥ १९।८७ ॥
मध्ये पदानि धातुश्च द्विशतं पञ्चविंशति ।
अर्यमादिचतुष्कस्य त्रिंशत्त्रिंशत्पदानि च ॥ १९।८८ ॥
ईशादिकोणसंस्थानां चतुर्णां पदपञ्चकम् ।
आदित्यादिचतुर्णां तु त्रिपदं परिकीर्तितम् ॥ १९।८९ ॥
द्वे द्वे पदे च प्रत्येकं पर्जन्यादौ प्रकल्पयेत् ।
पूर्ववच्चापवत्सादेरष्टकस्य द्वयं द्वयम् ॥ १९।९० ॥
चरक्याद्यष्टकं तद्वद्बाह्ये तु परिकीर्तितम् ।
एतत्सुसंहितं नाम पदं ग्रामादिपूजितम् ॥ १९।९१ ॥
पदं सुप्रतिकान्ताख्यं कर्णसूत्रद्वयान्वितम् ।
पूर्वोक्तेन प्रकारेण पदं ग्रामादिपूजितम् ॥ १९।९२ ॥
विशालं कर्णसंयुक्तं पण्डितेशैः प्रकल्प्यताम् ।
द्विशतं च नवाशीति मध्ये ब्रह्मपदानि च ॥ १९।९३ ॥
अर्यमादिचतुष्कस्य चतुस्त्रिंशत् पृथक्पृथक् ।
पञ्चाशल्लोकपालाः स्युरन्यत्सर्वं समानकम् ॥ १९।९४ ॥
विशालाख्यमिदं प्रोक्तमग्रहारादिपूजितम् ।
विप्रगर्भं यथापूर्वमग्रहारादिपूजितम् ॥ १९।९५ ॥
विश्वेशाख्यं पदं कर्णयुक्तं तु परिकल्पयेत् ।
त्रिशतञ्चैकषष्टिञ्च मध्ये ब्रह्मपदानि च ॥ १९।९६ ॥
अर्यमाद्या यथापूर्वं बाह्ये देवास्त्रिभागिनः ।
अग्रहारादियोग्यं स्याद्विश्वेशाख्यमिदं पदम् ॥ १९।९७ ॥
भोगं विपुलपूर्वं यदग्रहारादिपूजितम् ।
पदं विप्रतिकान्तं च कर्णसूत्रद्वयान्वितम् ॥ १९।९८ ॥
चत्वारिंशत्तथैकं च पदान्यत्र चतुः शतम् ।
ब्रह्मा भुङ्क्तेऽर्यमाद्यास्तु पूर्ववत्परिकल्पयेत् ॥ १९।९९ ॥
कोणस्थाः पञ्चभागाः स्युरन्ये त्रिपदभागिनः ।
इदं विप्रतिकान्ताख्यमग्रहारादिपूजितम् ॥ १९।१०० ॥
विशालाक्षं कर्णयुक्तं पूर्ववत्परिकल्पयेत् ।
त्रिंशत्प्राञ्चि तथोदञ्चि सूत्राणि परिकल्पयेत् ॥ १९।१०१ ॥
मध्ये पञ्चशतं ब्रह्मा भुङ्क्ते नव च विंशतिम् ।
चतुर्णामर्यमादीनां षट्चत्वारिंशदंशकम् ॥ १९।१०२ ॥
पञ्चाशल्लोकपालाः स्युः पर्जन्याद्यास्त्रिभागिनः ।
विप्रभुक्तिरिति ज्ञेयं पदं ग्रामादियोग्यकम् ॥ १९।१०३ ॥
विश्वसारं यथापूर्वमेतद्ग्रामादिपूजितम् ।
पदमीश्वरकान्तं तु कर्णसूत्रद्वयान्वितम् ॥ १९।१०४ ॥
ब्रह्मणः षट्शतं मध्ये पञ्चविंशतिसंयुतम् ।
अर्यमादिचतुष्कस्य पञ्चाशत्प्रतिवेदितम् ॥ १९।१०५ ॥
अष्टानां लोकपालानां त्रयो भागाः पृथक्पृथक् ।
पर्जन्यादेस्तु चत्वारो भागाः प्रत्येकमीरिताः ॥ १९।१०६ ॥
एतदीश्वरकान्ताख्यमग्रहारादिपूजितम् ।
इन्द्रकान्तं यथापूर्वमग्रहारादिपूजितम् ॥ १९।१०७ ॥
एवमूर्ध्वं च विज्ञेयं यावत्स्यात्तु परार्धकम् ।
चतुः षष्टिपदं दैवं मानुषं पारमेश्वरम् ॥ १९।१०८ ॥

