११ भूपरीक्षाविधिः

(पृ० ६१)

शुमे निमित्ते लब्धे च भूपरीक्षां समाचरेत् ।
शैवं ब्राह्मं तथा वास्तु वैष्णवञ्चैन्द्रमेव च ॥ १३।१ ॥
औक्षञ्च भौतिकञ्चैव आसुरञ्च पिशाचकम् ।
राक्षसं चैव वायव्यं वारुणाग्नेयकौ तथा ॥ १३।२ ॥
जानीयाल्लक्षणैरेतैर्भूगुणं देशिकोत्तमः ।
कर्णिकारार्जुनाअश्वत्थकपित्थाशोकघातकी ॥ १३।३ ॥
स्थलारविन्दतुलसीदूर्वाभिर्वा तता मही ।
विष्णुक्रान्ताखुकर्णाभ्यां शाल्मली गिरिशारिबा ॥ १३।४ ॥
कपोतशुकहंसैश्च शैवी सा शुभदा मही ।
बिल्वैः पलाशैर्दर्भैश्च कुशैश्च हरिणैस्तथा ॥ १३।५ ॥
होमद्रव्यैः सुगन्धैश्च भूर्ब्राह्मी शुभदा मता ।
तिन्दुकैस्तिन्त्रिणीभिश्च करजैर्वेणुभिस्तथा ॥ १३।६ ॥
कार्पासार्कजपाभिश्च हंसैः पक्षिमृगैस्तथा ।
निष्कण्टकैस्तथा वृक्षैर्या भूमिः सहिता भवेत् ॥ १३।७ ॥
वैष्णवी भूः समाख्याता शौर्यवीर्यप्रदा नृणाम् ।
कदलीपनसाम्रैश्च पुन्नागैर्वकुलैस्तथा ॥ १३।८ ॥
पाटलैः सिन्धुवारैश्च तथा चामलकैः पुनः ।
इन्दीवरैश्च वैश्यैश्च शूद्रैरैन्द्री मही मता ॥ १३।९ ॥
पाटल्यगरुगन्धाढ्या धनधान्यसमृद्धिदा ।
अङ्कोलैश्च तथा वृक्षैर्मार्जालैर्नकुलैस्तथा ॥ १३।१० ॥
शशगोधाचकोरैश्च वृकैरौक्षमही मता ।
शौर्यवीर्यकरी सा स्यात्प्रजासम्पत्समृद्धिदा ॥ १३।११ ॥
निर्गुण्डी माधवी दूर्वा त्वङ्कोलैः किंशुकैस्तथा ।
मल्लिकाकरवीरैश्च मधूकैर्भौतिकी मता ॥ १३।१२ ॥
अन्नदा पुष्टिदा नॄणां भस्मगन्धसमन्विता ।
भल्लातकैर्महावृक्षैर्दुष्टसत्त्वैः पलाण्डुभिः ॥ १३।१३ ॥
किरातैः ककुभैर्गृध्रैर्धूर्तैः सर्वैः समन्विता ।
आसुरी युद्धदा भूमिः पूतिगन्धसमन्विता ॥ १३।१४ ॥
शाल्मलीभिस्तथा भूमिर्वकुलैश्च विभीतकैः ।
श्लेष्मातकैः खरैरुष्ट्रैः सृगालैः सूकरैः पुनः ॥ १३।१५ ॥
चण्डालैश्च पुलिन्दैश्च पूतिगन्धोषरा च सा ।
पैशाची च स्मृता शास्त्रैः सर्वनाशसमन्विता ॥ १३।१६ ॥
चण्डालविषचोरैश्च शिरोरोगादिभिस्तथा ।
मरीचगुलगन्धाढ्या राक्षसी सा क्षयप्रदा ॥ १३।१७ ॥
गोमायुगणसङ्कीर्णा झिल्लिका शर्करान्विता ।
या वायव्येति सा प्रोक्ता दुःखनैर्धन्यदायिका ॥ १३।१८ ॥
या पूगैरावृता भूमिर्वारुणी सर्वसिद्धिदा ।
स्नुहिश्लेष्मातकाद्यैश्च संयुक्ता क्षुद्रशर्करैः ॥ १३।१९ ॥
ऊषरा तोयहीना च आग्नेयी सर्वनाशिनी ।
शैवे शैवी समाख्याता वैष्णवी विष्णुदेशके ॥ १३।२० ॥
ब्राह्मी स्याद् ब्रह्मदेशे तु शैवी विप्रादियोग्यका ।
शैवी विप्रविषिष्टा च ब्राह्मी स्याद्वैष्णवी च भूः ॥ १३।२१ ॥
भूभृतां स्याद्विशामौक्षी शूद्राणां भौतिकी स्मृता ।
पैशाची त्वासुरी भूमी राक्षसी या च भूर्मता ॥ १३।२२ ॥
अन्त्यजानामिह प्रोक्ता शतशः कर्षिता च या ।
सा च गोभिश्चिरं भित्त्वा भूर्ग्राह्या वत्सरोर्ध्वतः ॥ १३।२३ ॥
क्षेत्रस्थितिवशादुर्वी कथिता त्वनुलोमिनाम् ।
अनूपा जाङ्गला चेति वास्तुयोग्या द्विधा धरा ॥ १३।२४ ॥

