१६ मानोपकरणविधिः

मानोपकरणं वक्ष्ये सर्वेषां च विशेषतः ।
परमाणुक्रमाद्वृद्ध्या मानाङ्गुलमिति स्मृतम् ॥ १८।१ ॥
परमाणुरिति ख्यातो योगिनां दृष्टिगोचरः ।
रथरेणुश्च वालाग्रं लीक्षा यूको यवस्तथा ॥ १८।२ ॥
क्रमशोऽष्टगुणाः प्रोक्ता यवैः षङ्भिश्च सप्तभिः ।
अष्टाभिश्च क्रमेणैव कन्यसादिविभेदतः ॥ १८।३ ॥
अङ्गुल्यस्त्रिविधाः प्रोक्ता यावत्यः शिवशासने ।
शालिभिश्च त्रिभिः सार्धैश्चतुर्भिश्च तथायतैः ॥ १८।४ ॥
शाल्युद्भवाः समाख्यातास्त्वङ्गुलास्त्रिविधास्त्विह ।
सार्धैः षड्भिर्यवैर्वाथ सार्धैः सप्तभिरेव वा ॥ १८।५ ॥
अङ्गुलास्त्रिविधाः प्रोक्ताः सार्धैरष्टभिरेव वा ।
मध्यमाङ्गुलिमध्यस्थपर्वदीर्घं तु यद्भवेत् ॥ १८।६ ॥
श्रेष्ठं मात्राङ्गुलं प्रोक्तं पादहीनं तु मध्यमम् ।
अर्धोनमधमं प्रोक्तं मात्राङ्गुलविभेदतः ॥ १८।७ ॥
नवधा मनामुद्दिष्टं नराद्यङ्गुष्ठतोऽपि वा ।
एवं मात्राङ्गुलं प्रोक्तं यागादीनां पशस्यते ॥ १८।८ ॥
अङ्गुलैः सूर्यसङ्ख्यातैर्वितस्तिरिह कथ्यते ।
तद्द्वयं हस्तमुद्दिष्टं स किष्कुरिह सम्मतः ॥ १८।९ ॥
पञ्चविंशतिमात्रं तु प्राजापत्य इति स्मृतः ।
मात्रैस्तु षड्विंशतिभिर्धनुर्मुष्टिः प्रकीर्तितः ॥ १८।१० ॥

(पृ० ६८)

सप्तविंशतिभिर्मात्रैर्धनुर्ग्रह उदाहृतः ।
मानाङ्गुलोत्थहस्तास्तु शास्त्रेऽस्मिन् सम्प्रकीर्तिताः ॥ १८।११ ॥
पौरुषः पुरुषाज्जातस्त्वङ्गुष्ठाद्दक्षिणादिह ।
तलं प्रसार्य चाङ्गुष्ठसहितैश्चतुरङ्गुलैः ॥ १८।१२ ॥
कनिष्ठाद्यैः क्रमेणैव यवगोकर्णसञ्ज्ञकैः ।
वितस्तिः कथितश्चैवं प्रादेशस्तदनन्तरम् ॥ १८।१३ ॥
एवं विविध उद्दिष्टो हस्तः सर्वेषु वास्तुषु ।
प्राजापत्यस्य मानेन मण्डपे विग्रहेऽपि च ॥ १८।१४ ॥
मालिकायां सभायां च विशालायां च योजयेत् ।
राजधान्यादिकं राजभवनं च तटाककम् ॥ १८।१५ ॥
दुर्गं चैव धनुर्मुष्टिकरणैश्चैव कारयेत् ।
धनुर्ग्रहेण कुर्यात्तु रथ्याध्वानं विशेषतः ॥ १८।१६ ॥
प्राकारं किष्कुमानेन यानं च शयनं नयेत् ।
किष्कुमानेन वै सर्वमापन्नं तु समाचरेत् ॥ १८।१७ ॥
वितस्तिना विधातव्यं यानं च शयनं तथा ।
लिङ्गं च प्रतिमां चैव द्वारस्तम्भं च चूलिकम् ॥ १८।१८ ॥
यदस्य चोपकरणं तत्सर्वं चाङ्गुलेन तु ।
अत्यल्पं तु यवेनैवमाप्नुयान्मानवित्तमैः ॥ १८।१९ ॥
आयादिलक्षणं चैवमेभिरेव तु सम्मतम् ।
हस्तैश्चतुर्भिरुद्दिष्टो दण्डो रज्जुस्तदष्टभिः ॥ १८।२० ॥
दण्डेन मापयेद्ग्रामं नगरं पत्तनादिकम् ।
अध्वानं रज्जुना बध्वा क्षेत्रं चैव तु मानयेत् ॥ १८।२१ ॥
रज्जुं कुर्यात्तु कार्पासपट्टसूत्रादिभिर्बुधः ।
न्यग्रोधवल्कलेनाथ तालकेतकवल्कलैः ॥ १८।२२ ॥
कनिष्ठाङ्गुलिनाहा च त्रिवृता ग्रन्थिवर्जिता ।
देवविप्रमहीपानां वैश्यशूद्रैर्विवर्जिता ॥ १८।२३ ॥
तालश्च केतकी चैव न्यग्रोधो धातकी तथा ।
शणकं च क्रमेणैव देवादीनां प्रशंसिताः ॥ १८।२४ ॥
नालिकेरोत्थरज्जुश्च सर्वेषामपि शंसितम् ।
नालिकेरस्य पत्रस्य मापनं सर्वसिद्धिदम् ॥ १८।२५ ॥
दलनं द्विविधं प्रोक्तमोजयुग्मक्रमेण तु ।
पूर्वोत्तरमुखेनाथ पारम्भे दलनं भवेत् ॥ १८।२६ ॥
तेनैव मापनं कुर्यात् प्रतिमादौ विशेषतः ।
तत्पत्रसिरया वापि क्षुद्रस्कन्धेन मापयेत् ॥ १८।२७ ॥
सारदारूद्भवो हस्तदण्डो ग्रन्थ्या विवर्जितः ।
स्वायतो दीर्घसंयुक्तस्त्वर्धमात्रप्रविस्तरः ॥ १८।२८ ॥
त्रिपादविस्तरो वा स्यादेकाङ्गुलसुविस्तरः ।
तत्तदर्धघनोपेतो विस्तारेण समोऽथवा ॥ १८।२९ ॥
चतुरश्रो भवेद्यस्तु दण्डो मानुष ईरितः ।
मूले स्वायम्भुवं रूपं मध्ये लक्ष्मीस्वरूपकम् ॥ १८।३० ॥
विश्वकर्मस्वरूपं तदग्रे तु परिकल्पयेत् ।
अयं देवेषु योग्यः स्याद्दण्डो द्व्यङ्गुलविस्तरः ॥ १८।३१ ॥
सपादो वाथ सार्धो वा सुवृत्तश्चित्रितो नु वा ।
हेम्ना वा राजतेनाथ ताम्रेणैवायसाथवा ॥ १८।३२ ॥
मूलाग्रवलयोपेतो दण्डो मानविनिर्णये ।

॥ इति कामिकाख्ये महातन्त्रे मानोपकरणविधिः षोडशः पटलः ॥