(पृ० ७३)

परमेशपदं योज्यं चतुर्णामपि वर्णिनाम् ।
त्रैवर्णिकानां वा कुर्यादग्रहारादिवास्तुषु ॥ १९।१०९ ॥
चतुष्पष्टिपदं विप्रभूपयोश्च विशेषतः ।
विट्छूद्रयोस्तथैकोनपञ्चाशत्पदमीरितम् ॥ १९।११० ॥
सर्वं सर्वत्र चेष्टं वा शास्त्रेऽस्मिन् सम्प्रकीर्तितम् ।
चतुः षष्ट्येकाशीत्याख्यमासनं च त्रिधा मतम् ॥ १९।१११ ॥
सकलादिषु सर्वेषु पदेष्वेव पदत्रयम् ।
वास्तुकर्मणि शस्तं स्याद्ग्रामादौ च गृहादिषु ॥ १९।११२ ॥
अथवान्यप्रकारेण सकलादि विधीयते ।
कर्णसूत्रविहीनं वा मध्ये कर्णद्वयान्वितम् ॥ १९।११३ ॥
अथवानेककर्णस्थसूत्रैरन्वितमेव वा ।
पदं सर्वं विधेयं स्यादेवं बुद्ध्या प्रकल्पयेत् ॥ १९।११४ ॥
अथ वृत्तपदन्यासं प्रवक्ष्यामि यथाविधि ।
चक्रवत् पञ्चसूत्राणि सान्तराणि समानि च ॥ १९।११५ ॥
द्वात्रिंशच्च चतुर्विंशद्द्विरष्टाष्टैकभागिनः ।
एकाशीतिपदं ह्येतज्ज्ञेयं विषमसंस्थितिः ॥ १९।११६ ॥
अष्टाविंशत्तथा विंशद्द्वादशाष्टार्धभागतः ।
चतुः षष्टिपदं चैतच्चतुर्वृत्ते पकल्पयेत् ॥ १९।११७ ॥
कुम्भकस्य तु विन्यासं सम्मिश्रमुभयोर्न्यसेत् ।
चतुः षष्टिपदं वास्तु परमैशन्तु वास्तुकम् ॥ १९।११८ ॥
ग्रामादि चोपवास्तु स्याद्वास्तव्यं स्याद्गृहादिकम् ।
स्त्रीपुंसोरिव संयोगस्तथा योज्यं विचक्षणैः ॥ १९।११९ ॥
जयन्ते मेषसंस्थानमर्यम्णि वृषभस्थितिः ।
भृशांशे मिथुनं विद्यात्कुलीरो वितथे भवेत् ॥ १९।१२० ॥
व्यञ्जके केसरी भृङ्गे कन्या सुग्रीवके तुला ।
मित्रे तु वृश्चिकः शेषे धनुर्मुख्ये झषस्थितिः ॥ १९।१२१ ॥
पृथिवीधरके कुम्भस्त्वदितौ मीन उच्यते ।
चराचरोभया ज्ञेयास्तत्तदेवांशके न्यसेत् ॥ १९।१२२ ॥
अश्विन्यादीनि सर्वाणि नक्षत्राणि यथाक्रमम् ।
प्रदक्षिणगतान्येव मेषादिषु विभागतः ॥ १९।१२३ ॥
आदित्ये सूर्यवारः स्यादग्नावङ्गारको मतः ।
यमे तु गुरुवारः स्यान्नैरृतौ बुधवारकम् ॥ १९।१२४ ॥
वरुणे तु भवेच्छुक्रो वायव्ये चार्कजस्तथा ।
सोमे तु सोमवारः स्यादीशाने राहुसंस्थितिः ॥ १९।१२५ ॥
मध्ये केतुर्भवेद्वास्तुशास्त्रेऽस्मिन् कामिकाह्वये ।
तद्वशाद्विहितं सर्वं सर्वसिद्धिफलप्रदम् ॥ १९।१२६ ॥
स्त्रीलिङ्गं विषमं ज्ञेयं समं पुल्लिङ्गकं भवेत् ।

॥ इति कामिकाख्ये महातन्त्रे पदविन्यासविधिः सप्तदशः पटलः ॥