(पृ० ६६)
देवानां ब्राह्मणादीनां वर्णानामनुलोमिनाम् ।
गृहग्रामादिकर्तणां शिवदीक्षान्वितात्मनाम् ॥ १७।१ ॥
अदीक्षितानामन्येषां शिवभक्त्यन्वितात्मनाम् ।
शङ्कुसंस्थापनं वक्ष्ये ग्रामादीनां शुभावहम् ॥ १७।२ ॥
ब्रह्मस्थानस्य नैरृत्यां शङ्कुस्थानं प्रकल्पयेत् ।
अन्यत्र स्थापितः शङ्कुर्ग्रामाद्यं नाशयिष्यति ॥ १७।३ ॥
दण्डप्रमाणविस्तारं षडङ्गुलसमुन्नतम् ।
शङ्क्वर्थं मण्डलं कुर्याद्देवानां च सनातनम् ॥ १७।४ ॥
युक्ताष्टषट्चतुर्मात्रं द्विमात्रोच्चं मनोहरम् ।
निर्दरं निर्जरं स्निग्धं सुस्पृश्यं सुसमं शुभम् ॥ १७।५ ॥
त्रिहस्तार्धं त्रिहस्तं च द्विहस्तार्धं द्विहस्तकम् ।
द्विजादीनां यथासङ्ख्यं योजनीयं विचक्षणैः ॥ १७।६ ॥
आपूर्य सलिलं तत्र वै?शकीलान् समोदयान् ।
खातयेत्तान् बहून् सम्यक् समान् समतरान्तरान् ॥ १७।७ ॥
तत्र फुल्लमृदा सूक्ष्मवालुकेन सगोमयम् ।
दध्याज्यक्षीरसम्मिश्रं सवल्मीकमृदा दृढम् ॥ १७।८ ॥
समं सम्पातयेत्सूत्रपातयन्त्रेण मण्डलम् ।
अजर्जरमनीचोच्चं सुस्निग्धं दर्पणोपमम् ॥ १७।९ ॥
दान्तश्च चन्दनो देवमहीदेवसमीरिताः ।
खादिरस्तिनिशो राज्ञां वणिजां शाकखादिरौ ॥ १७।१० ॥
शाकश्च तिन्दुकः कृष्णसारः स्याच्छूद्रजन्मनाम् ।
क्षीरवृक्षशमीसालाः सर्वे योग्याः समीरिताः ॥ १७।११ ॥
शङ्कुः षडङ्गुलो नाहस्त्वायामो द्वादशाङ्गुलः ।
अग्रे त्वेकाङ्गुलो वास्तु सर्ववर्णेषु योग्यकः ॥ १७।१२ ॥
चतुर्दशाङ्गुलायामस्तावान् स्यान्मूलनाहकः ।
अग्रे त्र्यङ्गुलविस्तारः शङ्कुर्वा सर्ववास्तुषु ॥ १७।१३ ॥
हस्तार्धायामनाहोऽग्रनाहस्तत्पादपादयुक् ।
एकाङ्गुलक्षयादायो मूलनाहो विधीयते ॥ १७।१४ ॥
ब्राह्मणादिचतुर्वर्णक्रमेण परिकल्पयेत् ।
देवादीनां शिरोऽग्रं स्याद्द्विजानां छत्रसन्निभम् ॥ १७।१५ ॥
कुशकीचकपत्राभं भूपानां वैश्यजन्मनाम् ।
कदलीमुकुलाग्रं स्याच्छूद्राणां मण्डलाग्रकम् ॥ १७।१६ ॥
बैल्वं कीलं सुराणां स्यात्खादिरं सालमाग्रजम् ।
आसनं वाकुलं राज्ञां तैन्दुकं चापि खादिरम् ॥ १७।१७ ॥
कीलं विशां च शूद्राणां सर्वसामान्यमेव वा ।
योजयेद्देशिको धीमान् ख्यातशङ्कौ पुरातने ॥ १७।१८ ॥
