(पृ० ६०)
आदौ कालं परिक्ष्यान्ते शुभकर्म समाचरेत् ।
निमित्तशकुनानादौ ज्ञात्वा कर्म समाचरेत् ॥ १२।१ ॥
वास्तुविद्देशिकः शिल्पी दैवज्ञो यजमानकः ।
शुचिः शुक्लाम्बरो भूत्वा भूषणैः समलङ्कृतः ॥ १२।२ ॥
प्रस्थाने निर्गमे चैव वास्तुदेशप्रवेशने ।
निमित्तान् शकुनानेतान् पश्येद्ध्यात्वा सदाशिवम् ॥ १२।३ ॥
विद्वांसो ब्राह्मणो वापि पत्नीपुत्रयुतो बली ।
भूषिता वा सुपुत्रा वा हर्षिता च विशेषतः ॥ १२।४ ॥
रूपिणी गर्भिणी कन्या क्रीडन्तश्च विशेषतः ।
भक्ष्यं भोज्यं च पानं च मांसं दीपं तथैव च ॥ १२।५ ॥
अनुलेपनमालादि गन्धद्रव्यं घृतं दधि ।
श्रीवत्सं पूर्णकुम्भं च शङ्खं गोरोचनं तथा ॥ १२।६ ॥
आदर्शनं ध्वजं चैव सिद्धार्थं च पयः पुनः ।
यान्यन्यानि प्रशस्तानि शुभं तेषां तु दर्शनम् ॥ १२।७ ॥
चुचुन्दरी शिवा गौली सूकरश्चापि पिङ्गलः ।
कोकिलं वामतः शस्तं प्रस्थाने सर्वकर्मणि ॥ १२।८ ॥
आसन्ननिम्नगाः शीघ्रं दूरादुन्नतदूरगाः ।
हर्म्यप्रासादमाङ्गल्यमनोज्ञस्थानसंश्रिताः ॥ १२।९ ॥
श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च ।
न ग्रामेऽरण्यगौर्ग्राह्यो नारण्ये ग्रामसंस्थितः ॥ १२।१० ॥
दिवाचरो न शर्वर्यां न च नक्तञ्चरो दिवा ।
द्वन्द्वगौ चार्थितौ ग्राह्यौ काकोलस्त्विष्टकाङ्क्षिणः ॥ १२।११ ॥
आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित् ।
क्षुतं सर्वत्र नेष्टं स्याद्गोक्षुतं मरणं दिशेत् ॥ १२।१२ ॥
गुलास्थिकृष्णधान्यानि कार्पासाङ्गारगोचरः ।
नियतेरिन्धनानां च दर्शनं शोकदं भृशम् ॥ १२।१३ ॥
चर्मकृन्मुक्तकेशादिरणक्षुत्क्षाममुण्डिनाम् ।
मलिनाभक्तनग्नादेर्दर्शनं दुःखदं भवेत् ॥ १२।१४ ॥
आक्रोशं रोदनं चैव कलहः शोकदः पुनः ।
वराहमहिषोष्ट्रादेर्दर्शनं च तथा भवेत् ॥ १२।१५ ॥
प्रतिकूले निमित्ते च सर्वकर्म विवर्जयेत् ।
एकधा द्वित्रिधा कृत्वा निमित्तत्रयदोषकृत् ॥ १२।१६ ॥
वर्जयेद्देशिको धीमान् पञ्चगोचरसंयुतः ।
॥ इति कामिकाख्ये महातन्त्रे निमित्तपरीक्षाविधिः दशमः पटलः ॥