१४ भूकर्षणविधिः

अतः परं प्रवक्ष्यामि ग्रामादीनां च कर्षणम् ।
सुश्वेतौ वृषभौ दान्तौ युवानौ बलसंयुतौ ॥ १६।१ ॥
अप्रोतनासिकौ साण्डौ शुभलक्षणसंयुतौ ।
ककुदं च तथा वालखुरशृङ्गाणि भूषयेत् ॥ १६।२ ॥
तदाकृतिकृतैर्हेमभूषणैर्गन्धपुष्पकैः ।
उक्तलक्षणवर्णाढ्यं गृहीत्वा गोवृषद्वयम् ॥ १६।३ ॥
तर्पयित्वा गुलैः क्षीरैस्ततः कर्षणमारभेत् ।
तस्योपकरणं द्रव्यं खादिरं देवविप्रयोः ॥ १६।४ ॥
नृपाणां खादिरो राजतरुः स्याद्वैश्यशूद्रयोः ।
निम्बश्च वकुलश्चापि गवाक्षी कट्फलस्तथा ॥ १६।५ ॥
तिन्दुकः करवर्णश्च सर्वेषां तु महीरुहाम् ।
हलश्च लाङ्गलो मुष्टिर्युगमस्य प्रकीर्तितः ॥ १६।६ ॥

(पृ० ६५)

चतुर्वितस्तिदीर्घं स्याद्धलं तन्मूलनाहकम् ।
द्विवितस्तिषडङ्गुल्यं लाङ्गलेषु प्रपठ्यते ॥ १६।७ ॥
त्रिगुणो हलदैर्घ्येण मूलोऽष्टाङगुलनाहकः ।
अग्रे तु चतुरङ्गुल्यं लाङ्गलेषु प्रशस्यते ॥ १६।८ ॥
हलदीर्घः समुद्दिष्टस्त्रिद्व्यङ्गुलघनान्वितः ।
घनद्विगुणविस्तारा पताका ध्वजयष्टिवत् ॥ १६।९ ॥
चतुर्हस्तायतश्चाग्रे वितस्तिपरिणाहकः ।
मध्ये त्रिसप्तमात्रेण नाभेर्वृत्तानिभो युगः ॥ १६।१० ॥
चतुर्वितस्तिदीर्घः स्यादेकाङ्गुलविशालकः ।
शम्यः शम्यान्तरः सम्यक् वितस्तिरिह कथ्यते ॥ १६।११ ॥
मध्ये कीलो द्विमात्रः स्यान्मध्यवामे तु षड्यवः ।
शम्यान्तरः समं शम्यालम्बनं स्याद्युगादयः ॥ १६।१२ ॥
पांसुगर्भं च तत्तल्यमयोमयमिहेष्यते ।
हिरण्मयं पांसुगर्भं देवानां प्रविधीयते ॥ १६।१३ ॥
राजतं द्विजभूपानां लोहितं वैश्यशूद्रयोः ।
यद्वा हलादिकं यत्तु तदर्धे वसुभाजिते ॥ १६।१४ ॥
एकभागं समारभ्य चतुर्भागावसानकम् ।
न्यूनं वाप्यधिकं वापि कारयेत्कर्तुरिच्छया ॥ १६।१५ ॥
रज्जुर्गोचर्मजा वापि मौञ्जीतालजवल्कलाः ।
नलिकेरकृता वापि रज्जुः सर्वत्र शंशिता ॥ १६।१६ ॥
पलाशोदुम्बराश्वत्थवटप्लक्षोद्भवास्तथा ।
हलादयः सुरादीनां सर्वे सर्वत्र वा मताः ॥ १६।१७ ॥
एवं सर्वं च सम्पाद्य देशिकः शिवविप्रजः ।
कृतमन्त्रतनुर्भूत्वा सोष्णीषरचोत्तरीयकः ॥ १६।१८ ॥
प्राप्तपञ्चाङ्गभूषस्तु वृषभौ सम्प्रपूजयेत् ।
वृषं त्र्यम्बकमन्त्रेण हलं चास्त्रेण पूजयेत् ॥ १६।१९ ॥
कर्षकं तु समाहूय वस्त्रं दत्वा द्विजोत्तमः ।
आत्मानमिव तं ध्यात्वा प्रेषयेत्कृषिकर्मणि ॥ १६।२० ॥
स्वयं चादौ तु सम्पृश्य कर्षयेद्देशिकोत्तमः ।
द्वात्रिंशद्वारमित्युक्तं देवाग्रजमहीभृताम् ॥ १६।२१ ॥
दशपञ्चाधिकं ख्यातं वैश्ये शूद्रे तु सप्तकम् ।
सर्वेषां सप्तवारं वा पञ्चवारमथापि वा ॥ १६।२२ ॥
प्राङ्मुखोदङ्मुखो वापि कृषिकर्म समारभेत् ।
एवं कृष्ट्वा समीकृत्य सण्मात्रावर्तितं क्रमात् ॥ १६।२३ ॥
तिलसर्षपमुद्गांश्च माषव्रीहिमनुक्रमात् ।
पयसा क्षालयित्वा तु वपेन्नेत्रमनुस्मरन् ॥ १६।२४ ॥
आचार्यदक्षिणां दद्यात्काञ्चनं पञ्चनिष्ककम् ।
सर्वोपकरणोपेतं दद्यात्तस्मै च गोवृसौ ॥ १६।२५ ॥
वृषौ पृष्ठावनीतौ च तयोश्चैवातिधावनम् ।
शयनं दुष्कृतञ्चान्यत् प्रजानां सर्वदोषदम् ॥ १६।२६ ॥
हलादिभङ्गे तद्वत्स्याद्रज्जुच्छेदे तथैव हि ।
प्रायश्चित्तं तदा कुर्याच्छान्तिहोमं शिवद्विजः ॥ १६।२७ ॥
तथात्र कर्षकस्यापि पतने चैवमेव हि ।
तत्रस्थानां च सस्यानां वर्धितानां च कर्षणात् ॥ १६।२८ ॥
भक्षणं गोकुलैर्धीमान् कारयेद्देशिकोत्तमः ।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रं तु वासयेत् ॥ १६।२९ ॥
गवां सवृषवत्सानां पुरीषप्रस्रवोक्षणैः ।
खुरसङ्घट्टनाघ्राणपरिभ्रमणगोष्पदैः ॥ १६।३० ॥
रोमन्थोद्गारपातैश्च फेनैर्वत्साननच्युतैः ।
पवित्रीकृतभूमध्ये ग्रामाद्यं परिगृह्यताम् ॥ १६।३१ ॥

॥ इति कामिकाख्ये महातन्त्रे भूकर्षणविधिः चतुर्दशः पटलः ॥