द्रुमैरेभिः प्रकर्तव्यो ग्रामादिर्भ्रमवर्जितः ।
मध्याद्यन्तस्थितैः कीलैर्मण्डलैर्नवभिर्युतैः ॥ १७।१९ ॥
वितस्त्यन्तरितैस्तावत्कीलं सूचिसमन्वितम् ।
ग्रामकेदारशैले स्यात्सूचिरेकाङ्गुलायता ॥ १७।२० ॥
यवोदरमुखां हेमरूप्यताम्रमयीं तथा ।
पञ्चगव्येन संशोध्य भूयः शुद्धोदकेन वा ॥ १७।२१ ॥
हृदयेन तु मन्त्रेण अस्त्राद्भिः प्रोक्षयेत्तदा ।
गन्धादिभिः समभ्यर्च्य वास्तुवृद्धिमनुस्मरन् ॥ १७।२२ ॥
मण्टपे वेदिकामध्ये पञ्चहस्तविनिर्मिते ।
शङ्कुस्थानोत्तरगते क्रियामेनां समाचरेत् ॥ १७।२३ ॥
अहताभ्यां सुवासोभ्यां सर्वतः परिवेष्टितम् ।
कृतकौतुकबन्धस्तु स्थण्डिलस्थं समर्चयेत् ॥ १७।२४ ॥
(पृ० ६७)
पूर्वस्थवास्तुहोमं च स्थण्डिले सम्यगाचरेत् ।
ततः प्रभाते विमले सुवारे तु शुभे दिने ॥ १७।२५ ॥
शङ्कुं प्रक्षाल्य तोयेन गन्धाद्यैः पूजयेद्धृदा ।
दिग्देवताश्च सम्पूज्य गन्धाद्यैश्च स्वनामभिः ॥ १७।२६ ॥
भूषणोपेतपञ्चाङ्गः सोष्णीषः सोत्तरीयकः ।
सम्प्राप्तदक्षिणैर्विप्रैः शिल्पिना च समन्वितः ॥ १७।२७ ॥
शङ्कुस्थानं तु सम्प्राप्य पुण्याहं वाचयेत्ततः ।
इन्द्रादीन् परितश्चेष्ट्वा शङ्कुस्थापनमारभेत् ॥ १७।२८ ॥
शङ्कुप्रमाणया रज्ज्वा शङ्कुव्यासार्धयुक्तया ।
वृत्तं सम्भ्राम्य तन्मध्ये स्थापयेत्तमिनोदये ॥ १७।२९ ॥
पूर्वापराह्णयोः शङ्कोश्छायारेखागता यथा ।
तद्बिन्दुद्वयगं सूत्रं पूर्वापरदिगिष्यते ॥ १७।३० ॥
यवस्य तु तुरीयांशं पूर्वापराह्णयोर्गता ।
बिन्दुद्वयान्तरं भ्रान्तः शम्बराननपुच्छकम् ॥ १७।३१ ॥
दक्षिणोत्तरमित्युक्तमन्यथा वापि कथ्यते ।
ध्रुववेधेन वोदीचीं प्राचीं वा ध्रुवतारया ॥ १७।३२ ॥
पुष्येण श्रवणेनाथ साधयेद्विषुवोदयात् ।
मितक्षेत्रार्धमानेन चतुरश्रं तु साधयेत् ॥ १७।३३ ॥
कर्णाभ्यां भुजसाम्यं तु कम्पनेनार्जवे स्थिते ।
जलेन तलसाम्यं स्यान्मध्यमे वाथ कर्णिके ॥ १७।३४ ॥
धाम्नि प्राच्यथवा साध्यनिश्चितान् पूर्ववास्तुनः ।
प्राचीतरं तु यत्स्थानं सर्वदोषकरं भवेत् ॥ १७।३५ ॥
॥ इति कामिकाख्ये महातन्त्रे शङ्कुस्थापनविधिः पञ्चदशः पटलः ॥