(पृ० ६२)

स्थिरं गुरुतरं भूरिशर्करं क्षारवारिणा ।
युक्तमल्पीयसात्यन्तं खातेऽगाधेऽपि जाङ्गलम् ॥ १३।२५ ॥
कशेरुकैरवाकीर्णं रूढसौगन्धिकोत्पलम् ।
सूक्ष्मवालुकमानूपं कृषिकृत्युच्चलज्जलम् ॥ १३।२६ ॥
जाङ्गलानूपसम्मिश्रगुणं साधारणं स्मृतम् ।
जाङ्गलं कदलीतालपनसादितरूद्भवम् ॥ १३।२७ ॥
सर्वसस्योचितं पुष्पफलवृक्षसुखोदयम् ।
सर्वर्तुसुखदं सर्वहितमानूपमिष्यते ॥ १३।२८ ॥
तयोः सम्पर्कसंयुक्तं साधारणमुदाहृतम् ।
पद्मकं भद्रकं धूम्रं पूर्णञ्चेति चतुर्विधम् ॥ १३।२९ ॥
समसंस्पर्शनं स्निग्धं सुगन्धं सुस्वरं स्थिरम् ।
करोदाञ्जलिमात्रोद्यदुदकं वास्तु पद्मकम् ॥ १३।३० ॥
प्राच्युदीच्युदकं सस्यं दक्षिणेशं पुरोवनम् ।
सौम्यं सारतरं तत्तु प्रागुदग्वीरणान्वितम् ॥ १३।३१ ॥
सुद्रव्यं रमणीयं सज्जनस्थानं तु भद्रकम् ।
पूर्णकं धूम्रकं नित्यमनिलानलदिक्प्लवम् ॥ १३।३२ ॥
उत्तमं मध्यमं नीचं नित्यं चेति चतुर्विधम् ।
दशदण्डप्रमाणं तु षण्मात्रावनतं तु यत् ॥ १३।३३ ॥
उत्तमं स्याद्वितस्त्या तु मध्यं हस्तेन चाधमम् ।
तन्मन्दमध्यत्वरितजलावहसमन्वितम् ॥ १३।३४ ॥
हस्तादधिकनिम्नं तु निन्दितं वास्तु कीर्तितम् ।
चतुरश्रं समं यत्तु देवनाञ्च द्विजन्मनाम् ॥ १३।३५ ॥
अष्टषट्चतुरश्रं यद्युक्तं तु नृपवैश्ययोः ।
शूद्रस्यापि यथासङ्ख्यं कल्पयेद्देशिकोत्तमः ॥ १३।३६ ॥
श्रेष्ठं पूर्वायतं वास्तु मध्यमं दक्षिणोत्तरम् ।
श्वेतं रक्तं च पीतञ्च कृष्णं विप्रादितः क्रमात् ॥ १३।३७ ॥
मृदङ्गवेणुवीणादि दुन्दुभिध्वनिसंयुतम् ।
पुन्नागजातिपुष्पाब्जधान्यपाटलगन्धकैः ॥ १३।३८ ॥
पशुगन्धसमं श्रेष्ठं सर्वबीजप्ररोहणम् ।
एकवर्णं घनं स्निग्धं सुखसंस्पर्शनान्वितम् ॥ १३।३९ ॥
कुब्जाङ्गमुक्तमाकाशं नीचच्छन्नं परं सुखम् ।
तिक्तं च कटुकं चैव कषायमधुराम्लकम् ॥ १३।४० ॥
