ततः प्रभाते स्वीकारं कुर्यात्स्नातो विभूषितः ।
वसानो नूतनं वस्त्रमुत्तरीयसमन्वितः ॥ १५।१ ॥
सूपलिप्तमहीमध्ये सर्वधान्योपरि स्थितम् ।
सितचन्दनलिप्ताङ्गं चूताश्वत्थदलान्वितम् ॥ १५।२ ॥
सर्वरत्नौषधीगर्भनिम्नगाम्भः प्रपूरितम् ।
सद्वस्त्रवदनं कुम्भं सितसूत्रविभूषितम् ॥ १५।३ ॥
सासनेन सदेहेन शिवेन समधिष्ठितम् ।
पूजयित्वा विधानेन गन्धपुष्पाक्षतैर्गुरुः ॥ १५।४ ॥
(पृ० ६४)
ततः कुम्भं समुत्क्षित्य विप्रमूर्ध्न्यधिरोपयेत् ।
वेदातोद्यकुलस्त्रीणां प्रशस्तध्वनिभिस्तथा ॥ १५।५ ॥
ततः करकनिर्गच्छदच्छिन्नजलधारया ।
ध्यायन् प्रजाहितं क्षिप्रं परिषिञ्चेत्प्रदक्षिणम् ॥ १५।६ ॥
नयेत्तु पूर्वसीमान्तं किञ्चित्तत्र विलम्ब्य च ।
तस्मादग्नेः पलाशस्य पवनेशानयोस्तथा ॥ १५।७ ॥
दिक्षु नीत्वा ततः प्राचीं नयेद्भूमिपरिग्रहे ।
आचार्यादीनथाभ्यर्च्य कर्ता दद्याच्च दक्षिणाम् ॥ १५।८ ॥
प्रवेशार्थं बलिश्चैव भूपरीक्षापरिग्रहौ ।
ग्रामाङ्गभूतदेवादौ पृथङ्नेष्टो विचक्षणैः ॥ १५।९ ॥
तत्रादौ कर्षणं कुर्यात्स्वतन्त्रैः सर्वमाचरेत् ।
सर्वं स्वतन्त्रतः कुर्याच्छ्रद्धावित्तानुसारतः ॥ १५।१० ॥
तत्र दुर्गानिवेशे तु विशेषः किञ्चिदिष्यते ।
हस्तमानावटं खात्वा भूमिमध्ये शुभे दिने ॥ १५।११ ॥
चन्दनोषिततोयेन सायं गर्तं प्रपूरयेत् ।
दर्भास्तरान्तिके तस्य पयः पीत्वा गुरुः स्वपेत् ॥ १५।१२ ॥
अस्मिन् वास्तुनि वर्धस्व धनधान्येन मेदिनि ।
उत्तमं वीर्यमास्थाय नमस्तेऽस्तु शिवा भव ॥ १५।१३ ॥
इत्युक्त्वोपोष्य शुद्धाङ्गः श्वभ्रं प्रातः परीक्षयेत् ।
सावशेषं जलं दृष्ट्वा तद् ग्राह्यं सर्वसम्पदे ॥ १५।१४ ॥
क्लिन्ने वास्तुविनाशाय शुष्के धान्यधनक्षयः ।
अह्नि वा पूरणं कृत्वा परीक्षां तु समाचरेत् ॥ १५।१५ ॥
गत्वा शतपदं चान्तः प्रत्यावृत्य निरीक्षयेत् ।
अन्यूनं चेज्जलं तत्स्थमुत्तमा भूः प्रशस्यते ॥ १५।१६ ॥
अङ्गुलेन तु हीनं चेन्मध्यमेति प्रकीर्तिता ।
ततो हीनं तु हीना स्यादतिहीना विपत्करी ॥ १५।१७ ॥
इयं परीक्षा कर्तव्या प्रवेशार्थबलेः पुरा ।
सर्वेषामपि वास्तूनां सा तु साधरणी मता ॥ १५।१८ ॥
एवं परिग्रहं कृत्वा ततः कर्षणमारभेत् ।
॥ इति कामिकाख्ये महातन्त्रे भूपरिग्रहविधिः त्रयोदशः पटलः ॥