१२ प्रवेशबलिविधिः

ग्रामादीनां च सर्वेषां प्रासादानां च सद्मनाम् ।
अन्येषामपि सर्वेषां प्रवेशबलिरुच्यते ॥ १४।१ ॥
शुभे मुहूर्ते नक्षत्रे रात्रौ दोषविवर्जिते ।
आदिशैवकुलोद्भूतः पञ्चगोचरसंस्थितः ॥ १४।२ ॥
पञ्चाङ्गभूषणोपेतः सोष्णीषः सोत्तरीयकः ।
सितानुलेपनाढ्यश्च प्रवेशबलिमारभेत् ॥ १४।३ ॥
ब्राह्मणान् भोजयेत्पूर्वं पुण्याहं वाचयेत्ततः ।
नवभागां धरां कृत्वा ब्रह्मस्थानादितः क्रमात् ॥ १४।४ ॥
नवदिक्षु बलिं दद्यान्मन्त्रेणानेन वास्तुवित् ।
इमे भूमौ वसन्तोऽत्र भूतपैशाचराक्षसाः ॥ १४।५ ॥
स्वेच्छं गच्छन्त्विमां भूमिमाशु गृह्णामि वास्तुने ।
दध्याज्यापूपसंयुक्तैरन्नैस्तेषां बलि क्षिपेत् ॥ १४।५ ॥
गीतवाद्यादिनिर्घोषैर्वेदघोषैश्च घोषयेत् ।
आचार्यं पूजयेत्पूर्वं सर्वान् सम्पूजयेत्ततः ॥ १४।६ ॥

॥ इति कामिकाख्ये महातन्त्रे प्रवेशबलिविधिः द्वादशः पटलः ॥