लवणं षड्रसैर्युक्तं युक्तं सर्वसुखावहम् ।
प्रदक्षिणोदकोपेतं करमात्रोच्चलज्जलम् ॥ १३।४१ ॥
निष्कपालं निरुपलं क्रिमिवल्मीकवर्जितम् ।
सुषिरास्थिविहीनं तु तनुवालुकसंयुतम् ॥ १३।४२ ॥
अङ्गारतुषहीनं तु वृक्षमूलविवर्जितम् ।
पङ्कशेषोज्झितं श्वभ्रदरीलोष्टविवर्जितम् ॥ १३।४३ ॥
सर्कराभस्महीनं तु सभाचैत्यसमीपगम् ।
दुष्टप्राणिसमीपस्थं नृपमन्दिरसंश्रितम् ॥ १३।४४ ॥
देवालयसमीपस्थं कण्टकद्रुमसंयुतम् ।
चण्डालवास्तुकं चैव कर्मकारालयाश्रितम् ॥ १३।४५ ॥
एकद्वित्रिचतुर्मार्गावृतमव्यक्तमार्गकम् ।
शङ्करारामसंयुक्तं तस्य क्षेत्रं तु वर्जयेत् ॥ १३।४६ ॥
अन्यदेवंविधं वास्तु सर्वदोषकरं भवेत् ।
यत्कर्म विहितं मोहादेवम्भूते तु वास्तुनि ॥ १३।४७ ॥
तन्महादोषदं यस्मात्सर्वथा तद्विवर्जयेत् ।
हीनजातेः समुद्दिष्टमुत्कृष्टानां विधीयते ॥ १३।४८ ॥
उत्कृष्टोक्तं न हीनस्य सर्वदेवेषु योग्यकम् ।
मिश्रवर्णयुतं वास्तु श्रेष्ठं तद्वर्णजन्मनाम् ॥ १३।४९ ॥
पूर्यमाणे महीं खात्वा गर्ते स्वैरेव पांसुभिः ।
अधिकन्यूनतुल्येषु पांसुष्वेतादृशं फलम् ॥ १३।५० ॥
तत्पांसुधारणे षष्टिशतं फलविवेकतः ।
सपुष्पकुम्भतोयेन पूर्यमाणेऽवटे यदि ॥ १३।५१ ॥
शस्तं प्रदक्षिणावर्तमुदकं शान्तबुद्बुदम् ।
उत्तानपुष्पकं श्रेष्ठं न त्वधोमुखपुष्पकम् ॥ १३।५२ ॥

(पृ० ६३)

सर्षपाणां तिलानां वा चोप्तानामङ्कुरा भुवि ।
त्रिरात्रेण प्रजायन्ते यस्यां सा स्याच्छुभा मही ॥ १३।५३ ॥
पूर्वोत्तरप्लवा श्रेष्ठा मध्यमा सर्वतः प्लवा ।
सापि ग्राह्या गृहादौ तु सा चोल्बणगुणान्विता ॥ १३।५४ ॥
कुमारराजधानी वा न्यायाप्ता सा मही मता ।
एवं परीक्ष्य गृह्णीयान्महीं बहुगुणान्विताम् ॥ १३।५५ ॥
वेतालादेः पुनः सम्यक् प्रवेशबलिमाहरेत् ।

॥ इति कामिकाख्ये महातन्त्रे भूपरीक्षाविधिः एकादशः पटलः ॥